भवानीभुजङ्गम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ भवानीभुजंगम् ।।


षडाधारपङ्केरुहान्तर्विराज-
 त्सुषुम्नान्तरालेऽतितेजोल्लसन्तीम् ।
सुधामण्डलं द्रावयन्तीं पिबन्तीं
 सुधामूर्तिमीडे चिदानन्दरूपाम् ॥ १ ॥

ज्वलत्कोटिबालार्कभासारुणाङ्गीं
 सुलावण्यशृङ्गारशोभाभिरामाम् ।
महापद्मकिञ्जल्कमध्ये विराज-
 त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ।। २ ।।

क्वणत्किङ्किणीनूपुरोद्भासिरत्न-
 प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् ।
अजेशाच्युताद्यैः सुरैः सेव्यमानं
 महादेवि मन्मूर्ध्नि ते भावयामि ॥ ३ ॥

सुशोणाम्बराबद्धनीवीविराज-
 न्महारत्नकाञ्चीकलापं नितम्बम् ।
स्फुरद्दक्षिणावर्तनाभिं च तिस्रो
 वलीरम्ब ते रोमराजिं भजेऽहम् ॥ ४ ॥

लसद्वृत्तमुत्तुङ्गमाणिक्यकुम्भो-
 पमश्रि स्तनद्वन्द्वमम्बाम्बुजाक्षि ।
भजे दुग्धपूर्णाभिरामं तवेदं
 महाहारदीप्तं सदा प्रस्नुतास्यम् ॥५॥

शिरीषप्रसूनोल्लसद्बाहुदण्डै-
 र्ज्वलद्बाणकोदण्डपाशाङ्कुशैश्च ।
चलत्कङ्कणोदारकेयूरभूषो.
 ज्ज्वलद्भिर्लसन्तीं भजे श्रीभवानीम् ॥ ६ ॥

शरत्पूर्णचन्द्रप्रभापूर्णबिम्बा-
 धरस्मेरवक्त्रारविन्दां सुशान्ताम् ।
सुरत्नावलीहारताटङ्कशोभां
 महासुप्रसन्नां भजे श्रीभवानीम् ॥ ७ ॥

सुनासापुटं सुन्दरभ्रूललाटं
 तवौष्ठश्रियं दानदक्षं कटाक्षम् ।
ललाटं लसद्गन्धकस्तूरिभूषं
 स्फुरच्छ्रीमुखाम्भोजमीडेऽहमम्ब ।। ८ ।।

चलत्कुन्तलान्तर्भ्रमभृङ्गबृन्दं
 बनस्निग्धधम्मिल्लभूषोज्ज्वलं ते ।
स्फुरन्मौलिमाणिक्यबद्धेन्दुरेखा-
 विलासोल्लसद्दिव्यमूर्धानमीडे ॥ ९ ॥

इति श्रीभवानि स्वरूपं तवेदं
 प्रपञ्चात्परं चातिसूक्ष्मं प्रसन्नम् ।
स्फुरत्वम्ब डिम्भस्य मे हृत्सरोजे
 सदा वाङ्मयं सर्वतेजोमयं च ॥ १० ॥

गणेशाभिमुख्याखिलैः शक्तिबृन्दै-
 र्वृतऻ वै स्फुरच्चक्रराजोल्लसन्तीम् ।
परां राजराजेश्वरि त्रैपुरि त्वां
 शिवाकोपरिस्थां शिवां भावयामि ॥ ११ ॥

त्वमर्कस्त्वमिन्दुस्त्वमग्निस्त्वमाप-
 स्त्वमाकाशभूवायवस्त्वं महत्त्वम् ।
त्वदन्यो न कश्चित्प्रपञ्चोऽस्ति सर्वं
 त्वमानन्दसंवित्स्वरूपां भजेऽहम् ॥ १२ ।।

श्रुतीनामगम्ये सुवेदागमज्ञा
 महिम्नो न जानन्ति पारं तवाम्ब ।
स्तुतिं कर्तुमिच्छामि ते त्वं भवानि
 क्षमस्वेदमत्र प्रमुग्ध: किलाहम् ।। १३ ॥

गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव
 त्वमेवासि माता पिता च त्वमेव ।
त्वमेवासि विद्या त्वमेवासि बन्धु-
 र्गतिमें मतिर्देवि सर्व त्वमेव ॥ १४ ॥

शरण्ये वरेण्ये सुकारुण्यमूर्ते
 हिरण्योदराद्यैरगण्ये सुपुण्ये ।
भवारण्यभीतेश्च मां पाहि भद्रे
 नमस्ते नमस्ते नमस्ते भवानि ॥ १५ ॥

इतीमां महच्छीभवानीभुजगं
 स्तुतिं य: पठेद्भक्तियुक्तश्च तस्मै ।
स्वकीयं पदं शाश्वतं वेदसारं
 श्रियं चाष्टसिद्धिं भवानी ददाति ॥ १६ ॥

भवानी भवानी भवानी त्रिवार-
 मुदारं मुदा सर्वदा ये जपन्ति ।
न शोकं न मोहं न पापं न भीति:
 कदाचित्कथंचित्कुतश्चिज्जनानाम् ।। १७ ।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
भवानीभुजंगं संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=भवानीभुजङ्गम्&oldid=289355" इत्यस्माद् प्रतिप्राप्तम्