शतकत्रयी
भर्तृहरिः

भतृहरेः शतकत्रयम् (१. नीतिशतकम्, २. शृङ्गारशतकम्, ३. वैराग्यशतकम्)


नीतिशतकम्

दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।

 स्वानुभूत्येकमानाय नमः शान्ताय तेजसे । । १ । ।

 

 बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।

 अबोधोपहताः चान्ये जीर्णम् अङ्गे सुभाषितम् । । २ । ।

 

 अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।

 ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति । । ३ । ।

 

 प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्

 समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम् ।

 भुजङ्गमपि कोपितं शिरसि पुष्पवद्धारयेत्

 न तु प्रतिनिविष्टमूर्खजनचित्तम् आराधयेत् । । ४ । ।

 

 लभेत सिकतासु तैलम् अपि यत्नतः पीडयन्

 पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।

 कदाचिदपि पर्यटन्शशविषाणमासादयेत्

 न तु प्रतिनिविष्टमूर्खजनचित्तम् आराधयेत् । । ५ । ।

 

 व्यालं बालमृणालतन्तुभिरसौ रोद्धुं समुज्जृम्भते

 छेत्तुं वज्रमणिं शिरीषकुसुमप्रान्तेन सन्नह्यते ।

 माधुर्यं मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते

 नेतुं वाञ्छन्ति यः खलान्पथि सतां सूक्तैः सुधास्यन्दिभिः । । ६ । ।

 

 स्वायत्तम् एकान्तगुणं विधात्रा विनिर्मितं छादनम् अज्ञतायाः ।

 विशेषतः सर्वविदां समाजे विभूषणं मौनम् अपण्डितानाम् । । ७ । ।

 

 यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं

 तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तं मम मनः।

 यदा किञ्चित्किञ्चिद्बुधजनसकाशादवगतं

 तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः । । ८ । ।

 

 कृमिकुलचित्तं लालाक्लिन्नं विगन्धिजुगुप्सितं

 निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।

 सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शङ्कते

 न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् । । ९ । ।

 

 शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं

 महीध्रादुत्तुङ्गादवनिम् अवनेश्चापि जलधिम् ।

 अधोऽधो गङ्गेयं पदम् उपगता स्तोकमथवा

 विवेकभ्रष्टानां भवति विनिपातः शतमुखः ।। १० ।।

 

 शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो

 नागेन्द्रो निशिताग्कुशेन समदो दण्डेन गोगर्दभौ ।

 व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषं

 सर्वस्यौषधं अस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिं । । ११ । ।

 

 साहित्यसङ्गीतकलाविहीनःसाक्षात्पशुः पुच्छविषाणहीनः ।

 तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनां । । १२ । ।

 

 येषां न विद्या न तपो न दानं ज्ञानं न शीलं न गुणो न धर्मः ।

 ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति । । १३ । ।

 

 वरं पर्वतदुर्गेषु भ्रान्तं वनचरैः सह

 न मूर्खजनसम्पर्कः सुरेन्द्रभवनेष्वपि । । १४ । ।

 

 शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा

 विख्याताः कवयो वसन्ति विषये यस्य प्रभोर्निर्धनाः ।

 तज्जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः

 कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः । । १५ । ।

 

 हर्तुर्याति न गोचरं किं अपि शं पुष्णाति यत्सर्वदाऽप्य्

 अर्थिभ्यः प्रतिपाद्यमानं अनिशं प्राप्नोति वृद्धिं परां ।

 कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यं अन्तर्धनं

 येषां तान्प्रति मानं उज्झत नृपाः कस्तैः सह स्पर्धते । । १६ । ।

 

 अधिगतपरमार्थान्पण्डितान्मावमंस्थास्

 तृणं इव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।

 अभिनवमदलेखाश्यामगण्डस्थलानां

 न भवति बिसतन्तुर्वारणं वारणानां । । १७ । ।

 

 अम्भोजिनीवनविहारविलासं एव हंसस्य हन्ति नितरां कुपितो विधाता ।

 न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां वैदग्धीकीर्तिं अपहर्तुं असौ समर्थः । । १८ । ।

 

 केयूराणि न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला

 न स्नानं न विलेपनं न कुसुमं नालङ्कृता मूर्धजाः ।

 वाण्येका समलङ्करोति पुरुषं या संस्कृता धार्यते

 क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणं । । १९ । ।

 

 विद्या नाम नरस्य रूपं अधिकं प्रच्छन्नगुप्तं धनं

 विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।

 विद्या बन्धुजनो विदेशगमने विद्या परा देवता

 विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । । २० । ।

 

 क्षान्तिश्चेत्कवचेन किं किं अरिभिः क्रोधोऽस्ति चेद्देहिनां

 ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलं ।

 किं सर्पैर्यदि दुर्जनाः किं उ धनैर्विद्याऽनवद्या यदि

 व्रीडा चेत्किं उ भूषणैः सुकविता यद्यस्ति राज्येन किं । । २१ । ।

 

 दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने

 प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवं ।

 शौर्यं शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टता

 ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः । । २२ । ।

 

 जाड्यं धियो हरति सिञ्चति वाचि सत्यं

 मानोन्नतिं दिशति पापं अपाकरोति ।

 चेतः प्रसादयति दिक्षु तनोति कीर्तिं

 सत्सङ्गतिः कथय किं न करोति पुंसां । । २३ । ।

 

 जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।

 नास्ति येषां यशःकाये जरामरणजं भयं । । २४ । ।

 

 सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः

 स्निग्धं मित्रं अवञ्चकः परिजनो निःक्लेशलेशं मनः ।

 आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं

 तुष्टे विष्टपकष्टहारिणि हरौ सम्प्राप्यते देहिना । । २५ । ।

 

 प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं

 काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषां ।

 तृष्णास्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा

 सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसां एष पन्थाः । । २६ । ।

 

 प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।

 विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धं उत्तमजना न परित्यजन्ति । । २७ । ।

 

 असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः

 प्रिया न्याय्या वृत्तिर्मलिनं असुभङ्गेऽप्यसुकरं ।

 विपद्युच्चैः स्थेयं पदं अनुविधेयं च महतां

 सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदं । । २८ । ।

 

 क्षुत्क्षामोऽपि जराकृशोऽपि शिथिलप्राणोऽपि कष्टां दशाम्

 आपन्नोऽपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि ।

 मत्तेभेन्द्रविभिन्नकुम्भपिशितग्रासैकबद्धस्पृहः

 किं जीर्णं तृणं अत्ति मानमहतां अग्रेसरः केसरी । । २९ । ।

 

 स्वल्पस्नायुवसावशेषमलिनं निर्मांसं अप्यस्थि गोः

 श्वा लब्ध्वा परितोषं एति न तु तत्तस्य क्षुधाशान्तये ।

 सिंहो जम्बुकं अङ्कं आगतं अपि त्यक्त्वा निहन्ति द्विपं

 सर्वः कृच्छ्रगतोऽपि वाञ्छन्ति जनः सत्त्वानुरूपं फलं । । ३० । ।

 

 लाङ्गूलचालनं अधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च ।

 श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु धीरं विलोकयति चाटुशतैश्च भुङ्क्ते । । ३१ । ।

 

 परिवर्तिनि संसारे मृतः को वा न जायते ।

 स जातो येन जातेन याति वंशः समुन्नतिं । । ३२ । ।

 

 कुसुमस्तवकस्येव द्वयी वृत्तिर्मनस्विनः ।

 मूर्ध्नि वा सर्वलोकस्य शीर्यते वन एव वा । । ३३ । ।

 

 सन्त्यन्येऽपि बृहस्पतिप्रभृतयः सम्भाविताः पञ्चषास्

 तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।

 द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौ

 भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः । । ३४ । ।

 

 वहति भुवनश्रेणिं शेषः फणाफलकस्थितां

 कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।

 तं अपि कुरुते क्रोडाधीनं पयोधिरनादराद्

 अहह महतां निःसीमानश्चरित्रविभूतयः । । ३५ । ।

 

 वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्

 उद्गच्छद्बहुलदहनोद्गारगुरुभिः ।

 तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे

 न चासौ सम्पातः पयसि पयसां पत्युरुचितः । । ३६ । ।

 

 सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु ।

 प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः । । ३७ । ।

 

 जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां

 शीलं शैलतटात्पतत्वभिजनः सन्दह्यतां वह्निना ।

 शौर्ये वैरिणि वज्रं आशु निपतत्वर्थोऽस्तु नः केवलं

 येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे । । ३८ । ।

 

 धनं अर्जय काकुत्स्थ धनमूलं इदं जगत् ।

 अन्तरं नाभिजानामि निर्धनस्य मृतस्य च । । ३९ । ।

 

 तानीन्द्रियाण्यविकलानि तदेव नाम सा बुद्धिरप्रतिहता वचनं तदेव ।

 अर्थोष्मणा विरहितः पुरुषः क्षणेन सोऽप्यन्य एव भवतीति विचित्रं एतथ् । । ४० । ।

 

 यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतवान्गुणज्ञः ।

 स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनं आश्रयन्ति । । ४१ । ।

 

 दौर्मन्त्र्यान्नृपतिर्विनश्यति यतिः सङ्गात्सुतो लालनात्

 विप्रोऽनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।

 ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्

 मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनं । । ४२ । ।

 

 दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।

 यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति । । ४३ । ।

 

 मणिः शाणोल्लीढः समरविजयी हेतिदलितो

 मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।

 कलाशेषश्चन्द्रः सुरतमृदिता बालवनिता

 तन्निम्ना शोभन्ते गलितविभवाश्चार्थिषु नराः । । ४४ । ।

 

 परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये

 स पश्चात्सम्पूर्णः कलयति धरित्रीं तृणसमां ।

 अतश्चानैकान्त्याद्गुरुलघुतयाऽर्थेषु धनिनाम्

 अवस्था वस्तूनि प्रथयति च सङ्कोचयति च । । ४५ । ।

 

 राजन्दुधुक्षसि यदि क्षितिधेनुं एतां तेनाद्य वत्सं इव लोकं अमुं पुषाण

 तस्मिंश्च सम्यगनिशं परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः । । ४६ । ।

 

 सत्यानृता च परुषा प्रियवादिनी च हिंस्रा दयालुरपि चार्थपरा वदान्या ।

 नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनेव नृपनीतिरनेकरूपा । । ४७ । ।

 

 आज्ञा कीर्तिः पालनं ब्राह्मणानां दानं भोगो मित्रसंरक्षणं च

 येषां एते षड्गुणा न प्रवृत्ताः कोऽर्थस्तेषां पार्थिवोपाश्रयेण । । ४८ । ।

 

 यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं

 तत्प्राप्नोति मरुस्थलेऽपि नितरां मेरौ ततो नाधिकं ।

 तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः

 कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलं । । ४९ । ।

 

 त्वं एव चातकाधारोऽ सीति केषां न गोचरः ।

 किं अम्भोदवरास्माकं कार्पण्योक्तं प्रतीक्षसे । । ५० । ।

 

 रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्

 अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः ।

 केचिद्वृष्टिभिरार्द्रयन्ति वसुधां गर्जन्ति केचिद्वृथा

 यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः । । ५१ । ।

 

 अकरुणत्वं अकारणविग्रहः परधने परयोषिति च स्पृहा ।

 सुजनबन्धुजनेष्वसहिष्णुता प्रकृतिसिद्धं इदं हि दुरात्मनां । । ५२ । ।

 

 दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् ।

 मणिना भूषितः सर्पः किं असौ न भयङ्करः । । ५३ । ।

 

 जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं

 शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।

 तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे

 तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः । । ५४ । ।

 

 लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः

 सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किं ।

 सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मण्डनैः

 सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना । । ५५ । ।

 

 शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिजं मुखं अनक्षरं स्वाकृतेः ।

 प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे । । ५६ । ।

 

 न कश्चिच्चण्डकोपानाम् आत्मीयो नाम भूभुजां ।

 होतारं अपि जुह्वानं स्पृष्टो वहति पावकः । । ५७ । ।

 

 मौन्ॐऊकः प्रवचनपटुर्बाटुलो जल्पको वा

 धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः ।

 क्षान्त्या भीरुर्यदि न सहते प्रायशो नाभिजातः

 सेवाधर्मः परमगहनो योगिनां अप्यगम्यः । । ५८ । ।

 

 उद्भासिताखिलखलस्य विशृङ्खलस्य

 प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ।

 दैवादवाप्तविभवस्य गुणद्विषोऽस्य

 नीचस्य गोचरगतैः सुखं आप्यते । । ५९ । ।

 

 आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् ।

 दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानां । । ६० । ।

 

 मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनां ।

 लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति । । ६१ । ।

 

 वाञ्छा सज्जनसङ्गमे परगुणे प्रीतिर्गुरौ नम्रता

 विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयं ।

 भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले

 येष्वेते निवसन्ति निर्मलगुणास्तेभ्यो नरेभ्यो नमः । । ६२ । ।

 

 विपदि धैर्यं अथाभ्युदये क्षमा सदसि वाक्यपटुता युधि विक्रमः ।

 यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धं इदं हि महात्मनां । । ६३ । ।

 

 प्रदानं प्रच्छन्नं गृहं उपगते सम्भ्रमविधिः

 प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।

 अनुत्सेको लक्ष्म्यां अनभिभवगन्धाः परकथाः

 सतां केनोद्दिष्टं विषमं असिधाराव्रतं इदं । । ६४ । ।

 

 करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता

 मुखे सत्या वाणी विजयि भुजयोर्वीर्यं अतुलं ।

 हृदि स्वच्छा वृत्तिः श्रुतिं अधिगतं च श्रवणयोर्

 विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनं इदं । । ६५ । ।

 

 सम्पत्सु महतां चित्तं भवत्युत्पलक्ॐअलं ।

 आपत्सु च महाशैलशिला सङ्घातकर्कशं । । ६६ । ।

 

 सन्तप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते

 मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।

 स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते

 प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते । । ६७ । ।

 

 प्रीणाति यः सुचरितैः पितरं स पुत्रो

 यद्भर्तुरेव हितं इच्छति तत्कलत्रं ।

 तन्मित्रं आपदि सुखे च समक्रियं यद्

 एतत्त्रयं जगति पुण्यकृतो लभन्ते । । ६८ । ।

 

 एको देवः केशवो वा शिवो वा ह्येकं मित्रं भूपतिर्वा यतिर्वा ।

 एको वासः पत्तने वा वने वा ह्येका भार्या सुन्दरी वा दरी वा । । ६९ । ।

 

 नम्रत्वेनोन्नमन्तः परगुणकथनैः स्वान्गुणान्ख्यापयन्तः

 स्वार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्थे ।

 क्षान्त्यैवाक्षेपरुक्षाक्षरमुखरमुखान्दुर्जनान्दूषयन्तः

 सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः । । ७० । ।

 

 भवन्ति नम्रास्तरवः फलोद्गमैर् नवाम्बुभिर्दूरावलम्बिनो घनाः ।

 अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एष परोपकारिणां । । ७१ । ।

 

 श्रोत्रं श्रुतेनैव न कुण्डलेन दानेन पाणिर्न तु कङ्कणेन ।

 विभाति कायः करुणपराणां परोपकारैर्न तु चन्दनेन । । ७२ । ।

 

 पापान्निवारयति योजयते हिताय गुह्यं निगूहति गुणान्प्रकटीकरोति ।

 आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणं इदं प्रवदन्ति सन्तः । । ७३ । ।

 

 पद्माकरं दिनकरो विकचीकरोति चम्द्र्प्वोलासयति कैरवचक्रवालं ।

 नाभ्यर्थितो जलधरोऽपि जलं ददाति सन्तः स्वयं परहिते विहिताभियोगाः । । ७४ । ।

 

 एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजन्ति ये

 सामान्यास्तु परार्थं उद्यमभृतः स्वार्थाविरोधेन ये ।

 तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये

 ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे । । ७५ । ।

 

 क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा तेऽखिला

 क्षीरोत्तापं अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।

 गन्तुं पावकं उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं

 युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी । । ७६ । ।

 

 इतः स्वपिति केशवः कुलं इतस्तदीयद्विषाम्

 इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।

 इतोऽपि बडवानलः सह समस्तसंवर्तकैऋ

 अहो विततं ऊर्जितं भरसहं सिन्धोर्वपुः । । ७७ । ।

 

 तृष्णां छिन्धि भज क्षमां जहि मदं पापे रतिं मा कृथाः

 सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनं ।

 मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं

 कीर्तिं पालय दुःखिते कुरु दयां एतत्सतां चेष्टितं । । ७८ । ।

 

 मनसि वचसि काये पुण्यपीयूषपूर्णास् त्रिभुवनं उपकारश्रेणिभिः प्रीणयन्तः ।

 परगुणपरमाणून्पर्वतीकृत्य नित्यं निजहृदि विकसन्तः सन्त सन्तः कियन्तः । । ७९ । ।

 

 किं तेन हेमगिरिणा रजताद्रिणा वा यत्राश्रिताश्च तरवस्तरवस्त एव ।

 मन्यामहे मलयं एव यद्आश्रयेण कङ्कोलनिम्बकटुजा अपि चन्दनाः स्युः । । ८० । ।

 

 रत्नैर्महार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिं ।

 सुधां विना न परयुर्विरामं न निश्चितार्थाद्विरमन्ति धीराः । । ८१ । ।

 

 क्वचित्पृथ्वीशय्यः क्वचिदपि च परङ्कशयनः

 क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।

 क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो

 मनस्वी कार्यार्थी न गणयति दुःखं न च सुखं । । ८२ । ।

 

 ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो

 ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।

 अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता

 सर्वेषां अपि सर्वकारणं इदं शीलं परं भूषणं । । ८३ । ।

 

 निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु

 लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठं ।

 अद्यैव वा मरणं अस्तु युगान्तरे वा

 न्याय्यात्पथः प्रविचलन्ति पदं न धीराः । । ८४ । ।

 

 भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा

 कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।

 तृप्तस्तत्पिशितेन सत्वरं असौ तेनैव यातः यथा

 लोकाः पश्यत दैवं एव हि नृणां वृद्धौ क्षये कारणं । । ८५ । ।

 

 आलस्यं हि मनुष्याणां शरीरस्थो महान्रिपुः ।

 नास्त्युद्यमसमो बन्धुः कुर्वाणो नावसीदति । । ८६ । ।

 

 छिन्नोऽपि रोहति तर्क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।

 इति विमृशन्तः सन्तः सन्तप्यन्ते न दुःखेषु । । ८७ । ।

 

 नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः

 स्वर्गो दुर्गं अनुग्रहः किल हरेरैरावतो वारणः ।

 इत्यैश्वर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे

 तद्व्यक्तं ननु दैवं एव शरणं धिग्धिग्वृथा पौरुषं । । ८८ । ।

 

 कर्मायत्तं फलं पुंसां बुद्धिः कर्मानुसारिणी ।

 तथापि सुधिया भाव्यं सुविचार्यैव कुर्वता । । ८९ । ।

 

 खल्वाटो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके

 वाञ्छन्देशं अनातपं विधिवशात्तालस्य मूलं गतः ।

 तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः

 प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः । । ९० । ।

 

 रविनिशाकरयोर्ग्रहपीडनं गजभुजङ्गमयोरपि बन्धनं ।

 मतिमतां च विलोक्य दरिद्रतां विधिरहो बलवानिति मे मतिः । । ९१ । ।

 

 सृजति तावदशेषगुणकरं पुरुषरत्नं अलङ्करणं भुवः ।

 तदपि तत्क्षणभङ्गि करोति चेदहह कष्टं अपण्डितता विधेः । । ९२ । ।

 

 पत्रं नैव यदा करीरविटपे दोषो वसन्तस्य किम्

 नोलूकोऽप्यवओकते यदि दिवा सूर्यस्य किं दूषणं ।

 धारा नैव पतन्ति चातकमुखे मेघस्य किं दूषणम्

 यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः । । ९३ । ।

 

 नमस्यामो देवान्ननु हतविधेस्तेऽपि वशगा

 विधिर्वन्द्यः सोऽपि प्रतिनियतकर्मैकफलदः ।

 फलं कर्मायत्तं यदि किं अमरैः किं च विधिना

 नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति । । ९४ । ।

 

 ब्रह्मा येन कुलालवन्नियमितो ब्रह्माडभाण्डोदरे

 विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।

 रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः

 सूर्यो भ्राम्यति नित्यं एव गगने तस्मै नमः कर्मणे । । ९५ । ।

 

 नैवाकृतिः फलति नैवा कुलं न शीलं विद्यापि नैव न च यत्नकृतापि सेवा ।

 भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः । । ९६ । ।

 

 वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा ।

 सुप्तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि । । ९७ । ।

 

 या साधूंश्च खलान्करोति विदुषो मूर्खान्हितान्द्वेषिणः

 प्रत्यक्षं कुरुते परीक्षं अमृतं हालाहलं तत्क्षणात् ।

 तां आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं

 हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः । । ९८ । ।

 

 गुणवदगुणवद्वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन ।

 अतिरभसकृतानां कर्मणां आविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः । । ९९ । ।

 

 स्थाल्यां व

शृङ्गारशतकम्

ैदूर्यमय्यां पचति तिलकणांश्चन्दनैरिन्धनौघैः


 सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधां अर्कमूलस्य हेतोः ।

 कृत्वा कर्पूरखण्डान्वृत्तिं इह कुरुते कोद्रवाणां समन्तात्

 प्राप्येमां कर्म्भूमिं न चरति मनुजो यस्तोप मन्दभाग्यः । । १०० । ।

 

 मज्जत्वम्भसि यातु मेरुशिखरं शत्रुं जयत्वाहवे

 वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षतां ।

 आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं

 नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः । । १०१ । ।

 

 भीमं वनं भवति तस्य पुरं प्रधानं

 सर्वो जनः स्वजनतां उपयाति तस्य ।

 कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा

 यस्यास्ति पूर्वसुकृतं विपुलं नरस्य । । १०२ । ।

 

 को लाभो गुणिसङ्गमः किं असुखं प्राज्ञेतरैः सङ्गतिः

 का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।

 कः शूरो विजितेन्द्रियः प्रियतमा काऽनुव्रता किं धनं

 विद्या किं सुखं अप्रवासगमनं राज्यं किं आज्ञाफलं । । १०३ । ।

 

 अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः ।

 परपरिवादनिवृत्तैः क्वचित्क्वचिन्मण्डिता वसुधा । । १०४ । ।

 

 कदर्थितस्यापि हि धैर्यवृत्तेर्न शक्यते धैर्यगुणः प्रमार्ष्टुं ।

 अध्ॐउखस्यापि कृतस्य वह्नेर्नाधः शिखा याति कदाचिदेव । । १०५ । ।

 

 कान्ताकटाक्षविशिखा न लुनन्ति यस्य

 चित्तं न निर्दहति किपकृशानुतापः ।

 कर्षन्ति भूरिविषयाश्च न लोभपाशैर्

 लोकत्रयं जयति कृत्स्नं इदं स धीरः । । १०६ । ।

 

 एकेनापि हि शूरेण पादाक्रान्तं महीतलं ।

 क्रियते भास्करेणैव स्फारस्फुरिततेजसा । । १०७ । ।

 

 वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्

 मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।

 व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते

 यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति । । १०८ । ।

 

 लज्जागुणौघजननीं जननीं इव स्वाम्

 अत्यन्तशुद्धहृदयां अनुवर्तमानां ।

 तेजस्विनः सुखं असूनपि सन्त्यजनति

 सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञां । । १०९ । ।



शम्भुस्वयम्भुहरयो हरिणेक्षणानां येनाक्रियन्त सततं गृहकुम्भदासाः ।

 वाचां अगोचरचरित्रविचित्रिताय तस्मै नमो भगवते मकरध्वजाय । । १ । ।

 

 स्मितेन भावेन च लज्जया भिया

 पराण्मुखैरर्धकटाक्षवीक्षणैः ।

 वचोभिरीर्ष्याकलहेन लीलया

 समस्तभावैः खलु बन्धनं स्त्रियः । । २ । ।

 

 भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः

 स्निग्धा वाचो लज्जितान्ताश्च हासाः ।

 लीलामन्दं प्रस्थितं च स्थितं च

 स्त्रीणां एतद्भूषणं चायुधं च । । ३ । ।

 

 क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः

 क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।

 कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः

 स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः । । ४ । ।

 

 वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने

 वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।

 बक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली

 वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनं । । ५ । ।

 

 स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः

 परिस्पन्दो वाचां अभिनवविलासोक्तिसरसः ।

 गतानां आरम्भः किसलयितलीलापरिकरः

 स्पृशन्त्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः । । ६ । ।

 

 द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं

 घ्रातवेष्वपि किं तद्आस्यपवनः श्रव्येषु किं तद्वचः ।

 किं स्वाद्येषु तद्ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं

 किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः । । ७ । ।

 

 एताश्चलद्वलयसंहतिमेखलोत्थझङ्कार नूपुरपराजितराजहंस्यः ।

 कुर्वन्ति कस्य न मनो विवशं तरुण्यो वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः । । ८ । ।

 

 कुङ्कुमपङ्ककलङ्कितदेहा गौरपयोधरकम्पितहारा ।

 नूपुरहंसरणत्पद्मा कं न वशीकुरुते भुवि रामा । । ९ । ।

 

 नूनं हि ते कविवरा विपरीतवाचो ये नित्यं आहुरबला इति कामिनीस्ताः ।

 याभिर्विलोलितरतारकदृष्टिपातैः शक्रादयोऽपि विजितास्त्वबलाः कथं ताः । । १० । ।

 

 नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।

 यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते । । ११ । ।

 

 केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने

 अन्तर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।

 मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमावित्थं

 तन्वि वपुः प्रशान्तं अपि तेरागं करोत्येव नः । । १२ । ।

 

 मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।

 यया विध्यसि चेतांसि गुणैरेव न सायकैः । । १३ । ।

 

 सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ।

 विना मे मृगशावाक्ष्या तमोभूतं इदं जगथ् । । १४ । ।

 

 उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते

 रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वन्तु नाम व्यथां ।

 सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं

 मध्यस्थापि करोति तापं अधिकं र्ॐआवलिः केन सा । । १५ । ।

 

 मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।

 कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा । । १६ । ।

 

 गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।

 शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा । । १७ । ।

 

 तस्याः स्तनौ यदि घनौ जघनं च हारि

 वक्त्रं च चारु तव चित्त किं आकुलत्वं ।

 पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा

 पुण्यैर्विना न हि भवन्ति समीहितार्थाः । । १८ । ।

 

 इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप

 प्रारम्भाः स्मरविजयदानप्रतिभुवः ।

 चिरं चेतश्चोरा अभिनवविकारैकगुरवो

 विलासव्यापाराः किं अपि विजयन्ते मृगदृशां । । १९ । ।

 

 प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः

 फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।

 प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी

 रहसि किं अपि स्वैरालापा हरन्ति मृगीदृशां । । २० । ।

 

 विश्रम्य विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् ।

 स्तनोत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् । । २१ । ।

 

 अदर्शने दर्शनमात्रकामा दृष्ट्वा परिष्वङ्गसुखैकलोला ।

 आलिङ्गितायां पुनरायताक्ष्यामाशास्महे विग्रहयोरभेदं । । २२ । ।

 

 मालती शिरसि जृम्भणं मुखे चन्दनं वपुषि कुङ्कुमाविलं ।

 वक्षसि प्रियतमा मदालसा स्वर्ग एष परिशिष्ट आगमः । । २३ । ।

 

 प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः

 सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।

 प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो

 निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतं । । २४ । ।

 

 उरसि निपतितानां स्रस्तधम्मिल्लकानां

 मुकुलितनयनानां किञ्चिद्उन्मीलितानां ।

 उपरि सुरतखेदस्विन्नगण्डस्थलानामधर

 मधु वधूनां भाग्यवन्तः पिबन्ति । । २५ । ।

 

 आमीलितनयनानां यः सुरतरसोऽनु संविदं भाति ।

 मिथुरैर्मिथोऽवधारितमवितथम् इदं एव कामनिर्बर्हणं । । २६ । ।

 

 इदं अनुचितं अक्रमश्च पुंसां यदिह जरास्वपि मन्मथा विकाराः ।

 तदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा । । २७ । ।

 

 राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं

 को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।

 गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य

 रूपं झटिति न जरया लुप्यते प्रेयसीनां । । २८ । ।

 

 रागस्यागारं एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्ति

 बीजं जलधरपटलं ज्ञानताराधिपस्य ।

 कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं

 लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति । । २९ । ।

 

 शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि

 प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।

 तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ

 धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने । । ३० । ।

 

 संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्ग

 व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।

 यद्येताः प्रोद्यद्इन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः

 प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः । । ३१ । ।

 

 सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे

 गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।

 कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो

 यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः । । ३२ । ।

 

 संसार तव पर्यन्तपदवी न दवीयसी ।

 अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणां । । ३३ । ।

 

 दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां

 कवलं उपलकोटिच्छिन्नमूलं कुशानां ।

 शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम्

 अरुणनखाग्रैः पाटितं वा वधूभ्यः । । ३४ । ।

 

 असाराः सर्वे ते विरतिविरसाः पापविषया

 जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदं इति ।

 तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं

 न चास्मिन्संसारे कुवलयदृशो रम्यं अपरं । । ३५ । ।

 

 एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।

 अन्यचित्तकृते कामे शवयोरिव सङ्गमः । । ३५*१ । ।

 

 मात्सर्यं उत्सार्य विचार्य कार्यमार्याःसमर्यादं इदं वदन्तु ।

 सेव्या नितम्बाः किं उ भूधराणामत स्मरस्मेरविलासिनीनां । । ३६ । ।

 

 संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां

 तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।

 नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां

 स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानां । । ३७ । ।

 

 आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।

 स्तनद्वये तरुण्या वा मनोहारिणि हारिणि । । ३८ । ।

 

 किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्

 इह पुरुषाणां सर्वदा सेवनीयं ।

 अभिनवमदलीलालालसं सुन्दरीणां

 स्तनभरपरिखिन्नं यौवनं वा वनं वा । । ३९ । ।

 

 सत्यं जना वच्मि न पक्षपाताल्लोकेषु सप्तस्वपि तथ्यं एतत् ।

 नान्यन्मनोहारि नितम्बिनीभ्यो दुःखैकहेतुर्न च कश्चिदन्यः । । ४० । ।

 

 कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुङ्ग

 पयोधरेति समुखाम्भोजेति सुभ्रूरिति ।

 दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि

 प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितं । । ४१ । ।

 

 स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।

 स्पृष्टा भवति मोहाय सा नाम दयिता कथं । । ४२ । ।

 

 तावदेवामृतमयी यावल्लोचनगोचरा ।

 चक्षुष्पथादतीता तु विषादप्यतिरिच्यते । । ४३ । ।

 

 नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीं ।

 सैवामृतलता रक्ता विरक्ता विषवल्लरी । । ४४ । ।

 

 आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां

 दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानां ।

 स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डं

 स्त्रीयन्त्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः । । ४५ । ।

 

 नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं

 लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।

 किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि

 त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते । । ४६ । ।

 

 लीलावतीनां सहजा विलासास्त

 एव मूढस्य हृदि स्फुरन्ति ।

 रागो नलिन्या हि निसर्गसिद्धस्तत्र

 भ्रम्त्येव वृथा षड्अङ्घ्रिः । । ४७ । ।

 

 संमोहयन्ति मदयन्ति विडम्बयन्ति

 निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।

 एताः प्रविश्य सदयं हृदयं नराणां

 किं नाम वामनयना न समाचरन्ति । । ४७*१ । ।

 

 यदेतत्पूर्णेन्दुद्युतिहरं उदाराकृति परं

 मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।

 इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्

 काले विषं इव भविष्य्त्यसुखदं । । ४८ । ।

 

 उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गत

 चक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।

 कान्ताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते

 संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यतां । । ४९ । ।

 

 जल्पन्ति सार्धं अन्येन पश्यन्त्यन्यं सविभ्रमाः ।

 हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषितां । । ५० । ।

 

 मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलं ।

 अतएव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते । । ५१ । ।

 

 अपसर सखे दूरादस्मात्कटाक्षविषानलात्

 प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।

 इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्

 वनिताभोगिग्रस्तं हि मन्त्रिणः । । ५२ । ।

 

 विस्तारितं मकरकेतनधीवरेण स्त्रीसंज्ञितं बडिशं अत्र भवाम्बुराशौ ।

 येनाचिरात्तद्अधरामिषलोलमर्त्य मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ । । ५३ । ।

 

 कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।

 मा संचर मनः पान्थ तत्रास्ते स्मरतस्करः । । ५४ । ।

 

 व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना

 नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा ।

 दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो

 मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधं । । ५५ । ।

 

 इह हि मधुरगीतं नृत्यं एतद्रसोऽयं

 स्फुरति परिमलोऽसौ स्पर्श एष स्तनानां ।

 इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः

 स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि । । ५६ । ।

 

 न गम्यो मन्त्राणां न च भवति भैषज्यविषयो

 न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।

 भ्रमावेशादङ्गे कं अपि विदधद्भङ्गं असकृत्

 स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च । । ५७ । ।

 

 जात्य्अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च

 ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।

 यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया

 पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः । । ५८ । ।

 

 वेश्यासौ मदनज्वालारूपेऽन्धनविवर्धिता ।

 कामिभिर्यत्र हूयन्ते यौवनानि धनानि च । । ५९ । ।

 

 कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।

 चारभटचोरचेटकनटविटनिष्ठीवनशरावं । । ६० । ।

 

 धन्यास्त एव धवलायतलोचनानां तारुण्यदर्पघनपीनपयोधराणां ।

 क्षामोदरोपरि लसत्त्रिवलीलतानां दृष्ट्वाकृतिं विकृतिं एति मनो न येषां । । ६१ । ।

 

 बाले लीलामुकुलितं अमी मन्थरा दृष्टिपाताः

 किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते ।

 सम्प्रत्यन्ये वयं उपरतं बाल्यं आस्था वनान्ते

 क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः । । ६२ । ।

 

 इयं बाला मां प्रत्यनवरतं इन्दीवरदलप्रभा

 चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।

 गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर

 ज्वाला शान्ता तदपि न वराकी विरमति । । ६३ । ।

 

 किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं

 रे रे कोकिल क्ॐअलं कलरवं किं वा वृथा जल्पसि ।

 मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं

 चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते । । ६४ । ।

 

 विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषां ।

 हृदयं अपि विघट्टितं चेत् सङ्गी विरहं विशेषयति । । ६५ । ।

 

 किं गतेन यदि सा न जीवति प्राणिति प्रियतमा तथापि किं ।

 इत्युदीक्ष्य नवमेघमालिकां न प्रयाति पथिकः स्वमन्दिरं । । ६६ । ।

 

 विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्

 कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमं ।

 न खलु नरके हाराक्रान्तं घनस्तनमण्डलं

 शरणं अथवा श्रोणीबिम्बं रणन्मणिमेखलं । । ६७ । ।

 

 यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना

 मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।

 प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः

 सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः । । ६८ । ।

 

 यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं

 तदा दृष्टनारीमयं इदं अशेषं जगदिति ।

 इदानीं अस्माकं पटुतरविवेकाञ्जनजुषां

 समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते । । ६९ । ।

 

 तावदेव कृतिनां अपि स्फुरत्येष निर्मलविवेकदीपकः ।

 यावदेव न कुरङ्गचक्षुषां ताड्यते चटुललोचनाञ्चलैः । । ७० । ।

 

 वचसि भवति सङ्गत्यागं उद्दिश्य वार्ता

 श्रुतिमुखरमुखानां केवलं पण्डितानां ।

 जघनं अरुणरत्नग्रन्थिकाञ्चीकलापं

 कुवलयनयनानां को विहातुं समर्थः । । ७१ । ।

 

 स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।

 यस्मात्तपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः । । ७२ । ।

 

 मत्तेभकुम्भदलने भुवि सन्ति धीराः

 केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।

 किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य

 कन्दर्पदर्पदलने विरला मनुष्याः । । ७३ । ।

 

 सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां

 लज्जां तावद्विधत्ते विनयं अपि समालम्बते तावदेव ।

 भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते

 यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति । । ७४ । ।

 

 उन्मत्तप्रेमसंरम्भाद् आरभन्ते यद्अङ्गनाः ।

 तत्र प्रत्यूहं आधातुं ब्रह्मापि खलु कातरः । । ७५ । ।

 

 तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।

 यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः । । ७६ । ।

 

 शास्त्रज्ञोऽपि प्रगुणितनयोऽत्यान्तबाधापि बाढं

 संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनां ।

 येनैतस्मिन्निरयनगरद्वारं उद्घाटयन्ती

 वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव । । ७७ । ।

 

 कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो

 व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।

 क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः

 शुनीं अन्वेति श्वा हतं अपि च हन्त्येव मदनः । । ७८ । ।

 

 स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं

 ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।

 ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः

 केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे । । ७९ । ।

 

 विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि

 स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।

 शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्

 इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे । । ८० । ।

 

 परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो

 मधुरविधुरोत्कण्ठाभाजः प्रिया पिकपक्षिणां ।

 विरलविरसस्वेदोद्गारा वधूवदनेन्दवः

 प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः । । ८१ । ।

 

 मधुरयं मधुरैरपि कोकिला कलरवैर्मलयस्य च वायुभिः ।

 विरहिणः प्रहिणस्ति शरीरिणो विपदि हन्त सुधापि विषायते । । ८२ । ।

 

 आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाः

 कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।

 गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः

 केषांचित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः । । ८३ । ।

 

 पान्थ स्त्रीविरहानलाहुतिकलां आतन्वती मञ्जरीमाकन्देषु

 पिकाङ्गनाभिरधुना सोत्कण्ठं आलोक्यते ।

 अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा

 वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः । । ८४ । ।

 

 प्रथितः प्रणयवतीनां तावत्पदं आतनोतु हृदि मानः ।

 भवति न यावच्चन्दनतरु सुरभिर्मलयपवमानः । । ८५ । ।

 

 सहकारकुसुमकेसरनिकर भरामोदमूर्च्छितदिग्अन्ते ।

 मधुरमधुरविधुरमधुपे मधौ भवेत्कस्य नोत्कण्ठा । । ८६ । ।

 

 अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो

 धारागृहाणि कुसुमानि च क्ॐउदी च ।

 मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं

 ग्रीष्मे मदं च मदनं च विवर्धयन्ति । । ८७ । ।

 

 स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः

 परागः कासारो मलयजरजः शीधु विशदं ।

 शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो

 निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः । । ८८ । ।

 

 सुधाशुभ्रं धाम स्फुरद्अमलरश्मिः शशधरः

 प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः ।

 स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने

 करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे । । ८९ । ।

 

 तरुणीवेषोद्दीपितकामा विकसज्जातीपुष्पसुगन्धिः ।

 उन्नतपीनपयोधरभारा प्रावृट्तनुते कस्य न हर्षं । । ९० । ।

 

 वियद्उपचितमेघं भूमयः कन्दलिन्यो

 नवकुटजकदम्बामोदिनो गन्धवाहाः ।

 शिखिकुलकलकेकारावरम्या वनान्ताः

 सुखिनं असुखिनं वा सर्वं उत्कण्ठयन्ति । । ९१ । ।

 

 उपरि घनं घनपटलं तिर्यग्गिरयोऽपि नर्तितमयूराः ।

 क्षितिरपि कन्दलधवला दृष्टिं पथिकः क्व पातयति । । ९२ । ।

 

 इतो विद्युद्वल्लीविलसितं इतः केतकितरोः

 स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितं इतः ।

 इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां

 कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः । । ९३ । ।

 

 असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनि

 प्राज्ञंमन्ये पतति पृषतानां च निचये ।

 इदं सौदामिन्याः कनककमनीयं विलसितं

 मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशां । । ९४ । ।

 

 आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते

 शीतोत्कम्पनिमित्तं आयतदृशा गाढं समालिङ्ग्यते ।

 जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो

 धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे । । ९५ । ।

 

 अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्य

 तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।

 सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो

 ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः । । ९६ । ।

 हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः

 काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।

 वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे

 ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते । । ९७ । ।

 

 प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफे

 काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि ।

 येषां नो कण्ठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी

 तेसां आयामयामा यमसदनसमा यामिनी याति यूनां । । ९८ । ।

 

 चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना

 वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदं आपादयन्तः ।

 ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽंशुकानि

 व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः । । ९९ । ।

 

 केशानाकुलयन्दृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्

 पुलकोद्गमं प्रकटयन्नावेगकम्पं शनैः ।

 बारं बारं उदारसीत्कृतकृतो दन्तच्छदान्पीडयन्

 प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते । । १०० । ।

 

 यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।

 रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः । । १०१ । ।

 

 वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।

 शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परं । । १०२ । ।



वैराग्यशतकम्

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो

 लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।

 अन्तःस्फूर्जद्अपारमोहतिमिरप्राग्भारं उच्चाटयन्

 श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः । । १ । ।

 

 भ्रान्तं देशं अनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं

 त्यक्त्वा जातिकुलाभिमानं उचितं सेवा कृता निष्फला ।

 भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्

 तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि । । २ । ।

 

 उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो

 निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।

 मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः

 प्राप्तः काणवराटकोऽपि न मया तृष्णे सकामा भव । । ३ । ।

 

 खलालापाः सौढाः कथं अपि तद्आराधनपरैर्निगृह्यान्तर्

 बाष्पं हसितं अपि शून्येन मनसा ।

 कृतो वित्तस्तम्भप्रतिहतधियां अञ्जलिरपि

 त्वं आशे मोघाशे किम अपरं अतो नर्तयसि मां । । ४ । ।

 

 अमीषां प्राणानां तुलितविसिनीपत्रपयसां

 कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितं ।

 यद्आढ्यानां अग्रे द्रविणमदनिःसंज्ञमनसां

 कृतं मावव्रीडैर्निजगुणकथापातकं अपि । । ५ । ।

 

 क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः

 सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।

 ध्यातं वित्तं अहर्निशं नित्यमितप्राणैर्न शम्भोः पदं

 तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः । । ६ । ।

 

 भोगा न भुक्ता वयं एव भुक्तास्

 तपो न तप्तं वयं एव तप्ताः ।

 कालो न यातो वयं एव यातास्तृष्णा

 न जीर्णा वयं एव जीर्णाः । । ७ । ।

 

 बलिभिर्मुखं आक्रान्तं पलितेनाङ्कितं शिरः ।

 गात्राणि शिथिलायन्ते तृष्णैका तरुणायते । । ८ । ।

 

 विवेकव्याकोशे विदधति समे शाम्यति तृषा

 परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।

 जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं

 यस्यां भवति मरुतां अप्यधिपतिः । । ८*१ । ।

 

 निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलितः

 समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।

 शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने

 अहो मूढः कायस्तदपि मरणापायचकितः । । ९ । ।

 

 आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला

 रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।

 मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी

 तस्याः परगता विशुद्धं अलसो नन्दन्ति योगीश्वराः । । १० । ।

 

 न संसारोत्पन्नं चरितं अनुपश्यामि कुशलं

 विपाकः पुण्यानां जनयति भयं मे विमृशतः ।

 महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया

 महान्तो जायन्ते व्यसनं इव दातुं विषयिणां । । ११ । ।

 

 अवश्यं यातारश्चिरतरं उषित्वापि विषया

 वियोगे को भेदस्त्यजति न जनो यत्स्वयं अमून् ।

 व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः

 स्वयं त्यक्ता ह्येते शमसुखं अनन्तं विदधति । । १२ । ।

 

 ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं

 यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।

 सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्

 वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयं । । १३ । ।

 

 धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु

 जलं पिबन्ति शकुना निःशङ्कं अङ्केशयाः ।

 अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा

 काननकेलिकौतुकजुषां आयुः परं क्षीयते । । १४ । ।

 

 भिक्षाशतं तदपि नीरसं एकबारं

 शय्या च भूः परिजनो निजदेहमात्रं ।

 वस्त्रं विशीर्णशतखण्डमयी च कन्था

 हा हा तथापि विषया न परित्यजन्ति । । १५ । ।

 

 स्तनौ मांसग्रन्थी कनककलशावित्युपमिती

 मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितं ।

 स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं

 मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतं । । १६ । ।

 

 एको रागिषु राजते प्रियतमादेहार्धहारी हरो

 नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।

 दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः

 शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः । । १७ । ।

 

 अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने

 स मीनोऽप्यज्ञानाद्बडिशयुतं अश्नातु पिशितं ।

 विजानन्तोऽप्येते वयं इह वियज्जालजटिलान्

 न मुञ्चामः कानां अहह गहनो मोहमहिमा । । १८ । ।

 

 तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं

 क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितं ।

 प्रदीप्ते कामाग्नौ सुदृढतरं आलिङ्गति वधूं

 प्रतीकारं व्याधः सुखं इति विपर्यस्यति जनः । । १९ । ।

 

 तुङ्गं वेश्म सुताः सतां अभिमताः सङ्ख्यातिगाः सम्पदः

 कल्याणी दयिता वयश्च नवं इत्यज्ञानमूढो जनः ।

 मत्वा विश्वं अनश्वरं निविशते संसारकारागृहे

 संदृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति । । २० । ।

 

 दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा

 क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।

 याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं

 को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् । । २१ । ।

 

 अभिमतमहामानग्रन्थिप्रभेदपटीयसी

 गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचन्द्रिका ।

 विपुलविलल्लज्जावल्लीवितानकुठारिका

 जठरपिठरी दुस्पुरेयं करोति विडम्बनं । । २२ । ।

 

 पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं

 ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।

 द्वारं द्वारं प्रविष्टो वरं उदरदरीपूरणाय क्षुधार्तो

 मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः । । २३ । ।

 

 गङ्गातरङ्गकणशीकरशीतलानि

 विद्याधराध्युषितचारुशिलातलानि ।

 स्थानानि किं हिमवतः प्रलयं गतानि

 यत्सावमानपरपिण्डरता मनुष्याः । । २४ । ।

 

 किं कन्दाः कन्दरेभ्यः प्रलयं उपगता निर्झरा वा गिरिभ्यः

 प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः ।

 वीक्ष्यन्ते यन्मुखानि प्रसभं अपगतप्रश्रयाणां खलानां

 दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि । । २५ । ।

 

 पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना

 भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनं ।

 क्षुद्राणां अविवेकमूढमनसां यत्रेश्वराणां सदा

 वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते । । २६ । ।

 

 फलं स्वेच्छालभ्यं प्रतिवनं अखेदं क्षितिरुहां

 पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरितां ।

 मृदुस्पर्शा शय्या सुललितलतापल्लवमयी

 सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः । । २७ । ।

 

 ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो

 ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।

 तेषां अन्तःस्फुरितहसितं वासराणि स्मरेयं

 ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः । । २८ । ।

 

 ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो

 ये त्वन्ये धनलुब्धसङ्कलधियस्तेसां न तृष्णाहता ।

 इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां

 स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते । । २९ । ।

 

 भिक्षाहारं अदैन्यं अप्रतिसुखं भीतिच्छिदं सर्वतो

 दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनं ।

 सर्वत्रान्वहं अप्रयत्नसुलभं साधुप्रियं पावनं

 शम्भोः सत्रं अवायं अक्षयनिधिं शंसन्ति योगीश्वराः । । ३० । ।

 

 भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं

 माने धैन्यभयं बले रिपुभयं रूपे जराय भयं ।

 शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं

 सर्वं वस्तु भयान्वितं भुवि न्éणां वैराग्यं एवाभयं । । ३१ । ।

 

 आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं

 सन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः ।

 लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्

 अस्थैर्येण विभूतयोऽप्यपहता ग्रस्तं न किं केन वा । । ३२ । ।

 

 आधिव्याधिशतैर्जनस्य विविधैरारोग्यं उन्मूल्यते

 लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।

 जातं जातं अवश्यं आशु विवशं मृत्युः करोत्यात्मसात्

 तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरं । । ३३ । ।

 

 भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः

 स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।

 तत्संसारं असारं एव निखिलं बुद्ध्वा बुधा बोधका

 लोकानुग्रहपेशलेन मनसा यत्नः समाधीयतां । । ३४ । ।

 

 भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला

 आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरं ।

 लीला यौवनलालसास्तनुभृतां इत्याकलय्य द्रुतं

 योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः । । ३५ । ।

 

 आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्

 अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।

 कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं

 ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुं । । ३६ । ।

 

 कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे

 कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।

 वामाक्षीणां अवज्ञाविहसितवसतिर्वृद्धभावोऽन्यसाधुः

 संसारे रे मनुष्या वदत यदि सुखं स्वल्पं अप्यस्ति किञ्चिथ् । । ३७ । ।

 

 व्याघ्रीव तिष्ठति जरा परितर्जयन्ती

 रोगाश्च शत्रव इव प्रहरन्ति देहं ।

 आयुः परिस्रवन्ति भिन्नघटादिवाम्भो

 लोकस्तथाप्यहितं आचरतीति चित्रं । । ३८ । ।

 

 भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्

 कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।

 आशापाशशतापशान्तिविशदं चेतःसमाधीयतां

 कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयं अस्मद्वचः । । ३९ । ।

 

 सखे धन्याः केचित्त्रुटितभवबन्धव्यतिकरा

 वनान्ते चित्तान्तर्विषं अविषयाशीत्विषगताः ।

 शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां

 नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः । । ३९*१ । ।

 

 ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते

 यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।

 भोगः कोऽपि स एव एक परमो नित्योदितो जृम्भते

 भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः । । ४० । ।

 

 सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्

 पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।

 उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः

 सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः । । ४१ । ।

 

 यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको

 यत्राप्येकस्तदनु बहवस्तत्र नैकोऽपि चान्ते ।

 इत्थं नयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ

 कालः कल्यो भुवनफलके क्रडति प्राणिशारैः । । ४२ । ।

 

 आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं

 व्यापारैर्बहुकार्यभारगुरुभिः कालोऽपि न ज्ञायते ।

 दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते

 पीत्वा मोहमयीं प्रमादमदिरां उन्मत्तभूतं जगथ् । । ४३ । ।

 

 रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो

 धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।

 व्यापारैः पुनर्उक्तभूतविषयैरित्थं विधेनामुना

 संसारेण कदर्थिता वयं अहो मोहान्न लज्जामहे । । ४४ । ।

 

 न ध्यानं पदं ईश्वरस्य विधिवत्संसारविच्छित्तये

 स्वर्गद्वारकपाटपाटनपटुर्धर्मोऽपि नोपार्जितः ।

 नारीपीनपयोधरोरुयुगलं स्वप्नेऽपि नालिङ्गितं

 मातुः केवलं एव यौवनवनच्छेदे कुठारा वयं । । ४५ । ।

 

 नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता

 खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।

 कान्ताक्ॐअलपल्लवाधररसः पीतो न चन्द्रोदये

 तारुण्यं गतं एव निष्फलं अहो शून्यालये दीपवथ् । । ४६ । ।

 

 विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं

 शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।

 आलोलायतलोचनाः प्रियतमाः स्वप्नेऽपि नालिङ्गिताः

 कालोऽयं परपिण्डलोलुपतया काकैरिव प्रेर्यते । । ४७ । ।

 

 वयं येभ्यो जाताश्चिरपरिगता एव खलु ते

 समं यैः संवृद्धाः स्मृतिविषयतां तेऽपि गमिताः ।

 इदानीं एते स्मः प्रतिदिवसं आसन्नपतना

 गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः । । ४८ । ।

 

 आयुर्वर्षशतं न्éणां परिमितं रात्रौ तद्अर्धं गतं

 तस्यार्धस्य परस्य चार्धं अपरं बालत्ववृद्धत्वयोः ।

 शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते

 जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनां । । ४९ । ।

 

 क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः

 क्षणं वित्तैर्हीनः क्षणं अपि च सम्पूर्णविभवः ।

 जराजीर्णैरङ्गैर्नट इव बलीमण्डिततनूर्

 नरः संसारान्ते विशति यमधानीयवनिकां । । ५० । ।

 

 त्वं राजा वयं अप्युपासितगुरुप्रज्ञाभिमानोन्नताः

 ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।

 इत्थं मानधनातिदूरं उभयोरप्यावयोरन्तरं

 यद्यस्मासु पराङ्मुखोऽसि वयं अप्येकान्ततो निःस्पृहा । । ५१ । ।

 

 अर्थानां ईशिषे त्वं वयं अपि च गिरां ईश्महे यावदर्थं

 शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।

 सेवन्ते त्वां धनाढ्या मतिमलहतयेमां अपि श्रोतुकामामय्य्

 अप्यास्था न ते चेत्त्वयि मम नितरां एव राजन्ननास्था । । ५२ । ।

 

 वयं इह परितुष्टा वल्कलैस्त्वं दुकूलैः

 सम इह परितोषो निर्विशेषो विशेषः ।

 स तु भवतु दरिद्रो यस्य तृष्णा विशाला

 मनसि च परितुष्टे कोऽर्थवान्को दरिद्रः । । ५३ । ।

 

 फलं अलं अशनाय स्वादु पानाय तोयं

 क्षितिरपि शयनार्थं वाससे वल्कलं च ।

 नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम्

 अनुमन्तुं नोत्सहे दुर्जनानां । । ५४ । ।

 

 अश्नीमहि वयं भिक्षां आशावासो वसीमहि ।

 शयीमहि महीपृष्ठे कुर्वीमहि किं ईश्वरैः । । ५५ । ।

 

 न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः ।

 नृपं ईक्षितुं अत्र के वयं स्तनभारानमिता न योषितः । । ५६ । ।

 

 विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा

 विधृतं अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।

 इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुञ्जते

 कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः । । ५७ । ।

 

 अभुक्तायां यस्यां क्षणं अपि न यातं नृपशतैर्

 धुवस्तस्या लाभे क इव बहुमानः क्षितिभृतां ।

 तद्अंशस्याप्यंशे तद्अवयलेशेऽपि पतयो

 विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदं । । ५८ । ।

 

 मृत्पिण्डो जलरेखया बलयतिः सर्वोऽप्ययं नन्वणुः

 स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते ।

 ये दद्युर्ददतोऽथवा किं अपरं क्षुद्रा दरिद्रं भृशं

 धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्योऽपि ये । । ५९ । ।

 

 स जातः कोऽप्यासीन्मदनरिपुणा मूर्ध्नि धवलं

 कपालं यस्योच्चैर्विनिहितं अलङ्कारविधये ।

 नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना

 नमद्भिः कः पुंसां अयं अतुलदर्पज्वरभरः । । ६० । ।

 

 परेषां चेतांसि प्रतिदिवसं आराध्य बहुधा

 प्रसादं किं नेतुं विशसि हृदय क्लेशकलितं ।

 प्रसन्ने त्वय्यन्तःसवयमुदितचिन्तामणिगणो

 विविक्तः सङ्कल्पः किं अभिलषितं पुष्यति न ते । । ६१ । ।

 

 सत्यां एव त्रिलोकीसरिति हरशिरश्चुम्बिनीवच्छटायां

 सद्वृत्तिं कल्पयन्त्यां बटविटपभवैर्वल्कलैः सत्फलैश्च ।

 कोऽयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां

 वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बेऽनुकम्पां । । ६१*१ । ।

 

 परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां

 स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।

 अतीतं अननुस्मरन्नपि च भाव्यसङ्कल्पयन्नतर्कित

 समागमानुभवामि भोगनाहं । । ६२ । ।

 

 एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयश्रेयो

 मार्गं अशेषदुःखशमनव्यापारदक्षं क्षणात् ।

 स्वात्मीभावं उपैहि सन्त्यज निजां कल्लोललोलं गतिं

 मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना । । ६३ । ।

 

 मोहं मार्जय तां उपार्जय रतिं चन्द्रार्धचूडामणौ

 चेतः स्वर्गतरङ्गिणीतटभुवां आसङ्गं अङ्गीकुरु ।

 को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च

 ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः । । ६४ । ।

 

 चेतश्चिन्तय मा रमां सकृदिमां अस्थायिनीं आस्थया

 भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनां ।

 कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या

 पङ्क्तिषु पाणिपात्रपतितां भिक्षां अपेक्षामहे । । ६५ । ।

 

 अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः

 पश्चाल्लीलावलयरणितं चामरग्राहिणीनां ।

 यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं

 नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ । । ६६ । ।

 

 प्राप्ताः श्रियः सकलकामदुधास्ततः किं

 न्यस्तं पदं शिरसि विद्विषतां ततः किं ।

 सम्पादिताः प्रणयिनो विभवैस्ततः किं

 कल्पं स्थितास्तनुभृतां तनवस्ततः किं । । ६७ । ।

 

 भक्तिर्भवे मरणजन्मभयं हृदिस्थं

 स्नेहो न बन्धुषु न मन्मथजा विकाराः ।

 संसर्ज दोषरहिता विजया वनान्ता

 वैराग्यं अस्ति किं इतः परमर्थनीयं । । ६८ । ।

 

 तस्मादनन्तं अजरं परमं विकासि

 तद्ब्रह्म चिन्तय किं एभिरसद्विकल्पैः ।

 यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः

 कृपणलोकमता भवन्ति । । ६९ । ।

 

 पातालं आविशसि यासि नभो विलङ्घ्य

 दिङ्मण्डलं भ्रमसि मानस चापलेन ।

 भ्रान्त्यापि जातु विमलं कथं आत्मनीनं

 न ब्रह्म संसरसि विर्वृतिमं एषि येन । । ७० । ।

 

 किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः

 स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।

 मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं

 स्वात्मानन्दपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः । । ७१ । ।

 

 नायं ते समयो रहस्यं अधुना निद्राति नाथो यदि

 स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।

 चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्

 निर्दौवारिकनिर्दयोक्त्य्अपरुषं निःस्ॐअशर्मप्रदं । । ७१*१ । ।

 

 यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः

 समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।

 धरा गच्छत्यन्तं धरणिधरपादैरपि धृता

 शरीरे का वार्ता करिकलभकर्णाग्रचपले । । ७२ । ।

 

 गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर्

 दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।

 वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते

 हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते । । ७३ । ।

 

 वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां

 स्थानं जरापरिभवस्य तदा पुमांसं ।

 आरोपितांस्थिशतकं परिहृत्य यान्ति

 चण्डालकूपं इव दूरतरं तरुण्यः । । ७४ । ।

 

 यावत्स्वस्थं इदं शरीरं अरुजं यावच्च दूरे जरा

 यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।

 आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्

 सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः । । ७५ । ।

 

 तपस्यन्तः सन्तः किं अधिनिवसामः सुरनदीं

 गुणोदारान्दारानुत परिचरामः सविनयं ।

 पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्

 न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने । । ७६ । ।

 

 दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो

 वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।

 जरा देहं मृत्युर्हरति दयितं जीवितं इदं

 सखे नान्यच्छ्रेयो जगति विदुषेऽन्यत्र तपसः । । ७७ । ।

 

 माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि

 क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।

 युक्तं केवलं एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव

 गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचिथ् । । ७८ । ।

 

 रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली

 रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।

 कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं

 सर्वं रम्यं अनित्यतां उपगते चित्ते न किञ्चित्पुनः । । ७९ । ।

 

 रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं

 किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।

 किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छाया

 चञ्चलं आकलय्य सकलं सन्तो वनान्तं गताः । । ८० । ।

 

 आ संसारात्त्रिभुवनं इदं चिन्वतां तात्तादृङ्नैवास्माकं

 नयनपदवीं श्रोत्रमार्गं गतो वा ।

 योऽयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तः

 करणकरिणः संयमालानलीलां । । ८१ । ।

 

 यदेतत्स्वच्छन्दं विहरणं अकार्पण्यं अशनं

 सहार्यैः संवासः श्रुतं उपशमैकव्रतफलं ।

 मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न

 जाने कस्यैषा परिणतिरुदारस्य तपसः । । ८२ । ।

 

 जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं

 हन्ताङ्गेषु गुणाश्बन्ध्यफलतां याता गुणज्ञैर्विना ।

 किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी

 हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः । । ८३ । ।

 

 महेश्वरे वा जगतां अधीश्वरे

 जनार्दने वा जगद्अन्तरात्मनि ।

 न वस्तुभेदप्रतिपत्तिरस्ति मे

 तथापि भक्तिस्तरुणेन्दुशेखरे । । ८४ । ।

 

 स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने

 सुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः ।

 भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः

 कदा यास्यामोऽतर्गतबहुलबाष्पाकुलदशां । । ८५ । ।

 

 महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा

 एवागारं वसनं अपि ता एव हरितः ।

 सुहृदा कालोऽयं व्रतं इदं अदैन्यव्रतं इदं

 कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता । । ८५*१ । ।

 

 वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः

 स्मरन्तः संसारे विगुणपरिणामां विधिगतिं ।

 वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास्

 त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः । । ८६ । ।

 

 कदा वाराणस्यां अमरतटिनीरोधसि वसन्

 वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटं ।

 अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन

 प्रसीदेत्याक्रोशन्निमिषं इव नेष्यामि दिवसान् । । ८७ । ।

 

 उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः

 कौपीनावरणं सुवस्त्रं अमितं भिक्षाटनं मण्डनं ।

 आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते

 तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते । । ८७ *१ । ।

 

 स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा

 ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।

 आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे

 दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थं । । ८८ । ।

 

 एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।

 कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः । । ८९ । ।

 

 पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां

 यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यतां ।

 अत्यागेऽपि तनोरखण्डपरमानन्दावबोधस्पृशा

 मध्वा कोऽपि शिवप्रसादसुलभः सम्पत्स्यते योगिनां । । ९० । ।

 

 कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी

 नैश्चिन्त्यं निरपेक्षभैक्ष्यं अशनं निद्रा श्मशाने वने ।

 स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा

 स्थैर्यं योगमहोत्सवेऽपि च यदि त्रैलोक्यराज्येन किं । । ९१ । ।

 

 ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।

 शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते । । ९२ । ।

 

 मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर्

 भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणां असि ।

 सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्

 भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे । । ९३ । ।

 

 महाशय्या पृथ्वी विपुलं उपधानं भुजलतां

 वितानं चाकाशं व्यजनं अनुकूलोऽयं अनिलः ।

 शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः

 सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव । । ९४ । ।

 

 भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा

 हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।

 रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो

 निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः । । ९५ । ।

 

 चण्डालः किं अयं द्विजातिरथवा शूद्रोऽथ किं तापसः

 किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः कोऽपि किं ।

 इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्

 न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः । । ९६ । ।

 

 हिंसाशून्यं अयत्नलभ्यं अशनं धात्रा मरुत्कल्पितं

 व्यालानं पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः ।

 संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां

 तां अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः । । ९७ । ।

 

 गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य

 ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।

 किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः

 कण्डूयन्ते जरठहरिणाः स्वाङ्गं अङ्गे मदीये । । ९८ । ।

 

 जीर्णाः कन्था ततः किं सितं अमलपटं पट्टसूत्रं ततः किं

 एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किं ।

 भक्तं भुक्तं ततः किं कदशनं अथवा वासरान्ते ततः किं

 व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किं । । ९९ । ।

 

 पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यं अक्षय्यं अन्नं

 विस्तीर्णं वस्त्रं आशादशकं अचपलं तल्पं अस्वल्पं उर्वीं ।

 येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस्ते

 धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति । । १०० । ।

 

 त्रैलोक्याधिपतित्वं एव विरसं यस्मिन्महाशासने

 तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।

 भोगः कोऽपि स एक एव परमो नित्योदिता जृम्भने

 यत्स्वादाद्विरसा भवन्ति विसयास्त्रैलोक्यराज्यादयः । । १०१ । ।

 

 मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल

 भ्रातर्व्य्ॐअ निबद्ध एष भवतां अन्त्यः प्रणामाञ्जलिः ।

 युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त

 समस्तमोहमहिमा लीने परब्रह्मणि । । १०२ । ।

 

 शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः

 सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः क्ॐअलैः ।

 येसां निर्झरं अम्बुपानं उचितं रत्यै तु विद्याङ्गना

 मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः । । १०३ । ।

 

 धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी

 सत्यं मित्रं इदं दया च भगिनी भ्राता मनःसंयमः ।

 शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनं

 ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः । । १०४ । ।

 

 अहो वा हारे वा बलवति रिपौ वा सुहृदि वा

 मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।

 तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः

 क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः । । १०५ । ।

}}

"https://sa.wikisource.org/w/index.php?title=भर्तृहरिशतकत्रयी&oldid=169135" इत्यस्माद् पुनः प्राप्तिः