।। सूत उवाच ।। ।।
प्रसन्नमनसं भूपं महासिंहासने स्थितम् ।।
द्विजवर्यः स वैतालो वचः प्राह प्रसन्नधीः ।।१।।
एकदा यमुनातीरे धर्मस्थलपुरी शुभा ।।
धनधान्यसमायुक्ता चतुर्वर्णसमन्विता ।। २ ।।
गुणाधिपो महीपालस्तत्र राज्यं चकार वै ।।
हरिशर्मा पुरोधास्तु स्नानपूजनतत्परः ।।३ ।।
तस्य पत्नी सुशीला च पतिव्रतपरायणा ।।
सत्यशीलः सुतो जातो विद्याध्ययनतत्परः ।। ४ ।।
तस्यानुजा मधुमती शीलरूपगुणान्विता ।।
द्वादशाब्दवयःप्राप्ते विवाहार्थं पिता यदा ।। ५ ।।
भ्राता? बभ्राम तौ सर्वं चिनुतश्च सुतावरम् ।।
कदाचिद्राजपुत्रस्य विवाहे समतो द्विजः ।। ६ ।।
पठनार्थे तु काश्यां वै सत्त्वशीलः स्वयं गतः ।।
एतस्मिन्नंतरे राजन्द्विजः कश्चित्समागतः ।। ७ ।।
वामनो नाम विख्यातो रूपशीलवयोवृतः ।।
सुता मधुमती तं च दृष्ट्वा कामातुराऽभवत् ।। ८ ।।
भोजनं छादनं पानं स्वप्नं त्यक्त्वा च विह्वला ।।
चकोरीव विना चंद्रं कामबाणप्रपीडिता ।। ९ ।।
दृष्ट्वा सुशीला तं बाला वामनं ब्राह्मणं तथा ।।
वारयामास तांबूलैः स्वर्णद्रव्यसमन्वितैः ।। 3.2.2.१० ।।
हरिशर्मा प्रयोगे च द्विजं दृष्ट्वा त्रिविक्रमम् ।।
वेदवेदांतत्त्वज्ञं सुतार्थेऽवरयत्तदा ।। ११ ।।
सत्यशीलस्तु काश्यां वै गुरुपुत्रं च केशवम् ।।
वरित्वा तं भगिन्यर्थे ययौ गेहं मुदान्वितः ।। १२ ।।
माघकृष्णत्रयोदश्यां भृगौ लग्नं शुभं स्मृतम् ।।
त्रयो विप्रास्तदा प्राप्ताः कन्यार्थे रूपमोहिताः ।। १३ ।।
तस्मिन्काले तु सा कन्या भुजगेनैव दंशिता ।।
मृता प्रेतत्वमापन्ना पूर्वकर्मप्रभावतः ।। १४ ।।
तदा ते ब्राह्मणा यत्नं कारयामासुरुत्तमम् ।।
न जीवनवती बाला गरलेन विमोहिता ।।१५।।
हरिशर्मा तु तत्सर्वं कृत्वा वेदविधानतः ।।
आययौ मंदिरं राजन्त्सुतागुणविमोहितः ।। १६ ।।
त्रिविक्रमस्तु बहुधा दुःखं कृत्वा स्मरानुगः ।।
कंथाधारी यतिर्भूत्वा देशाद्देशातरं ययौ ।। १७ ।।
केशवस्तु महादुःखी प्रियास्थीनि गृहीतवान् ।।
तीर्थात्तीर्थांतरं प्राप्तः कामबाणेन पीडितः ।। १८ ।।
भस्मग्राही वामनस्तु विरहाग्निप्रपीडितः ।।
तस्थौ चितायां कामार्तः पत्नीध्यानपरायणः ।।१९।।
एकदा सरयूतीरे लक्ष्मणाख्यपुरे शुभे ।।
त्रिविक्रमस्तु भिक्षार्थे संप्राप्तो द्विजमंदिरे ।। 3.2.2.२० ।।
तस्मिन्दिने रामशर्मा शिवध्यानपरायणः ।।
यतिनं वरयामास भोजनार्थं स्वमंदिरे ।। २१ ।।
तस्य पत्नी विशालाक्षी रचित्वा बहुभोजनम् ।।
आहूय यतिनं राजन्पात्रमालभमाकरोत् ।। २२ ।।
तस्मिन्काले च तद्बालो मृतः पापवशंगतः ।।
अरोदीत्तस्य सैरंध्री विशालाक्ष्यपि भर्त्सिता ।। २३ ।।
न रोदनं त्यक्तवती पुत्रशोकाग्नितापिता ।।
रामशर्मा तदा प्राप्तो मंत्रं संजीवनं शुभम् ।। २४ ।।
जपित्वा मार्जनं कृत्वा जीवयामास बालकम् ।।
विनयावनतो विप्रस्तं च संन्यासिनं तदा।। ।। २५ ।।
भोजनं कारयित्वा तु मंत्रं संजीवनं ददौ ।।
त्रिविक्रमस्तु तं मंत्रं पठित्वा यमुनातटे ।।२६।।
प्राप्तवान्यत्र सा नारी दाहिता हरिशर्मणा।।
एतस्मिन्नन्तरे तत्र राजपुत्रो मृतिं गतः ।। २७ ।।
दाहितस्तनयः पित्रा शोककर्त्रा तदामुना ।।
जीवनं प्राप्तवान्बालस्तस्य मंत्रप्रभावतः ।। २८ ।।
गुणाधिपस्य तनयो राज्ञो धर्मस्थलीपतेः ।।
त्रिविक्रमं वचः प्राह वीरबाहुर्महाबलः ।।२९।।
जीवनं दत्तवान्मह्यं वरयाद्य वरं मम ।।
स विप्रः प्राह भो राजन्केशवो नाम यो द्विजः ।। 3.2.2.३० ।।
गृहीत्वास्थि गतस्तीर्थे तमन्वेषय मा चिरम् ।।
वीरबाहुस्तथा मत्वा दूतमार्गेण तं प्रति ।। ३१ ।।
प्राप्तस्तं कथयामास यथा प्राप्तं हि जीवनम् ।।
इति श्रुत्वा वचस्तस्य केशवोऽस्थिसमन्वितः ।३२।।
प्रगत्यास्थीनि सर्वाणि ददौ तस्मै द्विजातये ।।
पुनः संजीविता बाला केशवादीन्वचोऽब्रवीत्।।३३।।
योग्या धर्मेण यस्याहं तस्मै प्रायामि धर्मिणे।।
इति श्रुत्वा वचस्तस्या मौनवंतस्त्रयः स्थिताः।।३४।।
अतस्त्वं विक्रमादित्य धर्मज्ञ कथयस्व मे ।।
कस्मै योग्या च सा बाला नाम्ना मधुमती शुभा ।। ३५ ।।
।।सूत उवाच ।। ।।
विहस्य विक्रमादित्यो वैतालं प्राह नम्रधीः।।
योग्या मधुमती नारी वामनाय द्विजन्मने।।३६।।
प्राणदाता तु यो विप्रः पितेव गुणतत्परः ।।
अस्थिदाता तु यो विप्रो भ्रातृतुल्यस्स वेदवित् ।। ३७ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वितीयोऽध्यायः ।। २ ।।

वामनोपरि टिप्पणी

केशवोपरि टिप्पणी

अस्थ्नोपरि टिप्पणी

तुलनीय - वेतालपञ्चविंशतिः