भगवद्भक्तिरसायनम्/प्रथमः उल्लासः
भगवद्भक्तिरसायनम् प्रथमः उल्लासः श्रीमधुसूदनसरस्वती |
द्वितीयः उल्लासः → |
श्रीमधुसूदनसरस्वतीप्रणीतं श्रीभगवद्भक्तिरसायनम्
तद्विरचिता प्रथमोल्लासस्य टीकामतल्लिका च ।
प्रथमःउल्लासः
नवरसमिलितं वा केवलं वा पुमर्थं
परममिह मुकुन्दे भक्तियोगं वदन्ति ।
निरुपमसुखसंविद्रूपमस्पृष्टदुम्खं
तमहमखिलतुष्ट्यै शास्त्रदृष्ट्या व्यनज्मि ॥१॥
टीकाः
पदनखनिविष्टमूर्तिभिरेकादशतामिवावहन्निष्टाम् ।
यं समुपास्ते गिरिशस्तं वन्दे नन्दमन्दिरे कंचित॥
ग्रन्थारम्भे सम्भावितविघ्ननिवारणबुद्ध्या भगवदनुध्यानरूपमङ्गल्मङ्गीकुर्वन्नादौ प्रेक्षापूर्वकारिप्रवृत्त्यङ्गतयाभिधेयप्रयोजनसम्बन्धानाचष्टे शिष्टाग्रणीग्रन्थकारो नवरसेति ।
कर्मयोगोऽष्टाङ्गयोगो ज्ञानयोगो भक्तियोग इति चत्वारं पुमर्थत्वेन प्रसिद्धा योगाम्—
योगास्त्रयो मया प्रोक्ता न्èणां श्रेयोविधित्सया ।
ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्रचित॥ (११.२०.६)
इति भगवद्वचनेनाष्टाङ्गयोगोऽपि ज्ञानयोगान्तर्गतो द्रष्टव्यम् ।
मन एकत्र संयुञ्ज्याज्जितश्वासो जितासनम् ।
वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितम् ॥ (११.९.११)
इत्यपि तस्यापि व्युत्पादनात। तत्र—गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि, चत्वारि वेदव्रतानि, स्नानं सहधर्मचारिणीसंयोगम्, पञ्चमहायज्ञानामनुष्ठानमष्टकापार्वणश्राद्धश्रावण्याग्रहायणी चैत्र्याश्वयुजी चेति सप्तपाकयज्ञसंस्था, अग्न्याधेयमग्निहोत्रदर्शपौर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धं सौत्रामणी चेति सप्त हविर्यज्ञस्थाम्, अग्निष्टोमोऽत्यग्निष्टोमे उक्थ्यं षोडशी वाजपेयोऽतिरात्राप्तोर्याम इति सप्त सोमयज्ञसंस्थाश्च इत्यादिशास्त्रविहितो वर्णाश्रमधर्मरूपं कर्मयोगोऽन्तम्करणशुद्धिसाधनत्वेन तावत्पर्यन्तमनुष्ठेयम्—
तावत्कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्कथाश्रवणादौ वा श्रद्धा यावन्न जायते ॥ (११.२०.९)
इति भगवद्वचनात।
अन्तम्करणशुद्धिसाधनत्वं च—तस्य धर्मेण पापमपनुदति तस्माद्धर्मं परमं वदन्ति, येन केन यज्ञेनापि वा दर्विहोमेनानुपहतमना एव भवति इत्यादि श्रुतिसिद्धम् ।
ततश्चाद्रुतचित्तस्यनिर्वेदपूर्वकं तत्त्वज्ञानम् । द्रुतचित्तस्य तु भगवत्कथाश्रवणादिभागवतधर्मश्रद्धापूर्विका भक्तिरित्यवधित्वेन द्वयमप्युपात्तम् । ततोऽन्तम्करणशुद्ध्याष्टाङ्गयोगमनुष्ठाय तैलधारावदविच्छिन्नभगवदेकाकारप्रत्ययपरम्परात्मकैकाग्रतायोग्यं मनं सम्पादयेत।
यदारम्भेषु निर्विण्णो विरक्तं संयतेन्द्रियम् ।
अभ्यासेनात्मना योगी धारयेदचलं मनम् ॥
धार्यमाणं मनो यर्हि भ्राम्यदाश्वनवस्थितम् ।
अतन्द्रितोऽनुरोधेन मार्गेणात्मवशं नयेत॥ (११.२०.१८१९)
इत्यादिभगवद्वचनात।
तस्मिंश्च सति अमानित्वमदम्भित्वमित्यारभ्य एतज्ज्ञानमिति प्रोक्तं [गीता १३.७११] इत्यन्तेन ग्रन्थेन श्रीमद्भगवद्गीतोपनिषदुपदिष्टो ज्ञानयोगं प्रतिष्ठितो भवति देहेन्द्रियाद्यनासङ्गात्मकम् । अस्य च ज्ञानयोगस्य भक्तियोगोऽवधिम् ।
साङ्ख्येन सर्वभावानां प्रतिलोमानुलोमतम् ।
भवाप्ययावनुध्यायेन्मनो यावत्प्रसीदति ॥
निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनम् ।
मनस्त्यजति दौरात्म्यं चिन्तितस्यानुचिन्तया ॥
यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया ।
ममार्चोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनम् ॥ (११.२०.२२२४)
इत्यादिभगवद्वचनात।
प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेम् ।
कामा हृदय्या नश्यन्ति सर्वे मयि हृदि स्थिते ॥ (११.२०.२९)
इत्यादिभगवद्वचनानुसारिण्या साधनभक्तिनिष्ठया निखिलमपि विषयनिष्ठप्रेमाणं भगवत्येव प्रतिष्ठापयतं सकलविषयविमुखमनसो महाभागस्य कस्यचिद्भगवद्गुणगरिमग्रन्थनरूपग्रन्थश्रवणजनितद्रुतिरूपायां मनोवृत्तौ सर्वसाधनफलभूतायां गृहीतभगवदाकारायां विभावानुभावव्यभिचारिसंयोगेन रसरूपतयाभिव्यक्तो भगवदाकारतारूपो रत्याख्यस्थायिभावं परमानन्दसाक्षात्कारात्मकं प्रादुर्भवति । स एव भक्तियोग इति तं परमं निरतिशयं पुरुषार्थं वदन्ति रसज्ञाम् ।
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनम् ।
न ज्ञानं न च वैराग्यं प्रायं श्रेयो भवेदिह ॥
यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत।
योगेन दामधर्मेण श्रेयोभिरितरैरपि ॥
सर्वं मद्भक्तियोगेन मद्भक्तो लभतेऽञ्जसा ।
स्वर्गापवर्गं मद्धाम कथञ्चिद्यदि वाञ्छति ॥
न किञ्चित्साधवो धीरा भक्ता ह्येकान्तिनो मम ।
वाञ्छन्त्यपि मया दत्तं कैवल्यमपुनर्भवम् ॥
नैरपेक्ष्यं परं प्राहुर्निम्श्रेयसमनल्पकम् ।
तस्मान्निराशिषो भक्तिर्निरपेक्षस्य मे भवेत॥
न मय्येकान्तभक्तानां गुणदोषोद्भवा गुणाम् ।
साधूनां समचित्तानां बुद्धें परमुपेयुषाम् ॥ (११.२०.३१३६)
इत्यादिवचनानि, तदनुभवितारश्च ।
दुम्खासम्भिन्नसुखं हि परमं पुरुषार्थ इति सर्वतन्त्रसिद्धान्तं धर्मार्थकाममोक्षाश्चत्वारं पुरुषार्था इति प्रसिद्धिस्तु लाङ्गलं मम जीवनमितिवत्साधने फलत्ववचनादौपचारिकी । अतो न सुखमेव पुरुषार्थ इति पक्षहानिम् ।
सुखं दुम्खाभावश्च द्वौ पुरुषार्थाविति तार्किकाम् । तन्न, लाघवेन सुखमात्रस्यैव पुरुषार्थत्वकल्पनात। इच्छाजनकत्वे हि ज्ञानस्य सुखविषयकत्वमेवावच्छेदकम् । न तु सुखदुम्खाभावान्यतरविषयकत्वं गौरवात। दुम्खाभावस्य तु सुखपरिचायकत्वेनैवोपयोगम् ।
यत्तु न्यायनिबन्धनकारैं शङ्कितम्—दुम्खाभावस्य सुखार्थत्वेनैवोपयोगेऽभिहिते सुखस्यापि दुम्खाभावार्थत्वेनोपयोगो वक्तुं शक्यते, व्याप्यव्यापकभावस्यैव विनिगमकत्वात। यदा सुखं तदा दुम्खाभाव इति हि व्याप्तिं सर्वसम्मता, निरुपाधिसहचारदर्शनात। अतो दुम्खाभावस्य सुखकालेऽवश्यम्भावित्वात्, सुखपरिचायकत्वमुपपद्यते, तद्व्यापकत्वात्तस्य । यदा दुम्खाभावस्तदा सुखमिति न तद्व्याप्तिम् । सुषुप्तिप्रलयादौ व्यभिचारात। अतो दुम्खाभावस्य सुखाव्याप्यत्वान्न तत्परिचायकत्वं सुखस्य । व्यापकं हि व्याप्यस्थितिहेतुत्वेनान्यथासिद्धम् । सुखं च न दुम्खाभावव्यापकमतस्तदेव स्वतन्त्रं पुरुषार्थम् ।
दुम्खाभावस्य सुखार्थत्वेनोपयोगे सर्वसुखशून्यस्य दुम्खाभावस्य मोक्षस्य पुरुषार्थत्वं न स्यादिति चेत्, दीयतां जलाञ्जलिस्तस्मै । परमानन्दरूपत्वेन तु तस्य पुरुषार्थत्वं वेदान्तविदो वदन्ति ।
अतो भगवद्भक्तियोगस्यापि दुम्खासम्भिन्नसुखत्वेनैव परमपुरुषार्थत्वमित्याह—निरुपमसुखसंविद्रूपमस्पृष्टदुम्खमिति ।
एतेन भक्तिर्न पुरुषार्थो धर्मार्थकाममोक्षेष्वनन्तर्भावादित्यादिकं सर्वमपास्तम् । धर्मार्थकामानां स्वतं पुरुषार्थत्वाभावात्तज्जन्यसुखस्यैव पुरुषार्थत्वे गौरवादननुगमाच्च धर्मजन्यत्वादिविशेषणं परित्यज्य सुखमात्रं पुरुषार्थ इति स्थिते समाधिसुखस्येव भक्तिसुखस्यापि स्वतन्त्रपुरुषार्थत्वात। तस्य मोक्षसमीपवर्तितया मोक्षान्तर्भूतत्वे योगजधर्मजन्या धर्मान्तर्भूतत्वे वा भक्तिसुखस्यापि भागवतधर्मजन्यतया धर्मातर्भावस्य श्रद्धाजडान्प्रति वक्तुं शक्यत्वात। भक्तस्य संसारमोक्षस्यावश्यकत्वान्मोक्षान्तर्गतो वा भक्तियोगम् । तस्मात्पुरुषार्थचतुष्टयऽन्तर्गतत्वेन वा स्वातन्त्र्येण वा भक्तियोगं पुरुषार्थं परमानन्दरूपत्वादिति निर्विवादम् ।
तस्य परमानन्दरूपतामुपपादयन्नवान्तरविभागमाह—नवरसमिलितं वा केवलं वेति । स्पष्टमेतदुपरिष्टात्करिष्यते । मुकुन्द इति भक्तियोगस्य विषयनिर्देशम् । सर्वान्तर्यामी सर्वेश्वर एव भक्तिरसालम्बनविभाव इति वक्ष्यते । ग्रन्थादौ चेदं मङ्गलमाचरितम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिम् ॥ इति स्मृतेम् ।
तमहं व्यन्ज्मि इत्यभिधेयसम्बन्धनिर्देशं शास्त्रदृष्ट्येत्यमूलत्वनिवारणम् । अखिलतुष्ट्यै इति प्रयोजननिर्देशम् । साधूनां हि तुष्टिं स्वाभाविकी । अन्येषामप्येतद्ग्रन्थोक्तयुक्तिभिरसम्भावनाविपरीतभावनादिनिवृत्त्यान्तम्करणशुद्धेर्हेतोरित्यभिप्रायम् ।
के पुनर्भक्तियोगस्य पुमर्थत्ववादां ? शृणु तान्—
न ह्यतोऽन्यं शिवं पन्था विशतं संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत॥ (२.२.३३)
धर्मं स्वनुष्ठितं पुंसां विष्वक्सेनकथासु यम् ।
नोत्पादयेद्यदि रतिं श्रम एव हि केवलम् ॥ (१.२.८)
दानव्राततपोहोम जपस्वाध्यायसंयमैम् ।
श्रेयोभिर्विविधैश्चान्यैं कृष्णे भक्तिर्हि साध्यते ॥ (१०.४७.२४)
भगवान्ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत॥ (२.२.३४)
एतावानेव लोकेऽस्मिन्पुंसां निम्श्रेयसोदयम् ।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थिरम् ॥ (३.२५.४४)
या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात॥ (४.९.१०) इत्यादयम् ।
अत्र हि सर्वसुकृतसाध्यत्वेन तात्पर्यविषयत्वेन चार्थान्निम्श्रेयसनिर्वृतिशब्दाभ्यां च साक्षादेव पुरुषार्थत्वं दर्शितम् । श्रीमद्भगवद्गीतासु च—
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतम् ॥ (गीता ६.४७) इत्यादिना ।
ननु भक्तियोगस्य साधनत्वमपि बोधयन्त्यन्ये वादाम्—
वासुदेवे भगवति भक्तियोगं प्रयोजितम् ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ (१.२.७)
अकामं सर्वकामो वा मोक्षकाम उदारधीम् ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ (२.३.१०)
केचित्केवलया भक्त्या वासुदेवपरायणाम् ।
अघं धुन्वन्ति कार्त्स्न्येन नीहारमिव भास्करम् ॥ (६.१.१५)
श्रीमद्भगवद्गीतासु च—
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतम् ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ (११.५५) इत्यादयम् ।
अत्रान्यसाधनत्वेन साक्षादपुरुषार्थत्वं स्पष्टमेवोक्तम् ।
अत्रोच्यते—फलसाधनभेदेन भक्तिद्वैविध्योपपत्तेरदोषम् । तथा हि—भजनमन्तम्करणस्य भगवदाकारतारूपं भक्तिरिति भावव्युत्पत्त्या भक्तिशब्देन फलमभिधीयते । तस्य च निरतिशयपुमर्थत्वात्पूर्वोक्तवादानां प्रामाण्यमव्याहतम् । तथा—भज्यते सेव्यते भगवदाकारमन्तम्करणं क्रियतेऽनयेति करणव्युत्पत्त्या भक्तिशब्देन श्रवणकीर्तनादिसाधनमभिधीयते, तस्य पुरुषार्थत्वाभावात्साधनत्ववादानामपि प्रामाण्यमविरुद्धम् । यथा—विज्ञप्तिर्विज्ञानमिति भावव्युत्पत्त्या विज्ञानमानन्दं ब्रह्म [बृ.आ.उ. ३.९.२] इत्यत्र विज्ञानशब्दो ब्रह्मणि वर्तते । विज्ञायतेऽनेनेति करणव्युत्पत्त्या विज्ञानं यज्ञं तनुते [तै.उ. २.५.१] इत्यादावन्तम्करणे वर्तते तद्वत। एतच्च स्पष्टीकृतं प्रबुद्धेन—
स्मरन्तं स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ (११.३.३१) इति ।
अत्र करणव्युत्पत्त्या प्रथमभक्तिशब्दो भागवतधर्मेषु प्रयुक्तम्, द्वितीयस्तु भावव्युत्पत्त्या फले ।
इति भागवतान्धर्मान्शिक्षन्भक्त्या तदुत्थया ।
नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ (११.३.३३)
इत्युपसंहारे प्रथमभक्तिपदस्थाने भागवतधर्मशब्दप्रयोगात। न चयथाध्ययनस्याक्षरेग्रहणात्मकस्याप्यक्षरग्रहणमेव फलम् । गुर्वधीनत्वतदनधीनत्वाभ्यां विशेषात। एवमत्रापि भागवतधर्मरूपा भक्तिरेव गुर्वधीनत्वेन साधनम् । तदनधीनत्वेन च निष्ठां प्राप्ता सती सैव फलमिति न साधनफलभेदेन भक्तिद्वैविध्योपपत्तिरिति वाच्यम् ।
क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्यलौकिकाम् ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताम् ॥ (११.३.३२)
इति मध्ये कृतकृत्यत्वपरामर्शात।
यदा ह्यध्ययनफलस्याक्षरग्रहणस्यार्थज्ञानानुष्ठानादिवद्भागवतधर्मजनिताया भक्तेरपि फलान्तरे साधनत्वमभविष्यत्, तदा परं पुरुषार्थं प्राप्य निर्वृतास्तूष्णीं भवन्तीति कृतार्थतां नावक्ष्यत। अपि तु, तदनन्तरमनुष्ठेयानन्तरं निरदेक्ष्यत्, न च निरिद्शति । तस्मात्साधनफलभेदेन भक्तिद्वैविध्योपपत्तें साधनत्ववचनानां फलत्ववचनानां च विषयविभागेन सर्वत्राविरोधं सिद्धम् । अघं धुन्वन्ति कार्त्स्न्येन इत्यादि तु फलसाधनयों समानम् । फलरूपाया अपि भक्तेर्दृष्टफलकताया वक्ष्यमाणत्वात। एवं च—
इदं हि पुंसस्तपसं श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयोम् ।
अविच्युतोऽर्थं कविभिर्निरूपितो
यदुत्तमश्लोकगुणानुवर्णनम् ॥ (१.५.२२)
निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामात।
क उत्तमश्लोकगुणानुवादात्
पुमान्विरज्येत विना पशुघ्नात॥ (१०.१.४)
इत्यादौ साधनवचनं फलपरतया योजनीयम् । गोभिं श्रीणीत मत्सरमितिवत। तत्र हि गोप्रभवैं क्षीरैर्मत्सरं सोमरसं मिश्रयेदित्यर्थं स्थितं पूर्वतन्त्रे । उत्तरतन्त्रे च महतं परमव्यक्तमित्यत्राव्यक्तशब्दस्तत्प्रभवशरीरमाचष्ट इति स्थितमानुषमानिकाधिकरणे सूक्ष्मं तु तदर्थत्वातित्यत्र । एवमत्रापि गुणानुवर्णनगुणानुवादशब्दौ च तज्जन्यप्रीतिपरतया योज्यौ । अन्यथा परपुरुषार्थत्वायोगात।
ननु तर्हि नानान्तरेण ब्रह्मविद्यैव भगवद्भक्तिरित्युक्तम् । तथा हि—तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन इत्यादि श्रुत्या सर्वसुकृतसाध्यत्वेन ब्रह्मविद्या प्रतिपादिता । सर्वापेक्षाधिकरणे च तथैव निर्णीता । इहापि पूर्वोदाहृतवचनैं सर्वसुकृतसाध्यत्वेन लक्षणेन भगवद्भक्तेर्ब्रह्मविद्यारूपतायां प्रतिपादनात्तस्याश्च निरतिशयपुमर्थत्वस्य चतुर्लक्षणमीमांसयाप्रतिपत्तिविप्रतिपत्तिनिवारणेन व्यवस्थापितत्वाद्व्यर्थोऽयं विचारारम्भ इति चेत्?
न, स्वरूपसाधनफलाधिकारिवैलक्षण्याद्भक्तिब्रह्मविद्ययोम् । द्रवीभावपूर्विका हि मनसो भगवदाकारता सविकल्पकवृत्तिरूपा भक्तिम् ।
द्रवीभावानुपेताद्वितीयात्ममात्रगोचरा निर्विकल्पकमनोवृत्तिर्ब्रह्मविद्या । भगवद्गुणगरिमग्रन्थनरूपग्रन्थश्रवणं भक्तिसाधनम् । तत्त्वमस्यादि वेदान्तमहावाक्यं ब्रह्मविद्यासाधनम् । भगवद्विषयकप्रेमप्रकर्षो भक्तिफलम् । सर्वानर्थमूलाज्ञाननिवृत्तिर्ब्रह्मविद्याफलम् । प्राणिमात्रस्य भक्तावधिकारम् । ब्रह्मविद्यायां तु साधनचतुष्टय सम्पन्नस्य परमहंसपरिव्राजकस्य ।
यज्ञदानादिसर्वसुकृतसाध्यत्वं तु समानं भक्तिब्रह्मविद्ययों स्वर्गविविदिषयोरिव । यथा, स्वर्गकामो दर्शपूर्णमासाभ्यां यजेत इति स्थित एव स्वर्गसाधनत्वे स्वर्गेभ्यं कामेभ्यो दर्शपौर्णमासौ इति वाक्येन फलान्तरत्वमपि बोध्यते । तथा, तमेतं वेदानुवचनेन [बृ.आ.उ. ४.४.२२] इत्यादिना विविदिषासाधनत्वमपि संयोगपृथक्त्वन्यायेन बोध्यते, तथा भक्तिब्रह्मविद्ययोरपि भविष्यति । सामग्र्यैक्यं हि कार्यैक्ये न तु कारणमात्रैक्ये, अतिप्रसङ्गात। एवं भक्तिब्रह्मविद्ययोरपि स्वर्गविविदिषयोरिव फलसाधनभावाभावश्च तुल्यसाधनसाध्यत्वं च भविष्यति ।
ननु, ब्रह्मविद्यातिरिक्तत्वे भक्तें स्वर्गादिवन्निरतिशयपुरुषार्थत्वं न स्यादिति चेन्न, स्वर्गादेर्नियतदेशकालशरीरेन्द्रियादिभोग्यत्वेन सर्वत्रोपभोक्तुमशक्यत्वात्क्षयित्वपारतन्त्र्यलक्षणदुम्खद्वयानुबिद्धत्वेन निरतिशयत्वाभावेऽपि भक्तिसुखधारायां सर्वदेशकालशरीरेन्द्रियादिसाधारण्येन ब्रह्मविद्याफलवदुपभोक्तुं शक्यत्वात्क्षयित्वपारतन्त्र्यलक्षणदुम्खद्वयानुवेधाभावेन निरतिशयत्वोपपत्तेम् ।
तदुक्तम्—
त्यक्त्वा स्वधर्मं चरणाम्बुजं हरेर्
भजन्नपक्वोऽथ पतेत्ततो यदि ।
यत्र क्व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मतम् ॥
तस्यैव हेतों प्रयतेत कोविदो
न लभ्यते यद्भ्रमतामुपर्यधम् ।
तल्लभ्यते दुम्खवदन्यतं सुखं
कालेन सर्वत्र गभीररंहसा ॥
न वै जनो जातु कथञ्चनाव्रजेन्
मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
स्मरन्मुकुन्दाङ्घ्र्युपगूहनं पुनर्
विहातुमिच्छेन्न रसग्रहो जनम् ॥ (१.५.१७१९)
सकृन्मनं कृष्णपदारविन्दयोर्
निवेशितं तद्गुणरागि यैरिह ।
न ते यमं पाशभृतश्च तद्भटान्
स्वप्नेऽपि पश्यन्ति हि चीर्णनिष्कृताम् ॥ (६.१.१९) इत्यादि ।
अत एवापत्तावपि दुम्खासंस्पर्शित्वप्रतिपादनायास्पृष्टदुम्खमिति विशेषणमुपात्तम् । अत एव च न परिणतिविरसेन स्वर्गादिना साम्यम् । एतेन लौकिकरसवैलक्षण्यमपि व्याख्यातम् । तस्यापि शास्त्राविहितत्वेन पापक्षयाहेतुत्वेनापत्तौ दुम्खसंस्पर्शितत्वात। भक्तेस्तु दृष्टादृष्टफलतया महान्विशेषो वक्ष्यते ।
नन्वेवं सति भक्तिसुखाद्वैराग्यासम्भवेन मुमुक्षुत्वासम्भवात्तदधिकारिकचतुर्लक्षणमीमांसारम्भो न स्यादिति चेत्, सत्यम् । भक्तिसुखासक्तान्प्रति तस्या अनारम्भात। भजनीयस्वरूपनिर्णयार्थं भक्तानामपि तद्विचारस्यावश्यकत्वाच्च । भक्तिसुखाद्वैराग्यं न स्यादिति त्विष्टमेव नापादितम् ।
आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थम्भूतगुणो हरिम् ॥ (१.७.१०)
इत्यादिना जीवन्मुक्तानामपि भगवद्भक्तिप्रतिपादनात॥१॥
[इति वक्ष्यमाणसर्वार्थसङ्ग्रहरूपप्रथमकारिकाविवरणम् ।]
ओ)०(ओ—
संसाररोगेण बलीयसा चिरं
निपीडितैस्तत्प्रशमेऽतिशिक्षितम् ।
इदं भवद्भिर्बहुधा व्ययातिगं
निपीयतां भक्तिरसायनं बुधाम् ॥२॥
तस्मादस्य ग्रन्थस्य नामकनथद्वारा प्रयोजनमुपदिशति—संसारेति । स्पष्टम् ॥२॥
ओ)०(ओ
द्रुतस्य भगवद्धर्माद्धारावाहिकतां गता ।
सर्वेशे मनसो वृत्तिर्भक्तिरित्यभिधीयते ॥३॥
भगवद्भक्ते रसरूपतया पुमर्थतां वक्तुं प्रथमं सामान्यलक्षणमाचष्टद्—द्रुतस्येति । भगवद्धर्मोऽत्र भगवद्गुणश्रवणम् । न तु धरम्बुद्ध्या तदनुष्ठानपर्यन्तं विवक्षितम् । तस्मात्केनाप्युपायेन मनं कृष्णे निवेशयेतित्यत्रापि केनाप्युपायेनेति धर्मबुद्ध्याऽनुष्ठितेनायत्नसिद्धेन वा भगवद्गुणश्रवणेनेत्यर्थम् । तेन शिशुपालादौ नाव्याप्तिं भगवद्गुणश्रवणेन वक्ष्यमाणकामक्रोधाद्युद्दीपनद्वारा द्रवावस्थां प्राप्तस्य चित्तस्य धारावाहिकी या सर्वेशविषया वृत्तिम् । भगवदाकारतेत्यर्थम् । तदाकारतैव हि सर्वत्र वृत्तिशब्दार्थोऽस्माकं दर्शने । सा भक्तिरित्यभिधीयते शास्त्रविद्भिम् । तथा च शास्त्रम्—
मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
अहैतुक्यव्यवहिता या भक्तिं पुरुषोत्तमे ॥ (३.२९.१११२)
अत्राविच्छिन्नेति धारावाहिकता दर्शिता । यथा गङ्गाम्भस इति दृष्टान्तेन दार्ष्टान्तिकेऽपि मनसि द्रवावस्था । मयि सर्वगुहाशये मनोवृत्तिरिति सर्वेशाकारता । तेनाद्रवावस्थायां धारावाहिक्यपि वृत्तिद्रवावस्थायामप्याशु विनाशिनी सा । द्रवत्वधारावाहिकत्वयुक्ताप्यसर्वेशविषया न भक्तिरित्युक्तम् ॥३॥
ओ)०(ओ—
चित्तद्रव्यं हि जतुवत्स्वभावात्कठिनात्मकम् ।
तापकैर्विषयैर्योगे द्रवत्वं प्रतिपद्यते ॥४॥
तदेव स्पष्टयितुं चित्तचेष्टितमाचष्टे—चित्तेति । जतुनो हि दहनात्मकतापकयोगमन्तरेण काठिन्यशान्तिर्न भवति । सौरालोकादियोगे तु शिथिलीभावमात्रं न द्रुतिरिति सर्वसिद्धम् । एवं चित्तस्यापि वक्ष्यमाणकामादिविषयात्मकतापकसंयोगे विना न द्रवीभावो, विषयमात्रसञोगे तु शिथिलीभावमात्रमिति तापकपदोपादानेन सूचितम् ॥४॥
ओ)०(ओ
कामक्रोधभयस्नेहहर्षशोकदयादयम् ।
तापकाश्चित्तजतुनस्तच्छान्तौ कठिनं तु तत॥५॥
तानेव तापकानाह—कामेति । एषां प्रत्येकलक्षणभेदांश्च वक्ष्यति । यद्विषये कामादीनामुद्रेकस्तद्विषये चित्तस्य द्रवीभावम् । पुनर्विषयान्तरसञ्चारादिना कामादितिरोभावे काठिन्यमेवेत्यर्थम् ॥५॥
ओ)०(ओ—
द्रुते चित्ते विनिक्षिप्तस्वाकारो यस्तु वस्तुना ।
संस्कारवासनाभावभावनाशब्दभागसौ ॥६॥
द्रवीभावप्रयोजनमाह—द्रुत इति । न तु विनश्यता ज्ञानेन जनितस्तारिकादिपरिकल्पित आत्मगुण इत्यर्थम् ॥६॥
ओ)०(ओ
शिथिलीभावमात्रं तु मनो गच्छत्यतापकैम् ।
न तत्र वस्तु विशति वासनात्वेन किंचन ॥७॥
नञ् ईषदर्थम् । अतापकैरीषत्तापकैं सौरालोकादिस्थानीयैर्विषयैर्योगे सति मनं किञ्चिदवयवविशरणमात्रं प्राप्नोति । अतं शिथिलीभूते जतुनीव तादृशे मनसि न किञ्चिद्वस्तु वासनात्वेन विशति । किन्तु वासनावैलक्षण्येन तदाभासत्वेनैव विशतीत्यर्थम् ॥७॥
ओ)०(ओ
द्रवतायां प्रविष्टं सद्यत्काठिन्यदशां गतम् ।
चेतं पुनर्द्रुतौ सत्यामपि तन्नैव मुञ्चति ॥८॥
चित्तद्रुतौ भवति वासना, शिथिलीभावे तु वासनाभास इत्यत्र विनिगमकमाह—द्रवतायामिति । द्रवावस्थाप्रविष्टहिङ्गुलादिरङ्गस्य जतुनं पुनं काठिन्यापनयेन काष्ठादिसंयोगे जायमाने यथा स एव रङ्गं प्रतिभासते, शैथिल्यावस्थाप्रविष्टस्तु रङ्गो न तथा । एवं द्रवावस्थे चेतसि यद्वस्तुस्वरूपं प्रविष्टं सत्काठिन्यदशापर्यन्तं स्थितं तत्पुनर्द्रवीभावान्तरेण विषयान्तरे गृह्यमाणेऽपि प्रकाशमानत्वाच्चेतसा न त्यज्यते । अतं सा वासनेत्युच्यते शैथिल्यावस्थाप्रविष्टं तु काठिन्यावस्थापर्यन्तं न तिष्ठति । तिष्ठद्वा विषयान्तरग्रहणसमये चित्तेन त्यज्यत इति स वासनाभास इत्यर्थम् । अत एव यस्यैकदा द्रुते चित्ते भगवदाकारता प्रविष्टा, स सर्वदा तद्भानात्कृतकृत्यो भवतीत्युक्तम्—
सर्वभूतेषु यं पश्येद्भगवद्भावमात्मनम् ।
भूतानि भगवत्यात्मन्येष भागवतोत्तमम् ॥ (११.२.४५) इति ।
सर्वभूतग्रहणसमयेऽपि द्रवावस्थाप्रविष्टभगवदाकारताया एव प्रकाशमानत्वाज्जतुरङ्गवत्सर्वभूतेषु भगवद्भानोपपत्तिम् । स च भागवतोत्तमम्, एतादृशसंस्कारस्याविनाशित्वादिति भावम् । अत एव ब्रह्मविदेवैतादृश इत्यपास्तम् । तस्य ब्रह्मविदो द्रवावस्थाया अनपेक्षितत्वेनोत्तममध्यमप्राकृतभक्तेष्वगणनीयत्वात। अत्र तु द्रवावस्थापरिपुष्टौ सर्वभूतेषु यं पश्येदित्यवस्थायां भागवतोत्तम उक्तम् । ईषद्द्रवावस्थायुतान्वासनाभासेन—
ईश्वरे तदधीनेषु बालिशेषु द्विषत्सु च ।
प्रेममैत्रीकृपोपेक्षा यं करोति स मध्यमम् ॥ (११.२.४६) इत्युक्तम् ।
एतादृगवस्थावतोऽग्रे द्रवावस्थाया उत्पत्स्यमानत्वादित्यर्थम् । यस्य तु चित्ते न द्रवावस्था पुष्टा, नापीषदुत्पन्ना, किन्तु स्वयं तदर्थं भागवतधर्मान्श्रद्धयानुतिष्ठति, स काठिन्यावस्थाविनाशसामग्रीविशिष्टम्—
अर्चायामेव हरये पूजां यं श्रद्धयेहते ।
न तद्भक्तेषु चान्येषु स भक्तं प्राकृतं स्मृतम् ॥ (११.२.४७) इत्युक्तम् ।
प्रकृतिरारम्भस्तस्यां वर्तमानं प्राकृतम् । साम्प्रतं प्रारब्धभक्तिसाधनानुष्ठान इत्यर्थम् । इयमेव च द्रवावस्था प्रणयानुरागस्नेहादिशब्दैरपि सङ्कीर्त्यते । यथा—
विसृजति हृदयं न यस्य साक्षाद्
धरिरवशाभिहितोऽप्यघौघनाशम् ।
प्रणयरसनया धृताङ्घ्रिपद्मम्
स भवति भागवतप्रधान उक्तम् ॥ (११.२.५५)
प्रणयो द्रवावस्था स एव रशना रज्जुवद्बन्धनसाधनम् । तस्यां द्रवावस्थायां प्रविष्टस्य पुनर्निर्गमनाभावादित्यर्थम् । द्रवावस्थाप्रविष्टभगवत्स्वरूपभानस्य त्रिविधत्वादुत्तमभागवतोऽपि त्रिविधम् । तत्राद्यं प्रपञ्चसत्यत्वभानसहितम्, यथा—
खं वायुमग्निं सलिलं महीं च
ज्योतींषि सत्त्वानि दिशो द्रुमादीन।
सरित्समुद्रांश्च हरें शरीरं
यत्किं च भूतं प्रणमेदनन्यम् ॥ (११.२.४१) इत्यादि ।
अनेन प्राकृतो भागवतोत्तमम् । द्वितीयं प्रपञ्चमिथ्यात्वभानसहितं, यथा—
तस्मादिदं जगदशेषमसत्स्वरूपं
स्वप्नाभमस्तधिषणं पुरुदुम्खदुम्खं ।
त्वय्येव नित्यसुखबोधतनावनन्ते
मायात उद्यदपि यत्सदिवावभाति ॥ (१०.१४.२२)
अनेन मध्यमो भागवतोत्तमम् । तृतीयं प्रकारद्वयेनापि प्रपञ्चभानरहितं, यथा—
ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरिम् ॥
प्रेमातिभरनिर्भिन्न पुलकाङ्गोऽतिनिर्वृतम् ।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ (१.६.१७१८)
अनेनोत्तमो भागवतोत्तमम् । निरन्तरसाधनाभ्यासपरिपाकेणोत्तमभूमिलाभम् ॥८॥
ओ)०(ओ
स्थायिभावगिराऽतोऽसौ वस्त्वाकारोऽभिधीयते ।
व्यक्तश्च रसतामेति परानन्दतया पुनम् ॥९॥
द्रवावस्थाप्रविष्टविषयाकारस्यानपायित्वे स्थायिशब्दोऽपि तत्र मुख्य एव न पारिभाषिक इत्याह—स्थायीति । विभावानुभावव्यभिचारिसंयोगेनाभिव्यक्तं स्थायिभाव एव सभ्याभिनेययोर्भेदतिरोधानेन सभ्यगत एव सन्परमानन्दसाक्षात्काररूपेण रसतामाप्नोतीति रसविदां मर्यादा । तदुक्तमाचार्यभरतेन—विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिमिति । अतो भक्तेरपि रसतां वक्तुं स्थायिभावो निरूप्यत इति भावम् ॥९॥
ओ)०(ओ
भगवान्परमानन्दस्वरूपं स्वयमेव हि ।
मनोगतस्तदाकारो रसतामेति पुष्कलम् ॥१०॥
स्थायिभावस्य रसत्वोपपत्तये परमानन्दरूपतामुपपादयति—भगवानिति । बिम्बमेव ह्युपाधिनिष्ठत्वेन प्रतीयमानं प्रतिबिम्बमित्युच्यते । परमानन्दश्च भगवान्मनसि प्रतिबिम्बितस्थायिभावतामासाद्य रसतामासादयतीति भक्तिरसस्य परमानन्दरूपत्वं निर्विवादम् । नाप्यालम्बनविभावस्थायिभावयोरैक्यम्, बिम्बप्रतिबिम्बभावेन भेदस्य व्यवहारसिद्धत्वादीशजीवयोरिव ॥१०॥
ओ)०(ओ
कान्तादिविषयेऽप्यस्ति कारणं सुखचिद्धनम् ।
कार्याकारतयाऽभानेऽप्यावृतं मायया स्वतम् ॥११॥
नन्वेवं भगवदाकारस्य परमानन्दरूपस्य स्थायिभावत्वेन भक्तिरसस्य परमानन्दरूपत्वमस्तु । कान्तादिविषयाणां तु शृङ्गारादिरसाणामतथात्वात्कथं परमानन्दरूपमेत्यत आह—कान्तादीति । आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं प्रयन्त्यभिसंविशन्ति [तै.उ. ३.६] इत्यादि श्रुत्या हि परमानन्दरूपं ब्रह्म जगदुपादानमिति प्रतिपादितम् । जन्माद्यस्य यतं [वे.सू. १.१.२] इति न्यायेन तथैव निर्णीतम् । उपादानाभिन्नं च सर्वं कार्यं मृदभिन्नघटवत्सर्वत्र दृष्टम् । सर्वं खल्विदं ब्रह्म, इदं सर्वं यदयमात्मा [छा.उ. ३.१५], सदेव सोम्येदमग्र आसीत्[छा.उ. ६.२] इत्यादि च्छान्दोग्यादिश्रुतिभिश्च तथैव प्रदिपादितम् । तदनन्यत्वमारम्भणशब्दादिभ्य इति न्यायेन च निर्णीतम् । एवं सत्यखण्डानन्दाद्वयाकारेण तदभाने हेतू मायानिमित्तावावरणविक्षेपावित्याह—कार्येति । अकार्यस्यापि कार्याकारेण भानं विक्षेपम् । अखण्डानन्दाकारेण स्वतोऽभान्वमावरणम् । तदुक्तम्—
ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।
तद्विद्यादात्मनो मायां यथाभासो यथा तमम् ॥ (२.९.३३) इति ॥११॥
ओ)०(ओ
सदज्ञातं च तद्ब्रह्म मेयं कान्तादिमानतम् ।
मायावृत्तितिरोभावे वृत्त्या सत्त्वस्थया क्षणम् ॥१२॥
कथं तर्हि तस्य भानमित्यत आह—सदिति । अज्ञातज्ञापकत्वेनैव हि सर्वेषां मानानां मानता, अन्यथा स्मृतेरपि मानतापत्तेम् । अज्ञातं च स्वप्रकाशतया भासमानचैतन्यमेव न जडम् । तस्य भानाप्रसक्त्या तत्रावरणकृत्याभावात। अतं कान्तादिगोचरमानानामज्ञातज्ञापकत्वेन प्रामाण्याय तत्तदविच्छिन्नचैतन्यमेव विषयो वाच्यम्, अन्यथा तदयोगात। तथा च सात्त्विक्या प्रमाणजनितापरोक्षवृत्त्यावरणतिरोभावे सति तत्तद्विषयावच्छिन्नत्वेन भासते । वस्तुतं परमानन्दरूपविषयोपादानचैतन्यम् । अनवच्छिन्नस्वरूपाभानाच्च न सद्योमुक्तिं स्वप्रकाशत्वभङ्गो वा ॥१२॥
ओ)०(ओ
अतस्तदेव भावत्वं मनसि प्रतिपद्यते ।
किं च न्यूनां च रसतां याति जाड्यविमिश्रणात॥१३॥
ततं किं ? अत आह—अत इति । विषयावच्छिन्नचैतन्यमेव द्रवावस्थमनोवृत्त्यारूढतया भावत्वं प्राप्य रसतां प्राप्नोतीति न लौकिकरसस्यापि परमानन्दरूपत्वानुपपत्तिम् । अत एवानवच्छिन्नचिदानन्दघनस्य भगवतं स्फुरणाद्भक्तिरसेऽत्यन्ताधिक्यमानन्दस्य । लौकिकरसे तु विषयावच्छिन्नस्यैव चिदानन्दांशस्यास्फुरणात्तत्रानन्दस्य न्यूनतैव । तस्माद्भक्तिरस एव लौकिकरसानुपेक्ष्य सेव्य इत्यर्थम् ॥१३॥
ओ)०(ओ
इति वेदान्तसिद्धान्ते स्थायिनो रसतोदिता ।
साङ्ख्यसिद्धान्तमाश्रित्याप्यधुना प्रतिपद्यते ॥१४॥
प्रतिपाद्यत इति । स्थायिना रसतेत्यनुषङ्गम् ॥१४॥
ओ)०(ओ
तमोरजम्सत्त्वगुणा मोहदुम्खसुखात्मकाम् ।
तन्मयी प्रकृतिर्हेतुं सर्वं कार्यं च तन्मयम् ॥१५॥
एतावदेवोपपादयितुं व्युत्पादयति—तमोरजम्सत्त्वेति । तथा हि साङ्ख्या एवमाचक्षते—सर्वे भावां सुखदुम्खमोहात्मकसामान्यप्रकृतिकाम् । सुखदुम्खमोहात्मकत्वेन प्रतीयमानत्वात। ये यदात्मकत्वेन प्रतीयन्ते ते तदात्मकसामान्यप्रकृतिकाम् । यथा, मृदात्मकतया प्रतीयमाना मृत्सामान्यप्रकृतिका घटशरावादयम् । अनुगतकारणातिरिक्तसामान्यानभ्युपगममान्न घटत्वादिना व्यभिचारम् । सुखदुम्खमोहात्मकत्वेन चैते प्रतीयन्ते । तस्मात्तत्सामान्यप्रकृतिका इत्यनुमानेन सुखदुम्खात्मकप्रकृतिसिद्धिम् । तत्र यत्सुखं तत्सत्त्वम् । यद्दुम्खं तद्रजो, यो मोहो विषादं स तम इति तस्यास्त्रिगुणात्मकत्वसिद्धिम् ।
न च परमाणुभिर्ब्रह्मणा चार्थान्तरता, परमाणुवादे कार्यकारणयोर्भेदाभ्युपगमेन तेषामतीन्द्रियत्वेन च तदात्मकतया कस्यापि कार्यस्य प्रतीयमानत्वाभावात्परमाणुषु प्रमाणाभावाच्च । सर्गाद्यकालीनकार्योपादानानुमानस्य लाघवतर्कसहकारेणैकोपादानविषयकत्वात्क्षित्यादिकर्त्रनुमानस्यैककर्तृविषयकत्ववत। ब्रह्मवादिनां कार्यकारणयोरभेदाभ्युपगमेऽपि न जगतो ब्रह्मात्मना प्रतीयमानत्वं सम्भवति, ब्रह्मणं सार्वलौकिकमानागोचरत्वाभ्युपगमात। सद्रूपेण ब्रह्मापि सर्वप्रमाणागोचरम् । तथा च सदात्मना कार्यस्य प्रतीयमानत्वमस्त्येवेति चेत्, किमनेनाकाण्डताण्डवेन ? ब्रह्मणो निम्सामान्यविशेषत्वेन नानारूपासम्भव इति साङ्ख्यसङ्ख्यावतामभिमानम् ॥१५॥
ओ)०(ओ
त्रिगुणात्मकमेकैकं वस्तु त्र्याकारमीक्ष्यते ।
निजमानससङ्कल्पभेदेन पुरुषैस्त्रिभिम् ॥१६॥
ननु भवतामप्यसिद्धो हेतुम्, सुखदुम्खमोहनामान्तराणां बाह्यघटादितादात्म्यसम्भवात। सम्भवे वा सर्वं वस्तु सर्वं प्रमातारं प्रति त्र्याकारतया प्रथेतेत्यत आह—त्रिगुणेति । न तावदान्तरबाह्ययोस्तादात्म्यसम्भवम् । बाह्यानामेव मनम्प्रतिबिम्बितत्वेनान्तरत्वात। नापि सर्वान्प्रति तुल्यभानप्रसङ्गम् । तत्तद्वासनारूपसहकारिभेदात॥१६॥
ओ)०(ओ
कामिन्यां सुखता भर्त्रा सपत्न्या दुम्खरूपता ।
तदलाभात्तथान्येन मोहत्वमनुभूयते ॥१७॥
एतदेवोदाहरति—कामिन्या इति । भर्तारं प्रति हि कामिन्यां सत्त्वांश एवोद्रिच्यते । सपत्नीं प्रति तु रजोऽंश एव । तां कामयमानमन्यं च तामविन्दन्तं प्रति तमोऽंश एव । अतं क्रमेण तेषु सुखदुम्खविषादां प्रार्दुभवन्त्यतो व्यवस्थोपपत्तिम् ।
वासनाभेदेनैकस्मिन्नपि भानभेदो भट्टाचार्यैरप्युक्तम्—
परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ।
कुणपं कामिनी भक्ष्यमिति तिस्रो विकल्पनाम् ॥ इति ॥१७॥
ओ)०(ओ
एवं सति सुखाकारं प्रविष्टो मानसे यदा ।
तदा स स्थायिभावत्वं प्रतिपद्य रसो भवेत॥१८॥
फलितमाह—एवं सतीति । क्रोधादिभावस्यापि रजस्तमोमिश्रितसत्त्वोद्रेकनिबन्धनचित्तद्रुतिफलितत्वात्सुखमयत्वमित्यभिप्रायम् । द्रवीभावस्य सत्त्वधर्मत्वात्तं विना च स्थायिभावासम्भवात्सत्त्वगुणस्य च सुखमयत्वात्सर्वेषां भावानां सुखमयत्वेऽपि रजस्तमोऽंशमिश्रणात्तारतम्यमवगन्तव्यम् । अतो न सर्वेषु रसेषु तुल्यसुखानुभवम् । उपरिष्टाच्च स्पष्टीकरिष्यते ॥१८॥
ओ)०(ओ
परमाण्वेकरूपं तु चित्तं न विषयाकृति ।
इत्यादि मतमन्येषामप्रामाण्यादुपेक्षितम् ॥१९॥
अत्राहुस्तार्किकाम्—नित्यं निरवयवमणुपरिमाणं मनम् । तस्य कथं सावयवजतुदृष्टान्तेन द्रवीभावद्वारा विषयाकारपरिणामो वक्तुं शक्यते ? न हि निरवयवस्य ह्रासवृद्धी सम्भवतम् । तस्मादुक्तस्थायिभावनिरूपणमसङ्गतमिति । तत्राह—परमेति । आदिशब्दाद्विभुर्मन इति प्राभाकराणां, समनन्तरप्रत्यय एवोत्तरज्ञानकारणतया मन इति सौगतानां च मतं सङ्गृहीतम् ।
अयं भावम्—करणत्वात्परश्वादिवदिन्द्रियत्वाच्चक्षुरादिवन्मनसो मध्यमपरिमाणत्वमनुमीयते । न चाणुत्वानुमाने किंचिल्लिङ्गमस्ति । नापि नित्येन्द्रियत्वाच्छोर्त्रवद्विभुत्वानुमानम्, नित्यत्वस्यासिद्धत्वात। आकाशस्यापि नित्यत्वाभावेन तत्कार्यश्रोत्रस्य सुतरां नित्यत्वाभावाच्च । अत एव जन्यस्य विभुत्वाभावान्मध्यमपरिमाणत्वानुमानस्य श्रोत्रे न व्यभिचारम् । यदिन्द्रियं यद्गुणग्राहकं तदिन्द्रियं तद्गुणवद्भूतारब्धमिति व्याप्तेर्यथा चक्षुरादें स्वग्राह्यगुणवद्भूतारभ्यत्वं साध्यते तथा मनसोऽपि पञ्चमहाभूतगुणग्राहकत्वेन स्वग्राह्यगुणवत्पञ्चभूतारभ्यत्वं साध्यताम्, विशेषाभावात। न च विजातीयानामनारम्भकत्वं विशेषम्, सुवर्णसूत्रैं पट्टसूत्रैं कार्पाससूत्रैश्च विजातीयैरेकपटारम्भदर्शनात। तत्रावयव्यनङ्गीकारेऽन्यत्रापि तथानङ्गीकारसम्भवादवयविनो तत्तजलाञ्जलिताप्रसङ्गात। तस्मादपञ्चीकृतपञ्चभूतारब्धं सत्त्वप्रधानं सङ्कोचविकासशीलं स्वच्छद्रव्यं चक्षुर्वन्मूर्तद्रव्यऽभिघातयोग्यं च देहपरिमाणं मनोऽभ्युपगन्तव्यम्, सिद्धान्ते सुखदुम्खेच्छाज्ञानादीनां तदाश्रयत्वाभ्युपगमात्तेषां च सर्वशरीरव्यापित्वेनोपलम्भात्तदाश्रयस्य मनसोऽपि सर्वशरीरव्यापित्वात। अणुत्वाभावे युगपत्सर्वेन्द्रियेणैकदैकमेव ज्ञानं जन्यत इति नियमस्तावदावयों समम् । अन्यथा युगपच्चाक्षुषज्ञानद्वयोत्पत्तिं किं न स्यात्? नानेन्द्रियजन्यज्ञानानां तु युगपदुत्पत्तिरिष्यत एव, दीर्घां शुष्कुलीं भक्षयतं शब्दस्पर्शरूपरसगन्धानां युगपदनुभवात। सुषुप्त्यन्यथानुपपत्त्या त्वङ्मनम्संयोगस्य ज्ञानमात्रे कारणत्वेन त्वयाभ्युपगमाद्रसनावच्छिन्नत्वक्संयुक्तस्य गुडस्य युगपद्रसस्पर्शोपलम्भस्तवापि दुर्निवारम् । तस्मान्नास्मदभ्युपगते मनसि श्रुतिस्मृतिन्यायसिद्धे विमतिं सम्भवति । समनन्तरप्रत्ययस्त्वतिनिर्युक्तिकत्वादुपेक्षितम् । विस्तरस्त्वस्मदीयवेदान्तकल्पलतायामनुसन्धेयम् ॥१९॥
ओ)०(ओ
गृह्णाति विषयाकारं मनो विषययोगतम् ।
इति वेदान्तिभिं साङ्ख्यैरपि सम्यङ्निरूपितम् ॥२०॥
अतं स्वच्छस्वभावस्य सावयवस्य मनसो दर्पणादिवद्विषयाकारग्राहकत्वं वेदान्तशास्त्रे साङ्ख्यशास्त्रे च यन्निरूपितम्, तत्प्रामाणिकत्वात्समीचीनमेवेत्याह—गृह्णातीति । यद्यपि साङ्ख्यानामाहङ्कारिकं मनं ब्रह्मवादिनां तु मते भौतिकमिति महान्विशेषस्तथापि विषयाकारग्राहकत्वं समानमिति तुल्यवदुभयोरुपन्यासम् ॥२०॥
ओ)०(ओ
मूषासिक्तं यथा ताम्रं तन्निभं दृश्यते तथा ।
घटादि व्याप्नुवच्चित्तं तन्निभं जायते ध्रुवम् ॥२१॥
द्रवीभावपूर्वकं चित्तस्य विषयाकारभजनमित्यत्र भाष्यकारवचनमुदाहरति—मूषेति । मूषा पुटपाकयन्त्रम् । तद्द्वारा द्रवीभूतं ताम्रं यत्र प्रतिमाद्याकारघटितोदरे मृदादिसंस्थानविशेषे सिक्तं भवति, तत्तदुदरस्थसंस्थानाकारं भवति द्रुतत्वात। एव रागद्वेषादिना द्रवीभूतं चित्तं चक्षुरादिद्वारा यत्र सिक्तं भवति स्वयमपि तद्विषयाकारं भवतीति कारिकार्थम् । यद्यप्यस्मिन्वाक्ये सामान्यत एव द्रवीभाव उक्तस्तथाप्यनुभवबलाद्रागद्वेषादिविषये व्यवस्थाप्यते, तदभावे तु शिथिलीभावमात्रमित्युक्तमधस्तात॥२१॥
ओ)०(ओ
व्यञ्जको वा यथाऽऽलोको व्यङ्यस्याकारतामियात।
सर्वार्थव्यञ्जकत्वाद्धीरर्थाकारा प्रदृश्यते ॥२२॥
मनो विषयाकारम् । विषयगतावरणनिवर्तकत्वादालोकवदित्यनुमानमस्मिन्नर्थे प्रमाणमाह—व्यञ्जको वेति । व्यञ्जकस्य तदाकारत्वाभावे तद्गतावरणनिवृत्तेरदर्शनादित्यर्थम् ॥२२॥
ओ)०(ओ
भगवत्पूज्यपादानामियमुक्तिं सयुक्तिका ।
तथा वार्तिककारै अप्ययमर्थो निरूपितम् ॥२३॥
भगवदिति । व्यञ्जको वेत्याद्युक्तिर्वार्तिककाराणामपि । युक्तिरनुमानरूपा दर्शिता ॥२३॥
ओ)०(ओ
मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत।
मेयाभिसङ्गतं तच्च मेयाभत्वं प्रपद्यते ॥२४॥
वार्तिककाराणां वाक्यान्तरमुदाहरति—मातुरिति । मातुश्चिदचिद्ग्रन्थ्रूपात्सचित्कादन्तम्करणात्वृत्तिज्ञानाख्यस्य द्रवीभावपूर्वकस्य मान्शब्दवाच्यस्य पर्णामविशेषस्याभिनिष्पत्तिर्भवति । तच्च परिणामविशेषात्मकं माननिष्पन्नं सच्चक्षुरादिद्वारा घटादिविषयपर्यन्तं गच्छति शरीरावच्छिन्नमन्तम्करणमत्यजदेव कुल्याजलवत। तच्च घटादिसम्बद्धं सद्घटाद्याकारतां प्राप्नोति । ततश्च तत्र चैतन्याभिव्यक्त्या घटाद्युपलभ इति कारिकार्थम् । सर्वा चेयं प्रक्रियास्माभिर्विस्तरेण सिद्धान्तबिन्दौ प्रतिपादिता ॥२४॥
ओ)०(ओ
एवमेतादृशं वाक्यमुदाहार्यमनेकशम् ।
चित्तस्य विषयाकारग्राहकत्वोपपादने ॥२५॥
एवमिति । ग्रन्थगौरवभयान्नोदाह्रियत इति भावम् ॥२५॥
ओ)०(ओ
अतो मांसमयी योषित्काचिदन्या मनोमयी ।
मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी ॥२६॥
पञ्चदश्यां विद्यारण्यपादैरप्ययमर्थो दर्शितम् । तमुपसंहारव्याजेनाह—अतो मांसमयीति । मनोमय्याकारभेदं विनैकस्मिन्भौतिके पिण्डे भेदप्रत्ययायोगादित्यर्थम् ॥२६॥
ओ)०(ओ
भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा ।
जामाता श्वशुरं पुत्रं पितेत्यादि पुमानपि ॥२७॥
भेदप्रतीतिमेव सर्वसिद्धामुदाहरति—भार्येति । भिद्यते इत्यनुषङ्गम् ॥२७॥
ओ)०(ओ
बाह्यपिण्डस्य नाशेऽपि तिष्ठत्येव मनोमयम् ।
अतं स्थायीति विद्वद्भिरयमेव निरूपितम् ॥२८॥
एकानेकत्ववैधर्म्यमुक्त्वा विनाशित्वाविनाशित्ववैधर्म्यान्तरमाह—बाह्येति । मनोमयोऽव्यवहित एवेत्यर्थम् ॥२८॥
ओ)०(ओ
एवं सामान्यतो भावस्वरूपमुपदर्शितम् ।
विशेषेण तु सर्वेषां लक्षणं वक्ष्यते पृथक॥२९॥
मनोमयी विषयाकार एवाविनाशित्वात्स्थायिभाव इति कथितम् । तस्य तु रतिहासादिरूपेण भदेस्तल्लक्षणं च वक्ष्यतेऽनन्तरोल्लास इत्यर्थम् ॥२९॥
ओ)०(ओ
भगवन्तं विभुं नित्यं पूर्णं बोधसुखात्मकम् ।
यद्गृह्णाति द्रुतं चित्तं किमन्यदवशिष्यते ॥३०॥
यस्माद्द्रुतचित्तप्रविष्टो विषयाकारोऽनपायी, तस्मादित्याह—भगवन्तमित्यादि । विभुमिति सर्वदेशव्यापकत्वम् । नित्यमिति सर्वकालव्यापकत्वम् । पूर्णमित्यद्वितीयतया सर्वद्वैतभ्रमाधिष्ठानत्वम् । बोधसुखात्मकमिति निरतिशयपुमर्थत्वं दर्शितम् । एतादृशेन भगवदाकारेण मनोगतेनानादिकालप्रविष्टासङ्ख्यविषयाकाराणां कवलीकरणात्तन्मात्रपरिस्फूर्त्या कृतकृत्यो भवतीत्यर्थम् ॥३०॥
ओ)०(ओ
कठिना शिथिला वा धीर्न गृह्णाति न वास्यते ।
उपेक्षाज्ञानमित्याहुस्तद्बुधां प्रस्तरादिषु ॥३१॥
द्रवीभावस्य प्रयोजनं पूर्वोक्तमेव स्मारयति तत्र प्रयत्नदाऋढ्याय—कठिनेति । कठिना धीर्न गृह्णात्येव । शिथिला तु गृह्णात्यपि न वास्यते द्रवीभावाभावदितं पूर्वमेवोक्तम् । ईषदप्यद्रवीभावं काठिन्यमीषद्द्रवत्वं शैथिल्यम् । तच्च द्रवावस्थाकार्यभूतसात्त्विकभावाभावादवसेयम् । ते च—
स्तम्भं स्वेदोऽथ रोमाञ्चां स्वरभङ्गोऽथ वेपथुम् ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताम् ॥ इत्यभिहिताम् ।
अत एव भगवद्विषये काठिन्यं निगद्यते—
तदश्मसारं हृदयं बतेदं
यद्गृह्यमाणैर्हरिनामधेयैम् ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षम् ॥ (२.३.२४)
कथं विना रोमहर्षं द्रवता चेतसा विना ।
विनानन्दाश्रुकलया शुध्येद्भक्त्या विनाशयम् ॥ (११.१४.२३)
भक्त्या विना कथमाशयं शुध्येत्? भक्तिश्च द्रवता चेतसा विना कथं स्यात्? द्रवच्चित्तं च कथं रोमहर्षं विनाऽऽनन्दाश्रु च विना ज्ञायेतेत्यर्थम् । अश्रुपुलकयोरभिधानं स्तम्भस्वेदादीनामप्युपलक्षणम् । यतो द्रवत्वाभावे चित्तं न वास्यते । अतो बुधां पण्डितां कामक्रोधाद्यनास्पदीभूतापाषाणादिज्ञानमुपेक्षाज्ञानसंस्काराजनकमित्याहुम् । तथा चाहुर्न्यायवार्त्तिककृतम्—यन्न सुखसाधनं न दुम्खसाधनं, तदेवोपेक्षणीयमिति । सुखसाधने रागं संस्कारहेतुर्दुम्खसाधने द्वेषस्तथा तदुभयाभावे तु चित्ते द्रवत्वाभावान्न जायते संस्कार इत्यर्थम् । एतावान्हि सर्वेषां शास्त्राणां रहस्यभूतोऽर्थो यद्विषयाकारतानिराकरणपूर्वकं चित्तस्य भगवदाकारतासम्पादनम्, सर्वेषामपि शास्त्राणामत्रैव व्यापारभेदेन पर्यवसानात॥३१॥
ओ)०(ओ
काठिन्यं विषये कुर्याद्द्रवतं भगवत्पदे ।
उपायैं शास्त्रनिर्दिष्टैरनुक्षणमतो बुधम् ॥३२॥
नन्वनादिकालद्रवच्चित्तप्रविष्टतत्तदिष्टानिष्टविषयकोटिसङ्कीर्णता चित्तस्य स्वभावभूता शीततेव तोयस्योष्णतेव दहनस्य सञ्चरिष्णुतेव पवनस्य कथं निवर्ततां, धर्मिणि सति स्वभावोपमर्दास्मभवादित्यत आह—काठिन्यमिति ।
विषयाकारता हि न चित्तस्य स्वभावभूता, तस्या आगन्तुकहेतुजन्यत्वात। तथा हि—स्थूलविषयाकारताहेतुरिन्द्रियसन्निकर्षादिर्जागरणे, सूक्ष्मविषयाकारताहेतुर्मनोगतवासना स्वप्ने, तदुभयाभावे तु सुषुप्तिवन्निर्विषयमेव चित्तं भवति । सुषुप्तौ चित्तलयाभिधानं तु निर्विषयकत्वाभिप्रायकमेव । एतच्च भगवता सूत्रकारेणैव प्रदर्शितम्—तदाऽपीतें संसारव्यपदेशात्[ब्र.सू. ४.२.८] । अपीतिर्लयम् । मर्यादायामाङ। अपीतिं लयं मर्यादीकृत्य, तस्य मनसो लयात्पूर्वकाले संसारव्यपदेशम् । न तु तल्लये सतीति सूत्रार्थम् । तथा च सुषुप्तावपि पुनरुत्थानेन संसारव्यपदेशस्य सत्त्वान्न मनोलयम् । विवरणकाराणां तु केयं सूक्ष्मता नाम इत्यादिना यन्मनोलयाभिधानं, तत्परमताभिप्रायेण न तु स्वमतानुसारेण सूत्रविरोधातिति भावम् ।
भगवदाकारता तु चित्तस्य स्वाभाविकी तस्य चित्तकारणीभूतसूक्ष्मकारणानिर्वचनीयविचित्रानेकशक्तिमन्मायाधिष्ठानस्य नित्यस्य विभों सर्वान्तर्यामिणं सर्वत्रानुगतत्वात्, यथा घटस्य जलादिपूर्णता कारणसाध्या, आकाशपूर्णता तु स्वतम्, तस्य सर्वव्यापकत्वात्, तद्वत। तदुक्तं वार्तिकाकारपादैम्—
वियद्वस्तुस्वभावानुरोधादेव न कारकात।
वियत्सम्पूर्णतोत्पत्तौ कुम्भस्यैवं दशा धियाम् ॥
सुखदुम्खादिरूपत्वं धियां धर्मादिहेतुतम् ।
स्वतं सिद्धात्मसम्बोधव्याप्तिर्वस्त्वनुरोधतम् ॥ इति ।
चित्तस्य भगवदाकारतायां स्वाभाविकत्वेन हेत्वनपेक्षाया शास्त्रस्य कोपयोग इति चेदन्याकारताविरोधिभगवदाकारतासम्पादन इत्यवेहि । या हि स्वाभाविकी भगवदाकारता चित्तस्य, सा विषयाकारतासहचरितत्वात्तत्सधकत्वाच्च न तद्विरोधिनी । शास्त्रजन्या तु साधनोपक्रमे परोक्षेव भासमानाभ्यासक्रमेण विषयाकारतां शनैं शनैस्तिरोदधती साधनपरिपाकेणापरोक्षतां नीता सती तां समूलघातमुपहन्ति । अत एवोक्तम्—
यर्ह्यब्जनाभचरणैषणयोरुभक्त्या
चेतोमलानि विधमेद्गुणकर्मजानि ।
तस्मिन्विशुद्ध उपलभ्यत आत्मतत्त्वं
साक्षाद्यथामलदृशों सवितृप्रकाशम् ॥ (११.३.४०)
यथाग्निना हेम मलं जहाति
ध्मातं पुनं स्वं भजते च रूपम् ।
आत्मा च कर्मानुशयं विधूय
मद्भक्तियोगेन भजत्यथो माम् ॥
यथा यथात्मा परिमृज्यतेऽसौ
मत्पुण्यगाथाश्रवणाभिधानैम् ।
तथा तथा पश्यति वस्तु सूक्ष्मं
चक्षुर्यथैवाञ्जनसम्प्रयुक्तम् ॥
विषयान्ध्यायतश्चित्तं विषयेषु विषज्जते ।
मामनुस्मरतश्चित्तं मय्येव प्रविलीयते ॥
तस्मादसदभिध्यानं यथा स्वप्नमनोरथम् ।
हित्वा मयि समाधत्स्व मनो मद्भावभावितम् ॥ (११.१४.२५२८)
एतावान्योग आदिष्टो मच्छिष्यैं सनकादिभिम् ।
सर्वतो मन आकृष्य मय्यद्धावेश्यते मनम् ॥ (११.१३.१४)
स च श्रीकपिलदेवेनोक्तम्—
अनिमित्तनिमित्तेन स्वधर्मेणामलात्मना ।
तीव्रया मयि भक्त्या च श्रुतसम्भृतया चिरम् ॥
ज्ञानेन दृष्टतत्त्वेन वैराग्येण बलीयसा ।
तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥
प्रकृतिं पुरुषस्येह दह्यमाना त्वहर्निशम् ।
तिरोभवित्री शनकैरग्नेर्योनिरिवारणिम् ॥ (३.२७.२१२३)
प्रकृतिं स्वाभाविकी विषयाकारतेत्यर्थम् । हंसगीतासु च—
गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।
कथमन्योन्यसन्त्यागो मुकुक्षोरतितितीर्षोम् ॥ (११.१३.१७)
इति सनकादिप्रश्नस्योत्तरं भगवानुवाच—
मनसा वचसा दृष्ट्या गृह्यतेऽन्यैरपीन्द्रियैम् ।
अहमेव न मत्तोऽन्यदिति बुध्यध्वमञ्जसा ॥ (११.१३.२४)
जाग्रत्स्वप्नं सुषुप्तं च गुणतो बुद्धिवृत्तयम् ।
तासां विलक्षणो जीवं साक्षित्वेन विनिश्चितम् ॥
यर्हि संसृतिबन्धोऽयमात्मनो गुणवृत्तिदम् ।
मयि तुर्ये स्थितो जह्यात्त्यागस्तद्गुणचेतसाम् ॥
अहङ्कारकृतं बन्धमात्मनोऽर्थविपर्ययम् ।
विद्वान्निर्विद्य संसार चिन्तां तुर्ये स्थितस्त्यजेत॥
यावन्नानार्थधीं पुंसो न निवर्तेत युक्तिभिम् ।
जागर्त्यपि स्वपन्नज्ञं स्वप्ने जागरणं यथा ॥
असत्त्वादात्मनोऽन्येषां भावानां तत्कृता भिदा ।
गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा ॥ (११.१३.२७३१)
यो जागरे बहिरनुक्षणधर्मिणोऽर्थान्
भुङ्क्ते समस्तकरणैर्हृदि तत्सदृक्षान।
स्वप्ने सुषुप्त उपसंहरते स एकम्
स्मृत्यन्वयात्त्रिगुणवृत्तिदृगिन्द्रियेशम् ॥ (११.१३.३२)
एवं विमृश्य गुणतो मनसस्त्र्यवस्था
मन्मायया मयि कृता इति निश्चितार्थाम् ।
सञ्छिद्य हार्दमनुमानसदुक्तितीक्ष्ण
ज्ञानासिना भजत माखिलसंशयाधिम् ॥ (११.१३.३३)
एवं जिज्ञासयापोह्य नानात्वभ्रममात्मनि ।
उपारमेत विरजं मनो मय्यर्प्य सर्वगे ॥ (११.११.२१) इत्यादि ।
अयमत्र निष्कर्षम्—चित्ते स्वाकारसमर्पका ये विषयास्ते भगवद्व्यतिरिक्ता न भवन्ति, भगवत्यध्यस्तत्वात। भगवत एव सद्रूपतया घटं सन्पटं सन्नित्यादिसदाकारेणैव सर्वविषयाणां स्फुरणात। सर्वं खल्विदं ब्रह्म तज्जलान्[छा.उ. ३.१४.१] इति श्रुत्या भगवदेकोद्भवत्वेन भगवदेकस्थितित्वेन भगवदेकलयत्वेन च मृद्घटवदबोधनात। स्वप्नादिप्रपञ्चवद्बाध्यत्वाच्च । अत एव भगवदाकारस्फूर्त्या ते सर्वे निवर्तमानास्तद्रूपा एव भवन्ति, अधिष्ठानज्ञाननिवर्त्यत्वादध्यस्तानाम् ।
एवं च सति विषयनिष्ठं सर्वोऽपि प्रेमा भगवत्येवार्पितो भवति, तद्व्यतिरिक्तास्फुरणात। एतादृशी चावस्था प्रह्लादेन प्रार्थिता—
या प्रीतिरविवेकानां विषयेष्वनपायिनी ।
त्वामनुस्मरतं सा मे हृदयान्नापसर्पतु ॥ [VइP १.२०.१९] इति ।
तस्मादेतादृशयुक्त्यनुसन्धानेन सर्वाधिष्ठानसन्मात्रं परिपूर्णसच्चिदानन्दघनं भगवन्तमद्वयमात्मानं निश्चिन्वन्तं स्वाप्निकविषयेष्विव जाग्रद्विषयेष्वपि तुच्छत्वानुसन्धानेन वैराग्यं महदुपजायते वशीकाराख्यम् । एतच्च सूत्रितं भगवता पतञ्जलिना—दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यं [यो.सू. १.१५] इति । चतुर्विधं हि वैराग्यं साध्यसाधनभावापन्नमागमप्रसिद्धम् । तत्र महता प्रयासेनापि चित्तदोषानवश्यं निराकरिष्यामीत्यध्यवसायात्मकं प्रथमं यतमानसंज्ञावैराग्यम् । ततो निरन्तरमुपायानुष्ठाने क्रियमाण एतावन्तो दोषा इदानीं क्षीणा एतावन्तश्चावशिष्यन्त इति चिकित्सकवत्प्रतिक्षणमवधानं द्वितीयं व्यतिरेकसंज्ञावैराग्यम् । एवं प्रतिक्षणं भूमिकाद्वयाभ्यासं कुर्वतं सर्वतोभावेन बहिरिन्द्रियाणां विषयेष्वप्रवृत्तिर्याऽन्तम्करणे वासनायां सत्यामपि, सा तृतीयमेकेन्द्रियसंज्ञावैराग्यम् । एवं भूमिकात्रयाभ्यासाद्दृष्टेषु वनितादिष्वानुश्रविकेषु स्वर्गादिषु चेन्द्रियैर्गृह्यमाणेष्वपि दोषदर्शनपरिपाकजन्यास्पृहात्मिका या चित्तवृत्तिं सा चतुर्थं वशीकारसंज्ञावैराग्यम् ।
तदपि द्विविधमपरं परं च । द्वितीयं सूत्रितं पतञ्जलिना—तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यं [यो.सू. १.१६] इति । पुरुषख्यातिरात्मज्ञानम् । तदनन्तरं यत्गुणेषु शब्दादिविषयेषु वैतृष्ण्यं वैराग्यं तत्परं श्रेष्ठम्, फलरूपत्वात। ततं पूर्वं त्वपरम्, साधनरूपत्वादित्यर्थम् । तस्य च लिङ्गमितरफलनिरपेक्षत्वेन मोक्षमात्रस्पृहयालुत्वम् । यथा मुचुकुन्दस्य—
न कामयेऽन्यं तव पादसेवनाद्
अकिञ्चनप्रार्थ्यतमाद्वरं विभो ।
आराध्य कस्त्वामपवर्गदं हरे
वृणीत आर्यो वरमात्मबन्धनम् ॥
तस्माद्विसृज्याशिष ईश सर्वतो
रजस्तमम्सत्त्वगुणानुबन्धाम् ।
निरञ्जनं निर्गुणमद्वयं परं
त्वां ज्ञप्तिमात्रं पुरुषं व्रजाम्यहम् ॥
चिरमिह वृजिनार्तस्तप्यमानोऽनुतापैर्
अवितृषषडमित्रोऽलब्धशान्तिं कथञ्चित।
अशरणद समुपेतस्त्वत्पदाब्जं परात्मन्
अभयममृतमशोकं पाहि मापन्नमीश ॥ (१०.५१.५५५७)
एतादृशदशायां च भगवत्प्रेमा न पराकाष्ठामधिरोहतीति तदर्थं तं प्रति भगवतोक्तम्—
क्षात्रधर्मस्थितो जन्तून्न्यवधीर्मृगयादिभिम् ।
समाहितस्तत्तपसा जह्यघं मदुपाश्रितम् ॥
जन्मन्यनन्तरे राजन्सर्वभूतसुहृत्तमम् ।
भूत्वा द्विजवरस्त्वं वै मामुपैष्यसि केवलम् ॥ (१०.५१.६२६३) इति ।
अपरवैराग्यं च सूत्रितं पतञ्जलिना—दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यं [यो.सू. १.१५] इति । तेन न प्रेमपरमाकाष्ठेति न तदानीमेव कृतार्थता, परवैराग्याभावेन भक्तिप्रकर्षाभावात। तस्यैव कृतकृत्यताहेतुत्वादित्यर्थम् । परवैराग्यस्य लिङ्गं मोक्षपर्यन्तसकलफलनिरपेक्षत्वम्, यथा—
इमं लोकं तथैवामुमात्मानमुभयायिनम् ।
आत्मानमनु ये चेह ये रायं पशवो गृहाम् ॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ।
भजन्त्यनन्यया भक्त्या तान्मृत्योरतिपारये ॥ (३.२५.३९४०)
सालोक्यसार्ष्टिसामीप्य सारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जनाम् ॥ (३.२९.१३)
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्पादसेवाभिरता मदीहाम् ।
येऽन्योन्यतो भागवतां प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ (३.२५.३४)
न पारमेष्ठ्यं न महेन्द्रधिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
मय्यर्पितात्मेच्छति मद्विनान्यत॥ (११.१४.१४)
प्रह्लादम्—
अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यनपाश्रयम् ।
नान्यथेहावयोरर्थो राजसेवकयोरिव ॥ (७.१०.६)
पृथुम्—
न कामये नाथ तदप्यहं क्वचिन्
न यत्र युष्मच्चरणाम्बुजासवम् ।
महत्तमान्तर्हृदयान्मुखच्युतो
विधत्स्व कर्णायुतमेष मे वरम् ॥ (४.२०.२४)
ध्रुवम्—
या निर्वृतिस्तनुभृतां तव पादपद्म
ध्यानाद्भवज्जनकथाश्रवणेन वा स्यात।
सा ब्रह्मणि स्वमहिमन्यपि नाथ मा भूत्
किं त्वन्तकासिलुलितात्पततां विमानात॥ (४.९.१०)
महिष्यम्—
न वयं साध्वि साम्राज्यं स्वाराज्यं भौज्यमप्युत ।
वैराज्यं पारमेष्ठ्यं च आनन्त्यं वा हरें पदम् ॥
कामयामह एतस्य श्रीमत्पादरजं श्रियम् ।
कुचकुङ्कुमगन्धाठ्यं मूर्ध्ना वोठुं गदाभृतम् ॥ (१०.८३.४१४२)
इन्द्रम्—
प्रत्यानीतां परम भवता त्रायता नं स्वभागा
दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि ।
कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते
मुक्तिस्तेषां न हि बहुमता नारसिंहापरैं किम् ॥ (७.८.४२)
तथा—
यस्य भक्तिर्भगवति हरौ निम्श्रेयसेश्वरे ।
विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैं खातकोदकैम् ॥ (६.१२.२२)
वृत्रम्—
न नाकपृष्ठं न च पारमेष्ठ्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ (६.११.२५)
श्रुतयम्—
दुरवगमात्मतत्त्वनिगमाय तवात्ततनोश्
चरितमहामृताब्धिपरिवर्तपरिश्रमणाम् ।
न परिलषन्ति केचिदपवर्गमपीश्वर ते
चरणसरोजहंसकुलसङ्गविसृष्टगृहाम् ॥ (१०.८७.२१)
एवमन्यदप्यूहनीयम् । एतादृशे मोक्षपर्यन्तसकलफलनिरपेक्षत्वरूपे परवैराग्ये सति फलान्तरे प्रेम्णोऽनुदयात्परमानन्दरूपे परमात्मन्येव प्रेमा परां काष्ठामारोहति । यथा वृत्रस्य—
अजातपक्षा इव मातरं खगाम्
स्तन्यं यथा वत्सतरां क्षुधार्ताम् ।
प्रियं प्रियेव व्युषितं विषण्णा
मनोऽरविन्दाक्ष दिदृक्षते त्वाम् ॥ (६.११.२६) इति ।
अत एव ज्ञानं विना परवैराग्याभावात्तदृते च भगवत्प्रेमपराकाष्ठाभावात्तदर्थं ज्ञानवैराग्ये दृढीकर्तव्ये । तदुक्तम्—
असेवयायं प्रकृतेर्गुणानां
ज्ञानेन वैराग्यविजृम्भितेन ।
योगेन मय्यर्पितया च भक्त्या
मां प्रत्यगात्मानमिहावरुन्धे ॥ (३.२५.२७)
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनम् ।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ॥ (३.२५.४३)
इत्यच्युताङ्घ्रिं भजतोऽनुवृत्त्या
भक्तिर्विरक्तिर्भगवत्प्रबोधम् ।
भवन्ति वै भागवतस्य राजंस्
ततं परां शान्तिमुपैति साक्षात॥ (११.२.४३)
भागवतस्य भगवद्धर्मानुष्ठातुं प्रथमं भगवत्प्रबोधस्ततं परं वैराग्यं ततं प्रेमलक्षणा भक्तिरित्यर्थम् । एतच्च दर्शितमुद्धवाय श्रीभगवता—
ज्ञानिनस्त्वहमेवेष्टं स्वार्थो हेतुश्च सम्मतम् ।
स्वर्गश्चैवापवर्गश्च नान्योऽर्थो मदृते प्रियम् ॥
ज्ञानवैराग्यसंसिद्धां पदं श्रेष्ठं विदुर्मम ।
ज्ञानी प्रियतमोऽतो मे ज्ञानेनासौ बिभर्ति माम् ॥ (११.१९.२३)
कीदृशं तज्ज्ञानमित्याकाङ्क्षायां सङ्क्षेपेण तदुक्तम्—
त्वय्युद्धवाश्रयति यस्त्रिविधो विकारो
मायान्तरापतति नाद्यपवर्गयोर्यत।
जन्मादयोऽस्य यदमी तव तस्य किं स्युर्
आद्यन्तयोर्यदसतोऽस्ति तदेव मध्ये ॥ (११.१९.७)
भगवद्व्यतिरिक्तं सर्वमागमापायित्वात्स्वप्नवन्मायिकं तुच्छं दुम्खरूपं च हेयम् । भगवानेव सत्यं स्वप्रकाशपरमानन्दरूपो नित्यो विभुश्चोपादेय इति ज्ञानमित्यर्थम् । श्रीमद्भगवद्गीतासु च तदेवोक्तम्—
तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियम् ॥
उदारां सर्व एवैते ज्ञानी त्वात्मैव मे मतम् ।
आस्थितं स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥
बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवं सर्वमिति स महात्मा सुदुर्लभम् ॥ (गीता ७.१७१९) इति ।
वासुदेवातिरिक्तं सर्वं सत्यं नास्ति मायिकत्वात। वासुदेव एवात्मत्वात्प्रियतमं सत्य इत्यर्थम् । एतादृशज्ञानपूर्वकवैराग्यं च दर्शितम्—
श्रुतिं प्रत्यक्षमैतिह्यमनुमानं चतुष्टयम् ।
प्रमाणेष्वनवस्थानाद्विकल्पात्स विरज्यते ॥
कर्मणां परिणामित्वादाविरिञ्च्यादमङ्गलम् ।
विपश्चिन्नश्वरं पश्येददृष्टमपि दृष्टवत॥ (११.१९.१७१८)
तथान्यत्र—
कर्माण्यारभमाणानां दुम्खहत्यै सुखाय च ।
पश्येत्पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥
नित्यार्तिदेन वित्तेन दुर्लभेनात्ममृत्युना ।
गृहापत्याप्तपशुभिं का प्रीतिं साधितैश्चलैम् ॥
एवं लोकं परं विद्यान्नश्वरं कर्मनिर्मितम् ।
सतुल्यातिशयध्वंसं यथा मण्डलवर्तिनाम् ॥ (११.३.१८२०)
कीदृशी भगवद्धर्मानुष्ठातुर्ज्ञानवैराग्यपूर्विका भगवति भक्तिरुदेतीत्याकाङ्क्षायामुक्तम्—
यद्यनीशो धारयितुं मनो ब्रह्मणि निश्चलम् ।
मयि सर्वाणि कर्माणि निरपेक्षं समाचर ॥
श्रद्धालुर्मत्कथां शृण्वन्सुभद्रा लोकपावनीम् ।
गायन्ननुस्मरन्कर्म जन्म चाभिनयन्मुहुम् ॥
मदर्थे धर्मकामार्थानाचरन्मदपाश्रयम् ।
लभते निश्चलां भक्तिं मय्युद्धव सनातने ॥ (११.११.२२२४)
तथा—
भक्तियोगं पुरैवोक्तं प्रीयमाणाय तेऽनघ ।
पुनश्च कथयिष्यामि मद्भक्तें कारणं परम् ॥
श्रद्धामृतकथायां मे शश्वन्मदनुकीर्तनम् ।
परिनिष्ठा च पूजायां स्तुतिभिं स्तवनं मम ॥
आदरं परिचर्यायां सर्वाङ्गैरभिवन्दनम् ।
मद्भक्तपूजाभ्यधिका सर्वभूतेषु मन्मतिम् ॥
मदर्थेष्वङ्गचेष्टा च वचसा मद्गुणेरणम् ।
मय्यर्पणं च मनसं सर्वकामविवर्जनम् ॥
मदर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च ।
इष्टं दत्तं हुतं जप्तं मदर्थं यद्व्रतं तपम् ॥
एवं धर्मैर्मनुष्याणामुद्धवात्मनिवेदिनाम् ।
मयि सञ्जायते भक्तिं कोऽन्योऽर्थोऽस्यावशिष्यते ॥ (११.१९.१९२४)
तथान्यत्र—
तस्माद्गुरुं प्रपद्येत जिज्ञासुं श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्युपशमाश्रयम् ॥
तत्र भागवतान्धर्मान्शिक्षेद्गुर्वात्मदैवतम् ।
अमाययानुवृत्त्या यैस्तुष्येदात्मात्मदो हरिम् ॥
सर्वतो मनसोऽसङ्गमादौ सङ्गं च साधुषु ।
दयां मैत्रीं प्रश्रयं च भूतेष्वद्धा यथोचितम् ॥
शौचं तपस्तितिक्षां च मौनं स्वाध्यायमार्जवम् ।
ब्रह्मचर्यमहिंसां च समत्वं द्वन्द्वसंज्ञयोम् ॥
सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतताम् ।
विविक्तचीरवसनं सन्तोषं येन केनचित॥
श्रद्धां भागवते शास्त्रेऽनिन्दामन्यत्र चापि हि ।
मनोवाक्कर्मदण्डं च सत्यं शमदमावपि ॥
श्रवणं कीर्तनं ध्यानं हरेरद्भुतकर्मणम् ।
जन्मकर्मगुणानां च तदर्थेऽखिलचेष्टितम् ॥
इष्टं दत्तं तपो जप्तं वृत्तं यच्चात्मनं प्रियम् ।
दारान्सुतान्गृहान्प्राणान्यत्परस्मै निवेदनम् ॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् ।
परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥
परस्परानुकथनं पावनं भगवद्यशम् ।
मिथो रतिर्मिथस्तुष्टिर्निवृत्तिर्मिथ आत्मनम् ॥
स्मरन्तं स्मारयन्तश्च मिथोऽघौघहरं हरिम् ।
भक्त्या सञ्जातया भक्त्या बिभ्रत्युत्पुलकां तनुम् ॥ (११.३.२१३१)
क्वचिद्रुदन्त्यच्युतचिन्तया क्वचिद्
धसन्ति नन्दन्ति वदन्त्यलौकिकाम् ।
नृत्यन्ति गायन्त्यनुशीलयन्त्यजं
भवन्ति तूष्णीं परमेत्य निर्वृताम् ॥ (११.३.३२)
इति भागवतान्धर्मान्शिक्षन्भक्त्या तदुत्थया ।
नारायणपरो मायामञ्जस्तरति दुस्तराम् ॥ (११.३.३३) इति ।
तस्मादेवंविधैं शास्त्रीयैरुपायैर्मनम्शुद्धिं सम्पादयेदित्यर्थम् ॥
ओ)०(ओ
उपायां प्रथमस्कन्धे नारदेनोपवर्णिताम् ।
सङ्क्षेपात्तानहं वक्ष्ये भूमिभेदविभागतम् ॥३३॥
शास्त्रीयानेवोपायान्प्रतिपन्नजनबुद्धिसौकर्याय भूमिकाभेदेन वक्तुं प्रतिजानीते—उपाया इति । स्पष्टम् ॥३३॥
ओ)०(ओ
प्रथमं महतां सेवा तद्दयापात्रता ततम् ।
श्रद्धाथ तेषां धर्मेष ततो हरिगुणश्रुतिम् ॥३४॥
ततो रत्यङ्कुरोत्पत्तिं स्वरूपाधिगतिस्ततम् ।
प्रेमवृद्धिं परानन्दे तस्याथ स्फुरणं ततम् ॥३५॥
भगवद्धर्मनिष्ठाऽतं स्वस्मिंस्तद्गुणशालिता ।
प्रेम्णोऽथ परमा काष्ठेत्युदिता भक्तिभूमिका ॥३६॥
तानेवाह प्रथममित्यादि । यथा व्यासनारदसंवादे नारदम्—
अहं पुरातीतभवेऽभवं मुने
दास्यास्तु कस्याश्चन वेदवादिनाम् ।
निरूपितो बालक एव योगिनां
शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥
ते मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।
चक्रुं कृपां यद्यपि तुल्यदर्शनाम्
शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥
उच्छिष्टलेपाननुमोदितो द्विजैम्
सकृत्स्म भुञ्जे तदपास्तकिल्बिषम् ।
एवं प्रवृत्तस्य विशुद्धचेतसस्
तद्धर्म एवात्मरुचिं प्रजायते ॥
तत्रान्वहं कृष्णकथां प्रगायताम्
अनुग्रहेणाशृणवं मनोहराम् ।
तां श्रद्धया मेऽनुपदं विशृण्वतम्
प्रियश्रवस्यङ्ग ममाभवद्रुचिम् ॥
तस्मिंस्तदा लब्धरुचेर्महामते
प्रियश्रवस्यस्खलिता मतिर्मम ।
ययाहमेतत्सदसत्स्वमायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥
इत्थं शरत्प्रावृषिकावृतू हरेर्
विशृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर्महात्मभिर्
भक्तिं प्रवृत्तात्मरजस्तमोपहा ॥
तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनसम् ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥
ज्ञानं गुह्यतमं यत्तत्साक्षाद्भगवतोदितम् ।
अन्ववोचन्गमिष्यन्तं कृपया दीनवत्सलाम् ॥
येनैवाहं भगवतो वासुदेवस्य वेधसम् ।
मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥
एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥
आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥
एवं नृणां क्रियायोगां सर्वे संसृतिहेतवम् ।
त एवात्मविनाशाय कल्पन्ते कल्पितां परे ॥
यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥
कुर्वाणा यत्र कर्माणी भगवच्छिक्षयासकृत।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥
ओं नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नमं सङ्कर्षणाय च ॥
इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग्दर्शनं पुमान॥
इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन्भावं च केशवम् ॥ (१.५.२३३९)
(१) महत्सेवा द्विविधा—भगवद्भक्तसेवा साक्षाद्भगवत्सेवा च । तत्राद्या, यथा—
महत्सेवां द्वारमाहुर्विमुक्तेस्
तमोद्वारं योषितां सङ्गिसङ्गम् ।
महान्तस्ते समचित्तां प्रशान्ता
विमन्यवं सुहृदं साधवो ये ॥
ये वा मयीशे कृतसौहृदार्था
जनेषु देहम्भरवार्तिकेषु ।
गृहेषु जायात्मजरातिमत्सु
न प्रीतियुक्ता यावदर्थाश्च लोके ॥ (५.५.२३)
यथा—
प्रसङ्गमजरं पाशमात्मनं कवयो विदुम् ।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥
तितिक्षवं कारुणिकां सुहृदं सर्वदेहिनाम् ।
अजातशत्रवं शान्तां साधवं साधुभूषणाम् ॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाम् ॥
मदाश्रयां कथा मृष्टां शृण्वन्ति कथयन्ति च ।
तपन्ति विविधास्तापा नैतान्मद्गतचेतसम् ॥
त एते साधवं साध्वि सर्वसङ्गविवर्जिताम् ।
सङ्गस्तेष्वथ ते प्रार्थ्यं सङ्गदोषहरा हि ते ॥ (३.२५.२०२४)
यथा—
यत्पादसंश्रयां सूत मुनयं प्रशमायनाम् ।
सद्यं पुनन्त्युपस्पृष्टां स्वर्धुन्यापोऽनुसेवया ॥ (१.१.१५)
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषम् ॥ (१.१८.१३)
यथा—
दुर्लभो मानुषो देहो देहिनां क्षणभङ्गुरम् ।
तत्रापि दुर्लभं मन्ये वैकुण्ठप्रियदर्शनम् ॥
अत आत्यन्तिको क्षेमं पृच्छामो भवतोऽनघाम् ।
संसारेऽस्मिन्क्षणार्धोऽपि सत्सङ्गं शेवधिर्नृणाम् ॥ (११.२.२९३०)
यथा—
नो रोधयति मां योगो न साङ्ख्यं धर्म एव च ।
न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा ॥
व्रतानि यज्ञश्छन्दांसि तीर्थानि नियमा यमाम् ।
यथावरुन्धे सत्सङ्गं सर्वसङ्गापहो हि माम् ॥
सत्सङ्गेन हि दैतेया यातुधाना मृगां खगाम् ।
गन्धर्वाप्सरसो नागां सिद्धाश्चारणगुह्यकाम् ॥
विद्याधरा मनुष्येषु वैश्यां शूद्रां स्त्रियोऽन्त्यजाम् ।
रजस्तमम्प्रकृतय तस्मिंस्तस्मिन्युगे युगे ॥
बहवो मत्पदं प्राप्तास्त्वाष्ट्रकायाधवादयम् । (११.१२.१५)
साक्षाद्भगवत्सेवा, यथा—
वृषपर्वा बलिर्बाणो मयश्चाथ विभीषणम् ॥
सुग्रीवो हनुमानृक्षो गजो गृध्रो वणिक्पथम् ।
व्याधं कुब्जा व्रजे गोप्यो यज्ञपत्न्यस्तथापरे ॥
ते नाधीतश्रुतिगणा नोपासितमहत्तमाम् ।
अव्रतातप्ततपसो मत्सङ्गान्मामुपागताम् ॥
केवलेन हि भावेन गोप्यो गावो नगा मृगाम् ।
येऽन्ये मूठधियो नागां सिद्धा मामीयुरञ्जसा ॥
यं न योगेन साङ्ख्येन दानव्रततपोऽध्वरैम् ।
व्याख्यास्वाध्यायसन्न्यासैं प्राप्नुयाद्यत्नवानपि ॥ (११.१२.५९)
मत्कामा रमणं जारमस्वरूपविदोऽबलाम् ।
ब्रह्म मां परमं प्रापुं सङ्गाच्छतसहस्रशम् ॥
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् ।
प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतमेव च ॥
मामेकमेव शरणमात्मानं सर्वदेहिनाम् ।
याहि सर्वात्मभावेन मया स्या ह्यकुतोभयम् ॥ (११.१२.१३१५)
तदयमत्र निष्कर्षम्—भगवत्सङ्गं वा भगवत्सङ्गिसङ्गं वा यथायोग्यमन्तरेण न भग्वति भक्तिरुदेति । एतावांस्तु विशेषम्—भगवत्सङ्गिनां कृतार्थत्वान्नान्यसङ्गापेक्षेति व्याख्याता द्विविधा महत्सेवा ।
(२) तद्दयापात्रता ततम् । तेषां महतां दया स्वविषया स्वकीयैं सुशीलतादिगुणैर्भवति । ते च गुणा भगवतोक्ताम्—
कृपालुरकृतद्रोहस्तितिक्षुं सर्वदेहिनाम् ।
सत्यसारोऽनवद्यात्मा समं सर्वोपकारकम् ॥
कामैरहतधीर्दान्तो मृदुं शुचिरकिञ्चनम् ।
अनीहो मितभुक्शान्तं स्थिरो मच्छरणो मुनिम् ॥
अप्रमत्तो गभीरात्मा धृतिमाञ् जितषड्गुणम् ।
अमानी मानदं कल्यो मैत्रं कारुणिकं कविम् ॥ (११.११.२९३१)
तथा—
यमानभीक्ष्णं सेवेत नियमान्मत्परं क्वचित।
मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ॥
अमान्यमत्सरो दक्षो निर्ममो दृठसौहृदम् ।
असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक॥
जायापत्यगृहक्षेत्र स्वजनद्रविणादिषु ।
उदासीनं समं पश्यन्सर्वेष्वर्थमिवात्मनम् ॥ (११.१०.५७) इत्यादि ।
उदाहरणं प्रह्लादम् । यथा—
तस्य दैत्यपतें पुत्राश्चत्वारं परमाद्भुताम् ।
प्रह्रादोऽभून्महांस्तेषां गुणैर्महदुपासकम् ॥
ब्रह्मण्यं शीलसम्पन्नं सत्यसन्धो जितेन्द्रियम् ।
आत्मवत्सर्वभूतानामेकप्रियसुहृत्तमम् ॥
दासवत्सन्नतार्याङ्घ्रिं पितृवद्दीनवत्सलम् ।
भ्रातृवत्सदृशे स्निग्धो गुरुष्वीश्वरभावनम् ।
विद्यार्थरूपजन्माढ्यो मानस्तम्भविवर्जितम् ॥ (७.४.३०३२)
नोद्विग्नचित्तो व्यसनेषु निम्स्पृहम्
श्रुतेषु दृष्टेषु गुणेष्ववस्तुदृक।
दान्तेन्द्रियप्राणशरीरधीं सदा
प्रशान्तकामो रहितासुरोऽसुरम् ॥ (७.४.३३)
एतादृशशिष्यगुणाभावे तु जातोऽपि महत्तमसङ्गो निरर्थक इति तद्दयापात्रता भवति द्वितीया भूमिका । सापि द्विविधा—स्वप्रयत्नानपेक्षा तत्सापेक्षा च । तत्राद्या, यथा—
तर्ह्येव सरसस्तस्मान्निष्क्रामन्तं सहानुगम् ।
उपगीयमानममर प्रवरं विबुधानुगैम् ॥
तप्तहेमनिकायाभं शितिकण्ठं त्रिलोचनम् ।
प्रसादसुमुखं वीक्ष्य प्रणेमुर्जातकौतुकाम् ॥
स तान्प्रपन्नार्तिहरो भगवान्धर्मवत्सलम् ।
धर्मज्ञान्शीलसम्पन्नान्प्रीतं प्रीतानुवाच ह ॥
श्रीरुद्र उवाच
यूयं वेदिषदं पुत्रा विदितं वश्चिकीर्षितम् ।
अनुग्रहाय भद्रं व एवं मे दर्शनं कृतम् ॥
यं परं रंहसं साक्षात्त्रिगुणाज्जीवसंज्ञितात।
भगवन्तं वासुदेवं प्रपन्नं स प्रियो हि मे ॥
स्वधर्मनिष्ठं शतजन्मभिं पुमान्
विरिञ्चतामेति ततं परं हि माम् ।
अव्याकृतं भागवतोऽथ वैष्णवं
पदं यथाहं विबुधां कलात्यये ॥
अथ भागवता यूयं प्रियां स्थ भगवान्यथा ।
न मद्भागवतानां च प्रेयानन्योऽस्ति कर्हिचित॥
इदं विविक्तं जप्तव्यं पवित्रं मङ्गलं परम् ।
निम्श्रेयसकरं चापि श्रूयतां तद्वदामि वम् ॥
इत्यनुक्रोशहृदयो भगवानाह ताऽ छिवम् ।
बद्धाञ्जलीन्राजपुत्रान्नारायणपरो वचम् ॥ (४.२४.२४३२)
इत्यादौ रुद्रप्रचेतससंवादे । यथा वाते मय्यपेताखिलचापलेऽर्भके (१.५.२४) इत्यत्र । स्वप्रयत्नापेक्षा, यथा ध्रुवनारदसंवादे ध्रुव उवाच—
सोऽयं शमो भगवता सुखदुम्खहतात्मनाम् ।
दर्शितं कृपया पुंसां दुर्दर्शोऽस्मद्विधैस्तु यम् ॥
अथापि मेऽविनीतस्य क्षात्त्रं घोरमुपेयुषम् ।
सुरुच्या दुर्वचोबाणैर्न भिन्ने श्रयते हृदि ॥
पदं त्रिभुवनोत्कृष्टं जिगीषों साधु वर्त्म मे ।
ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् ॥
नूनं भवान्भगवतो योऽङ्गजं परमेष्ठिनम् ।
वितुदन्नटते वीणां हिताय जगतोऽर्कवत॥
मैत्रेय उवाच—
इत्युदाहृतमाकर्ण्य भगवान्नारदस्तदा ।
प्रीतं प्रत्याह तं बालं सद्वाक्यमनुकम्पया ॥
नारद उवाच—
जनन्याभिहितं पन्थां स वै निम्श्रेयसस्य ते ।
भगवान्वासुदेवस्तं भज तं प्रवणात्मना ॥
धर्मार्थकाममोक्षाख्यं य इच्छेच्छ्रेय आत्मनम् ।
एकं ह्येव हरेस्तत्र कारणं पादसेवनम् ॥
तत्तात गच्छ भद्रं ते यमुनायास्तटं शुचि ।
पुण्यं मधुवनं यत्र सान्निध्यं नित्यदा हरेम् ॥ (४.८.३५४२)
(३) श्रद्धाऽथ तेषां धर्मेषु । पूर्वोक्तगुणसम्पन्नस्य महत्तमान्सेवमानस्यैतादृशधर्मानुष्ठानादहमपि कृतार्थो भवेयमिति रुचिविशेषरूपा श्रद्धा तद्धर्मेषु भवति । तदुक्तम्—
यदनुध्यासिना युक्तां कर्मग्रन्थिनिबन्धनम् ।
छिन्दन्ति कोविदास्तस्य को न कुर्यात्कथारतिं ॥
शुश्रूषों श्रद्दधानस्य वासुदेवकथारुचिम् ।
स्यान्महत्सेवया विप्रां पुण्यतीर्थनिषेवणात॥ (१.२.१५१६)
ज्ञानं यदाप्रतिनिवृत्तगुणोर्मिचक्रम्
आत्मप्रसाद उत यत्र गुणेष्वसङ्गम् ।
कैवल्यसम्मतपथस्त्वथ भक्तियोगम्
को निर्वृतो हरिकथासु रतिं न कुर्यात॥ (२.३.१२) इत्यादि ।
हरिकथापदमन्येषामपि भागवतधर्माणामुपलक्षणम् । यथाह ब्रह्मा—
तदस्तु मे नाथ स भूरिभागो
भवेऽत्र वान्यत्र तु वा तिरश्चाम् ।
येनाहमेकोऽपि भवज्जनानां
भूत्वा निषेवे तव पादपल्लवम् ॥ (१०.१४.३०)
इत्यत्र पादसेवनम् । एवमन्यदप्यूह्यम् । इयं च श्रद्धा साधनपरिपाकेण वर्धमानैहिकामुष्मिकसर्वविषयारुचिमुपजनयन्ती बुभुक्षेव भक्ष्यमात्रैकशरणं भगवद्धर्माचरणैकजीवनं पुरुषमापादयति । यथा परीक्षितम्—
नैषातिदुम्सहा क्षुन्मां त्यक्तोदमपि बाधते ।
पिबन्तं त्वन्मुखाम्भोज च्युतं हरिकथामृतम् ॥ (१०.१.१३)
इत्यादिभ्यम् । यथा वा शौनिकादीनाम्—
आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥ (२.३.१७)
बिले बतोरुक्रमविक्रमान्ये
न शृण्वतं कर्णपुटे नरस्य ।
जिह्वासती दार्दुरिकेव सूत
न चोपगायत्युरुगायगाथाम् ॥
भारं परं पट्टकिरीटजुष्टम्
अप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।
शावौ करौ नो कुरुते सपर्यां
हरेर्लसत्काञ्चनकङ्कणौ वा ॥
बर्हायिते ते नयने नराणां
लिङ्गानि विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजौ
क्षेत्राणि नानुव्रजतो हरेर्यौ ॥
जीवञ् छवो भागवताङ्घ्रिरेणुं
न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्याम्
श्वसञ् छवो यस्तु न वेद गन्धम् ॥
तदश्मसारं हृदयं बतेदं
यद्गृह्यमाणैर्हरिनामधेयैम् ।
न विक्रियेताथ यदा विकारो
नेत्रे जलं गात्ररुहेषु हर्षम् ॥ (२.३.२०२४) इत्यादौ ।
श्रद्धाविहीनास्तु केचिद्विषयभोगपराम् । केचित्पाण्डित्यादिगर्वेण भगवद्भ्कतनिन्दापरां सन्तो निरयेऽपि निन्दनीया एव भवन्ति । तत्र प्रथमे, यथा—
यन्न व्रजन्त्यघभिदो रचनानुवादाच्
छृण्वन्ति येऽन्यविषयां कुकथा मतिघ्नीम् ।
यास्तु श्रुता हतभगैर्नृभिरात्तसारास्
तांस्तान्क्षिपन्त्यशरणेषु तमम्सु हन्त ॥ (३.१५.२३)
तरवं किं न जीवन्ति भस्त्रां किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्रामे पशवोऽपरे ॥
श्वविड्वराहोष्ट्रखरैं संस्तुतं पुरुषं पशुम् ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजम् ॥ (२.३.१८१९) इत्यादि ।
भगवद्भक्तनिन्दापरा, यथा—
मुखबाहूरुपादेभ्यं पुरुषस्याश्रमैं सह ।
चत्वारो जज्ञिरे वर्णा गुणैर्विप्रादयं पृथक॥
य एषां पुरुषं साक्षादात्मप्रभवमीश्वरम् ।
न भजन्त्यवजानन्ति स्थानाद्भ्रष्टां पतन्त्यधम् ॥
दूरे हरिकथां केचिद्दूरे चाच्युतकीर्तनाम् ।
स्त्रियं शूद्रादयश्चैव तेऽनुकम्प्या भवादृशाम् ॥ (११.५.२४)
रजसा घोरसङ्कल्पां कामुका अहिमन्यवम् ।
दाम्भिका मानिनं पापा विहसन्त्यच्युतप्रियान॥
वदन्ति तेऽन्योन्यमुपासितस्त्रियो
गृहेषु मैथुन्यपरेषु चाशिषम् ।
यजन्त्यसृष्टान्नविधानदक्षिणं
वृत्त्यै परं घ्नन्ति पशूनतद्विदम् ॥
श्रिया विभूत्याभिजनेन विद्यया
त्यागेन रूपेण बलेन कर्मणा ।
जातस्मयेनान्धधियं सहेश्वरान्
सतोऽवमन्यन्ति हरिप्रियान्खलाम् ॥
सर्वेषु शश्वत्तनुभृत्स्ववस्थितं
यथा खमात्मानमभीष्टमीश्वरम् ।
वेदोपगीतं च न शृण्वतेऽबुधा
मनोरथानां प्रवदन्ति वार्तया ॥ (११.५.७१०)
हित्वात्ममायारचिता गृहापत्यसुहृत्स्त्रियम् ।
तमो विशन्त्यनिच्छन्तो वासुदेवपराङ्मुखाम् ॥ (११.५.१८)
न भजति कुमनीषिणां स इज्यां
हरिरधनात्मधनप्रियो रसज्ञम् ।
श्रुतधनकुलकर्मणां मदैर्ये
विदधति पापमकिञ्चनेषु सत्सु ॥ (४.३१.२१)
एवमन्यदप्यूहनीयम् । तस्माद्भगवद्धर्मश्रद्धा भवति तृतीया भूमिका ।
(४) ततो हरिगुणश्रुतिम्, यथा—
इत्थं परस्य निजवर्त्मरिरक्षयात्त
लीलातनोस्तदनुरूपविडम्बनानि ।
कर्माणि कर्मकषणानि यदूत्तमस्य
श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन॥
मर्त्यस्तयानुसवमेधितया मुकुन्द
श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।
तद्धाम दुस्तरकृतान्तजवापवर्गं
ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाम् ॥ (१०.९०.४९५०)
संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्
नान्यं प्लवो भगवतो पुरुषोत्तमस्य ।
लीलाकथारसनिषेवनमन्तरेण
पुंसो भवेद्विविधदुम्खदवार्दितस्य ॥ (१२.४.४०)
निवृत्ततर्षैरुपगीयमानाद्
भवौषधाच्छ्रोत्रमनोऽभिरामात।
क उत्तमश्लोकगुणानुवादात्
पुमान्विरज्येत विना पशुघ्नात॥ (१०.१.४)
को नु राजन्निन्द्रियवान्मुकुन्दचरणाम्बुजम् ।
न भजेत्सर्वतोमृत्युरुपास्यनमरोत्तमैम् ॥ (११.२.२)
तच्च भजनं विवृतम्—
श्रवणं कीर्तनं विष्णों स्मरणं पादसेवनम् ।
अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा ।
क्रियेत भगवत्यद्धा तन्मन्येऽधीतमुत्तमम् ॥ (७.५.२३२४)
तदेव सङ्क्षिप्तम्—
तस्माद्भारत सर्वात्मा भगवानीश्वरो हरिम् ।
श्रोतव्यं कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ (२.१.५)
क्रमेणोदाहरणम्—
पतितं स्खलितश्चार्तं क्षुत्त्वा वा विवशो गृणन।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात॥
सङ्कीर्त्यमानो भगवाननन्तम्
श्रुतानुभावो व्यसनं हि पुंसाम् ।
प्रविश्य चित्तं विधुनोत्यशेषं
यथा तमोऽर्कोऽभ्रमिवातिवातम् ॥
मृषा गिरस्ता ह्यसतीरसत्कथा
न कथ्यते यद्भगवानधोक्षजम् ।
तदेव सत्यं तदु हैव मङ्गलं
तदेव पुण्यं भगवद्गुणोदयम् ॥
तदेव रम्यं रुचिरं नवं नवं
तदेव शश्वन्मनसो महोत्सवम् ।
तदेव शोकार्णवशोषणं नृणां
यदुत्तमम्श्लोकयशोऽनुगीयते ॥
न तद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित।
तद्ध्वाङ्क्षतीर्थं न तु हंससेवितं
यत्राच्युतस्तत्र हि साधवोऽमलाम् ॥
तद्वाग्विसर्गो जनताघसम्प्लवो
यस्मिन्प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
शृण्वन्ति गायन्ति गृणन्ति साधवम् ॥
नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुतं पुनं शश्वदभद्रमीश्वरे
न ह्यर्पितं कर्म यदप्यनुत्तमम् ॥
यशम्श्रियामेव परिश्रमं परो
वर्णाश्रमाचारतपम्श्रुतादिषु ।
अविस्मृतिं श्रीधरपादपद्मयोर्
गुणानुवादश्रवणादरादिभिम् ॥
अविस्मृतिं कृष्णपदारविन्दयोम्
क्षिणोत्यभद्राणि च शं तनोति ।
सत्त्वस्य शुद्धिं परमात्मभक्तिं
ज्ञानं च विज्ञानविरागयुक्तम् ॥ (१२.१२.४७५५)
स्मरतं पादकमलमात्मानमपि यच्छति ।
किं न्वर्थकामान्भजतो नात्यभीष्टान्जगद्गुरुम् ॥ (१०.८०.११)
दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं
ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैम् ।
संसारकूपपतितोत्तरणावलम्बं
ध्यायंश्चराम्यनुगृहाण यथा स्मृतिं स्यात॥ (१०.६९.१८)
तं नं समादिशोपायं येन ते चरणाब्जयोम् ।
स्मृतिर्यथा न विरमेदपि संसरतामिह ॥ (१०.७३.१५)
तस्माद्रजोरागविषादमन्यु
मानस्पृहाभयदैन्याधिमूलम् ।
हित्वा गृहं संसृतिचक्रवालं
नृसिंहपादं भजताकुतोभयमिति ॥ (५.१८.१४)
अहो अमीषां किमकारि शोभनं
प्रसन्न एषां स्विदुत स्वयं हरिम् ।
यैर्जन्म लब्धं नृषु भारताजिरे
मुकुन्दसेवौपयिकं स्पृहा हि नम् ॥ (५.१९.२१)
यां सम्पर्यचरन्प्रेम्णा पादसंवाहनादिभिम् ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपम् ॥ (१०.९०.२७)
वैदिकस्तान्त्रिको मिश्र इति मे त्रिविधो मखं ।
त्रयाणामीप्सितेनैव विधिना मां समर्चयेत॥ (११.२७.७)
एवं क्रियायोगपथैं पुमान्वैदिकतान्त्रिकैं ।
अर्चन्नुभयतं सिद्धिं मत्तो विन्दत्यभीप्सितां ॥ (११.२७.४९)
यत्पादयोरशठधीं सलिलं प्रदाय
दूर्वाङ्कुरैरपि विधाय सतीं सपर्याम् ।
अप्युत्तमां गतिमसौ भजते त्रिलोकीं
दाश्वानविक्लवमनां कथमार्तिं ऋच्छेत॥ (८.२२.२३)
यद्युत्तमश्लोक भवान्ममेरितं
वचो व्यलीकं सुरवर्य मन्यते ।
करोम्यृतं तन्न भवेत्प्रलम्भनं
पदं तृतीयं कुरु शीर्ष्णि मे निजम् ॥ (८.२२.२)
तत्तेऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्मकृतं विपाकं ।
हृद्वाग्वपुर्भिर्विदधन्नमस्ते
जीवेत यो मुक्तिपदे स दायभाक् ॥ (१०.१४.८)
ममाद्यामङ्गलं नष्टं फलवांश्चैव मे भवम् ।
यन्नमस्ये भगवतो योगिध्येयाङ्घ्रिपङ्कजम् ॥ (१०.३८.६)
पतितं स्खलितश्चार्तं क्षुत्त्वा वा विवशो गृणन।
हरये नम इत्युच्चैर्मुच्यते सर्वपातकात॥ (१२.१२.४७)
नतां स्म ते नाथ पदारविन्दं
बुद्धीन्द्रियप्राणमनोवचोभिम् ।
यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्
मुमुक्षुभिं कर्ममयोरुपाशात॥ (११.६.७)
श्रीमद्भगवद्गीतासु च—
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ [गीता १८.६५]
यन्नामश्रुतिमात्रेण पुमान्भवति निर्मलम् ।
तस्य तीर्थपदं किं वा दासानामवशिष्यते ॥ (९.५.१६)
किं चित्रमच्युत तवैतदशेषबन्धो
दासेष्वनन्यशरणेषु यदात्मसात्त्वम् ।
योऽरोचयत्सह मृगैं स्वयमीश्वराणां
श्रीमत्किरीटतटपीडितपादपीठम् ॥ (११.२९.४)
कायेन वाचा मनसेन्द्रियैर्वा
बुद्ध्यात्मना वानुसृतस्वभावात।
करोति यद्यत्सकलं परस्मै
नारायणायेति समर्पयेत्तत॥ (११.२.३६)
अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् ।
यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनं ॥ (१०.१४.३२)
इत्थं सतां ब्रह्मसुखानुभूत्या
दास्यं गतानां परदैवतेन ।
मायाश्रितानां नरदारकेण
साकं विजह्रुं कृतपुण्यपुञ्जाम् ॥ (१०.१२.११)
मर्त्यो यदा त्यक्तसमस्तकर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्मभूयाय च कल्पते वै ॥ (११.२९.३४)
धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग
ईक्षा त्रयी नयदमौ विविधा च वार्ता ।
मन्ये तदेतदखिलं निगमस्य सत्यं
स्वात्मार्पणं स्वसुहृदं परमस्य पुंसम् ॥ (७.६.२६)
देवर्षिभूताप्तनृणां पित्èणां
न किङ्करो नायं ऋणी च राजन।
सर्वात्मना यं शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ (११.५.४१)
तस्मादेवंरूपेण यथाशक्ति भागवतधर्मानुष्ठाने भवति चतुर्थी भूमिका । एतच्चतुष्टयं साधनमेव ।
(५) ततो रत्यङ्कुरोत्पत्तिम् । रतिर्नाम भक्तिरसस्थायिभावो द्रुतचित्तप्रविष्टभगवदाकारतारूपं संस्कारविशेष इति वक्ष्यते । स एवाङ्कुरो भागवतधर्मानुष्ठानात्मकबीजस्य । तदुक्तम्—
सतां प्रसङ्गान्मम वीर्यसंविदो
भवन्ति हृत्कर्णरसायनां कथाम् ।
तज्जोषणादाश्वपवर्गवर्त्मनि
श्रद्धा रतिर्भक्तिरनुक्रमिष्यति ॥ (३.२५.२५)
श्रद्धा भक्तिरसानुभवे, ततो रतिं स्थायिभावम्, ततं स एव भक्तिरसतां प्राप्तोऽनुक्रमेण भविष्यतीत्यर्थम् ।
एवं मनं कर्मवशं प्रयुङ्क्ते
अविद्ययात्मन्युपधीयमाने ।
प्रीतिर्न यावन्मयि वासुदेवे
न मुच्यते देहयोगेन तावत॥ (५.५.६)
भवापवर्गो भ्रमतो यदा भवेज्
जनस्य तर्ह्यचुत सत्समागमम् ।
सत्सङ्गमो यर्हि तदैव सद्गतौ
परावरेशे त्वयि जायते मतिम् ॥ (१०.५१.५३)
त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत।
रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ (१.८.४२)
कर्मभिर्भ्राम्यमाणानां यत्र क्वापीश्वरेच्छया ।
मङ्गलाचरितैर्दानै रतिर्नं कृष्ण ईश्वरे ॥ (१०.४७.६७)
इयं च पञ्चमी भूमिका भक्तें स्वरूपम् । एतस्या एव परिपाकविशेषादन्यां षड्भूमिकां फलभूताम् ।
(६) स्वरूपाधिगतिस्ततम् । प्रत्यगात्मस्वरूपस्य स्थूलसूक्ष्मदेहद्वयातिरिक्तत्वेन साक्षात्कारं षष्ठी भूमिका । अन्यथा देहेन्द्रियादिविक्षेपेण जाताया अपि रतेरनिर्वाहात। तदुक्तम्—
ज्ञानं निम्श्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।
यदाहुर्वर्णये तत्ते हृदयग्रन्थिभेदनम् ॥
अनादिरात्मा पुरुषो निर्गुणं प्रकृतें परम् ।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥
स एष प्रकृतिं सूक्ष्मां दैवीं गुणमयीं विभुम् ।
यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥
गुणैर्विचित्रां सृजतीं सरूपां प्रकृतिं प्रजाम् ।
विलोक्य मुमुहे सद्यं स इह ज्ञानगूहया ॥
एवं पराभिध्यानेन कर्तृत्वं प्रकृतें पुमान।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥
तदस्य संसृतिर्बन्धं पारतन्त्र्यं च तत्कृतम् ।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनम् ॥ (३.२६.२७)
तथा—
आत्मा नित्योऽव्ययं शुद्ध एकं क्षेत्रज्ञ आश्रयम् ।
अविक्रियं स्वदृघेतुर्व्यापकोऽसङ्ग्यनावृतम् ॥
एतैर्द्वादशभिर्विद्वानात्मनो लक्षणैं परैम् ।
अहं ममेत्यसद्भावं देहादौ मोहजं त्यजेत॥ (७.७.१९२०)
एवं शुद्धे त्वम्पदलक्ष्येऽवगते तत्पदलक्ष्येण सहाभेदज्ञानं भवति । एतदप्युक्तम्—
कृष्णमेनमवेहि त्वमात्मानमखिलात्मनां ।
जगद्धिताय सोऽप्यत्र देहीवाभाति मायया ॥ (१०.१४.५५) इत्यादि ।
एतादृशज्ञानस्य च भक्त्युत्तरकालत्वं दर्शितम्—
वासुदेवे भगवति भक्तियोगं प्रयोजितम् ।
जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ (१.२.७)
श्रेयम्स्रुतिं भक्तिमुदस्य ते विभो
क्लिश्यन्ति ये केवलबोधलब्धये ।
तेषामसौ क्लेशल एव शिष्यते
नान्यद्यथा स्थूलतुषावघातिनां ॥ (१०.१४.४) इत्यादि ।
(७) एतादृशतत्त्वज्ञाने सति वैराग्यदार्ढ्याद्भगवति प्रेम्णो वृद्धिर्भवतीति सप्तमी भूमिका, यथा—
न्यस्तक्रीडनको बालो जडवत्तन्मनस्तया ।
कृष्णग्रहगृहीतात्मा न वेद जगदीदृशम् ॥
आसीनं पर्यटन्नश्नन्शयानं प्रपिबन्ब्रुवन।
नानुसन्धत्त एतानि गोविन्दपरिरम्भितम् ॥
क्वचिद्रुदति वैकुण्ठ चिन्ताशबलचेतनम् ।
क्वचिद्धसति तच्चिन्ता ह्लाद उद्गायति क्वचित॥
नदति क्वचिदुत्कण्ठो विलज्जो नृत्यति क्वचित।
क्वचित्तद्भावनायुक्तस्तन्मयोऽनुचकार ह ॥
क्वचिदुत्पुलकस्तूष्णीमास्ते संस्पर्शनिर्वृतम् ।
अस्पन्दप्रणयानन्द सलिलामीलितेक्षणम् ॥
स उत्तमश्लोकपदारविन्दयोर्
निषेवयाकिञ्चनसङ्गलब्धया ।
तन्वन्परां निर्वृतिमात्मनो मुहुर्
दुम्सङ्गदीनस्य मनं शमं व्यधात॥ (७.४.३७४२)
स प्रह्लादम्, तथा—
एवं निर्जितषड्वर्गैं क्रियते भक्तिरीश्वरे ।
वासुदेवे भगवति यया संलभ्यते रतिम् ॥
निशम्य कर्माणि गुणानतुल्यान्
वीर्याणि लीलातनुभिं कृतानि ।
यदातिहर्षोत्पुलकाश्रुगद्गदं
प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥
यदा ग्रहग्रस्त इव क्वचिद्धसत्य्
आक्रन्दते ध्यायति वन्दते जनम् ।
मुहुं श्वसन्वक्ति हरे जगत्पते
नारायणेत्यात्ममतिर्गतत्रपम् ॥
तदा पुमान्मुक्तसमस्तबन्धनस्
तद्भावभावानुकृताशयाकृतिम् ।
निर्दग्धबीजानुशयो महीयसा
भक्तिप्रयोगेण समेत्यधोक्षजम् ॥
अधोक्षजालम्भमिहाशुभात्मनम्
शरीरिणं संसृतिचक्रशातनम् ।
तद्ब्रह्मनिर्वाणसुखं विदुर्बुधास्
ततो भजध्वं हृदये हृदीश्वरम् ॥ (७.७.३३३७)
एवमन्यदप्यूहनीयम् । एतादृशसप्तमीपर्यन्त एव साधनाभ्यासम् । अतं परन्तु भूमिकाचतुष्टयमयत्नसाध्यम् ।
(८) तस्याथ स्फुरणम् । तस्य प्रेमास्पदीभूतस्य भगवतं साक्षात्कारप्रेमातिशयहेतुकोऽष्टमी भूमिका । तदुक्तम्—
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्पादसेवाभिरता मदीहाम् ।
येऽन्योन्यतो भागवतां प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥
पश्यन्ति ते मे रुचिराण्यम्ब सन्तम्
प्रसन्नवक्त्रारुणलोचनानि ।
रूपाणि दिव्यानि वरप्रदानि
साकं वाचं स्पृहणीयां वदन्ति ॥
तैर्दर्शनीयावयवैरुदार
विलासहासेक्षितवामसूक्तैम् ।
हृतात्मनो हृतप्राणांश्च भक्तिर्
अनिच्छतो मे गतिमण्वीं प्रयुङ्क्ते ॥ (३.२५.३४३६)
एवमन्यदप्यूह्यम् ।
(९) ततं भगवद्धर्मनिष्ठा । यथा श्रीविष्णुपुराणे—
शालग्रामे महाभागो भगवन्न्यस्तमानसम् ।
स उवास चिरं कालं मैत्रेय पृथिवीपतिम् ॥
अहिंसादिष्वशेषेषु गुणेषु गुणिनां वरम् ।
अवाप परमां काष्ठां मनसश्चापि संयमे ॥
यज्ञेशाच्युत गोविन्द माधवानन्द केशव ।
कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥
इति राजाह भरतो हरेर्नामानि केवलम् ।
नान्यज्जगाद मैत्रेय किञ्चित्स्वप्नान्तरेऽपि च ।
एतत्पदं तदर्थं च विना नान्यदचिन्तयत॥
समित्पुष्पकुशादानं चक्रे देवक्रियाकृते ।
नान्यानि चक्रे कर्माणि निम्सङ्गो योगतापसम् ॥ [वि.पु. २.१३.७११]
पृथिवीपतिर्भरतम् । श्रीमद्भागवते च—
अम्बरीषो महाभागं सप्तद्वीपवतीं महीम् ।
अव्ययां च श्रियं लब्ध्वा विभवं चातुलं भुवि ॥
मेनेऽतिदुर्लभं पुंसां सर्वं तत्स्वप्नसंस्तुतम् ।
विद्वान्विभवनिर्वाणं तमो विशति यत्पुमान॥
वासुदेवे भगवति तद्भक्तेषु च साधुषु ।
प्राप्तो भावं परं विश्वं येनेदं लोष्ट्रवत्स्मृतम् ॥
स वै मनं कृष्णपदारविन्दयोर्
वचांसि वैकुण्ठगुणानुवर्णने ।
करौ हरेर्मन्दिरमार्जनादिषु
श्रुतिं चकाराच्युतसत्कथोदये ॥
मुकुन्दलिङ्गालयदर्शने दृशौ
तद्भृत्यगात्रस्पर्शेऽङ्गसङ्गमम् ।
घ्राणं च तत्पादसरोजसौरभे
श्रीमत्तुलस्या रसनां तदर्पिते ॥
पादौ हरें क्षेत्रपदानुसर्पणे
शिरो हृषीकेशपदाभिवन्दने ।
कामं च दास्ये न तु कामकाम्यया
यथोत्तमश्लोकजनाश्रया रतिम् ॥
एवं सदा कर्मकलापमात्मनम्
परेऽधियज्ञे भगवत्यधोक्षजे ।
सर्वात्मभावं विदधन्महीमिमां
तन्निष्ठविप्राभिहितं शशास ह ॥ (९.४.१५२१)
यथा वा,
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्टं कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथाम् ॥
पुनश्च भूयाद्भगवत्यनन्ते
रतिं प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां यामुपयामि सृष्टिं
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यम् ॥
इति स्म राजाध्यवसाययुक्तम्
प्राचीनमूलेषु कुशेषु धीरम् ।
उदङ्मुखो दक्षिणकूल आस्ते
समुद्रपत्न्यां स्वसुतन्यस्तभारम् ॥
राजा परीक्षित।
एवं च तस्मिन्नरदेवदेवे
प्रायोपविष्टे दिवि देवसङ्घाम् ।
प्रशस्य भूमौ व्यकिरन्प्रसूनैर्
मुदा मुहुर्दुन्दुभयश्च नेदुम् ॥ (१.१९.१५१८)
यथा वा—
वयं त्विह महायोगिन्भ्रमन्तं कर्मवर्त्मसु ।
त्वद्वार्तया तरिष्यामस्तावकैर्दुस्तरं तमम् ॥ (११.६.४८)
त्वयोपभुक्तस्रग्गन्ध वासोऽलङ्कारचर्चिताम् ।
उच्छिष्टभोजिनो दासास्तव मायां जयेम हि ॥ (११.६.४६)
एवमन्यदप्यूहनीयम् । भगवद्धर्मनिष्ठा प्रयन्तपूर्विका साधनम् । स्वतं सिद्धा तु भगवद्धर्मनिष्ठा भवति फलभूता नवमी भूमिका ।
(१०) अतं स्वस्मिंस्तद्गुणशालिता, यथा—
अथो विभूतिं मम मायाविनस्ताम्
ऐश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं भागवतीं वास्पृहयन्ति भद्रां
परस्य मे तेऽश्नुवते तु लोके ॥
न कर्हिचिन्मत्परां शान्तरूपे
नङ्क्ष्यन्ति नो मेऽनिमिषो लेढि हेतिम् ।
येषामहं प्रिय आत्मा सुतश्च
सखा गुरुं सुहृदो दैवमिष्टम् ॥ (३.२५.३७३८)
एवमविनश्वरभगवत्तुल्यगुणाविर्भावो भवति दशमी भूमिका ।
(११) प्रेम्णोऽथ परमा काष्ठा । प्राणपरित्यागावधिविरहासहिष्णुतारूपा, यथा—
गोपीनां परमानन्द आसीद्गोविन्ददर्शने ।
क्षणं युगशतमिव यासां येन विनाभवत॥ (१०.१९.१६)
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यतां ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षितां पक्ष्मकृत्दृशाम् ॥ (१०.३१.१५)
यर्ह्यम्बुजाक्षापससार भो भवान्
कुरून्मधून्वाथ सुहृद्दिदृक्षया ।
तत्राब्दकोटिप्रतिमं क्षणो भवेद्
रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ (१.११.९)
अन्तर्गृहगतां काश्चिद्गोप्योऽलब्धविनिर्गमां ।
कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनां ॥
दुम्सहप्रेष्ठविरहतीव्रतापधुताशुभां ।
ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलां ॥
तमेव परमात्मानं जारबुद्ध्यापि सङ्गताम् ।
जहुर्गुणमयं देहं सद्यं प्रक्षीणबन्धनां ॥ (१०.२९.९११)
इत्यादि । दिङ्मात्रमिहोदाहृतम् । अनन्तरोल्लासे पुनरेतत्सप्रपञ्चमुदाहरिष्यते प्रेमेत्युपरम्यते ॥३४३६॥
ओ)०(ओ
लक्षणं भगवद्भक्तें साधनं सोपपत्तिकम् ।
सभूमिकं स्वरूपं च यथाबुद्धीह वर्णितम् ॥३७॥
इति श्रीपरमहंसपरिव्राजकाचार्यवर्यविश्वविश्रुतसर्वतन्त्रस्वतन्त्रताक
श्रीमधुसूदनसरस्वतीयतिवरविरचिते श्रीभगवद्भक्तिरसायने
भक्तिसामान्यनिरूपणं नाम
प्रथम उल्लासं
॥१॥
इति श्रीपरमहंसपरिव्राजकाचार्यवर्यविश्वविश्रुतसर्वतन्त्रस्वतन्त्रताक
श्रीमधुसूदनसरस्वतीविरचिते श्रीभगवद्भक्तिरसायनप्रथमोल्लासस्य तादृशयतिवरैरेव विरचिता टीकामतल्लिका ।
ओ)०(ओ