ब्रह्माण्डपुराणम्/पूर्वभागः/अध्यायः १२
← अध्यायः ११ | ब्रह्माण्डपुराणम्/पूर्वभागः अध्यायः १२ [[लेखकः :|]] |
अध्यायः १३ → |
सूत उवाच ।
योऽसावग्नेरभिमानी स्मृतः स्वायंभुवेऽन्तरे ।
ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत १ ।
पावकं पवमानं च शुचिरग्निश्च यः स्मृतः ।
निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः २ ।
शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्तु ते त्रयः ।
निर्मथ्यः पवमानस्तु शुचिः सौरस्तु यः स्मृतः ३ ।
अब्योनिर्वैद्युतश्चैव तेषां स्थानानि तानि वै ।
पवमानात्मजश्चैव कव्यवाहन उच्यते ४ ।
पावकिः सहरक्षस्तु हव्यवाहः शुचेः सुतः ।
देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः ५ ।
सह रक्षोऽसुराणां तु त्रयाणां तु त्रयोऽग्नयः ।
एतेषां पुत्रपौत्रास्तु चत्वारिंशन्न वैव तु ६ ।
वक्ष्यामि नामभिस्तेषां प्रविभागं पृथक्पृथक् ।
विश्रुतो लौकिकोऽग्निस्तु प्रथमो ब्रह्मणः सुतः ७ ।
ब्रह्मो दत्ताग्निसत्पुत्रो भरतो नाम विश्रुतः ।
वैश्वानरः सुतस्तस्य वहन् हव्यं समाः शतम् ८ ।
संभृतोऽथर्वणा पूर्वमेधितिः पुष्करोदधौ ।
सोथर्वा लौकिकोऽग्निस्तु दर्पहाऽथर्वणः स्मृतः ९ ।
अथर्वा तु भृगुर्जज्ञे ह्यग्निराथर्वणः स्मृतः ।
तस्मात्स लौकिकोऽग्निस्तु दध्यङ्ङाथर्वणो मतः १० ।
आथर्वः पवमानस्तु निर्मथ्यः कविभिः स्मृतः ।
स ज्ञेयो गार्हपत्योऽग्निस्तस्य पुत्रद्वयं स्मृतम् ११ ।
शंस्यस्त्वाहवनीयोऽग्नेः स्मृतो यो हव्यवाहनः ।
द्वितीयस्तु सुतः प्रोक्तः शुकोऽग्निर्यः प्रणीयते १२ ।
तथा सव्यापसव्यौ च शंस्यस्याग्नेः सुतावुभौ ।
शंस्यस्तु षोडश नदीश्चकमे हव्यवाहनः १३ ।
यो सावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः ।
कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा १४ ।
गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ।
विपाशां कौशिकीं चैव शतद्रूं सरयूं तथा १५ ।
सीतां सरस्वतीं चैव ह्रादिनीं पावनीं तथा ।
तासु षोडशधामानं प्रविभज्य पृथक्पृथक् १६ ।
आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः ।
कृत्तिकाचारिणी धिष्णी जज्ञिरे ताश्च धिष्णयः १७ ।
धिष्णीषु जज्ञिरे यस्माद् धिष्णयस्तेन कीर्त्तिताः ।
इत्येते वै नदीपुत्रा धिष्णीष्वेवं विजज्ञिरे १८ ।
तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः ।
ताञ्शृणुध्वं समासेन कीर्त्यमानान्यथातथम् १९ ।
[१]विभुः प्रवाहणो ग्नीध्रस्तत्रस्था धिष्णयोऽपरे ।
विधीयंते यथास्थानं सूत्याहे सवने क्रमात् २० ।
अनुद्देश्य निवास्यानामग्नीनां शृणुत क्रमम् ।
सम्राडग्निं कृशानुर्यो द्वितीयोंऽतरवेदिकः २१ ।
सम्राडग्नमुखानष्टौ उपतिष्ठंति तान् द्विजान् ।
परिषत्पवमानस्तु द्वितीयः सोऽनुदिश्यते २२ ।
प्रतल्कान्यो नभोनाम चत्वरेसौ विभाव्यते ।
हव्यस्ततो ह्यसंमृष्टः शामित्रेऽग्नौ विभाव्यते २३ ।
ऋतुधामा च सुज्योतिरौदुंबर्यः प्रकीर्त्यते ।
विश्वव्यचाः समुद्रो ऽग्निर्ब्रह्मस्थाने स कीर्त्यते २४ ।
ब्रह्मज्योतिर्वसुर्धामा ब्रह्मस्थाने स उच्यते ।
अजैकपादुपस्थो यः स वै शालासुखीयकः २५ ।
अनुद्देश्यो ह्यहिर्बुध्न्यो सोऽग्निर्गृहपतिः स्मृतः ।
शंस्यस्यैते सुताः सर्वे उपस्थेया द्विजैः स्मृताः २६ ।
ततो विहरणीयांश्च वक्ष्याम्यष्टौ च तत्सुतान् ।
विभुः प्रवाहणोऽग्नीध्रस्तेषां धिष्ण्यस्तथा परे २७ ।
विधीयंते यथास्थानं सौत्येऽह्नि सवने क्रमात् ।
होत्रीयस्तु स्मृते ह्यग्निर्वह्निर्यो हव्यवाहनः २८ ।
प्रशांतोऽग्निः प्रचेतास्तु द्वितीयश्चात्र नामकः ।
ततोऽग्निर्वैश्वदेवस्तु ब्राह्मणाच्छंसिरुच्यते २९ ।
उशिगग्निः कविर्यस्तु पोतोऽग्निः स विभाव्यते ।
आवारिरग्निर्वाभारिर्वैष्ठीयः स विभाव्यते ३० ।
अवस्फूर्जो विवस्वांस्तु आस्थांश्चैव स उच्यते ।
अष्टमः सुध्युरग्निर्यो मार्जालीयः स उच्यते ३१ ।
धिष्ण्यावाहरणा ह्येते सौत्येह्नीज्यंत वै द्विजैः ।
अपां योनिः स्मृतोऽसौ स ह्यप्सुनामा विभाव्यते ३२ ।
ततो यः पावको नाम्ना अब्जो यो गर्भ उच्यते ।
अग्निः सोऽवभृथे ज्ञेयो वरुणेन सहेज्यते ३३ ।
हृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां पचन् ।
मृत्युमाञ्जाठरस्याग्नेर्विद्वानग्निः सुतः स्मृतः ३४ ।
परस्परोत्थितः सोऽग्निर्भूतानीह विनिर्दहेत् ।
पुत्रस्त्वग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः ३५ ।
पिबन्नपः स वसति समुद्रे वडवामुखः ।
समुद्र वासिनः पुत्रः सहरक्षो विभाव्यते ३६ ।
सहरक्षसुतः क्षामो गृहाणां दहते नृणाम् ।
क्रव्यादग्निः सुतस्तस्य पुरुषानत्ति यो मृतान् ३७ ।
इत्येते पावकस्याग्नेः पुत्रा एव प्रकीर्त्तिताः ।
ततः शुचिस्तु वै सौरो गंधर्वैरायुराहुतः ३८ ।
मथितो यस्त्वरण्यां च सोऽग्निरग्निं समिंधति ।
आयुर्नाम्ना तु भगवानसौ यस्तु प्रणीयते ३९ ।
आयुषो महिषः पुत्रः सहसो नाम तत्सुतः ।
पाकयज्ञेष्वभीमानी सोग्निस्तु सहसः स्मृतः ४० ।
पुत्रश्च सहसस्याग्नेरद्भुतः स महायशाः ।
विविधिश्चाद्भुतस्यापि पुत्रोऽग्नेस्तु माहान्स्मृतः ४१ ।
प्रायश्चित्तेष्वभीमानी हुतं भुंक्ते हविः सदा ।
विविधेस्तु सुतो ह्यर्क्कस्तस्य चाग्नेः सुता इमे ४२ ।
अनीकवान् वाजसृक् च रक्षोहा चष्टिकृत्तथा ।
सुरभिर्वसुरन्नादो प्रविष्टो यः स रुक्मराट् ४३ ।
शुचेरग्नेः प्रजा ह्येषा वह्नयश्च चतुर्द्दश ।
इत्येते चाग्नयः प्रोक्ताः प्रणीयंतेध्वरेषु वै ४४ ।
आदिसर्गे व्यतीता वै यामैः सह सुरोत्तमैः ।
स्वायंभुवेऽन्तरे पूर्वमग्नयस्तेभिमानिनः ४५ ।
एते विहरणीयेषु चेतनाचेतनेषु वै ।
स्थानाभिमानिनो लोके प्रागासन्हव्यवाहनाः ४६ ।
काम्यनैमित्तिका यज्ञेष्वेते कर्मस्ववस्थिताः ।
पूर्वमन्वतरेऽतीताः शुक्रैर्यागैश्च तैः सह ४७ ।
देवैर्महात्मभिः पुण्यैः प्रथमस्यांतरे मनोः ।
इत्येतानि मजोक्तानि स्थानानि स्थानिनश्च ह ४८ ।
तैरेव तु प्रसंख्यातमतीतानागतेष्विह ।
सन्वंतरेषु सर्वेषु लक्षणं जातवेदसाम् ४९ ।
सर्वे तपस्विनो ह्येते सर्वे ब्रह्मभृतस्तथा ।
प्रजानां पतयः सर्वे ज्योतिष्मंतश्च ते स्मृताः ५० ।
स्वारोचिषादिषु ज्ञेयाः सावर्ण्यं तेषु सप्तसु ।
मन्वंतरेषु सर्वेषु नामरूपप्रयोजनैः ५१ ।
वर्त्तंते वर्त्तमानैश्च यामैर्देवैः सहाग्नयः ।
अनागतैः सुरैः सार्द्धं वर्त्स्यंतेऽनागताग्नयः ५२ ।
इत्येष निचयोऽग्नीनामनुक्रांतो यथाक्रमम् ।
विस्तरेणानुपुर्व्या च पितॄणां वक्ष्यते पुनः ५३ ।
इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे।
अग्निनिचयो नाम द्वादशोऽध्यायः १२ ।