सूत उवाच ।। ।।
तस्मिन्काले स वैतालो भृगुवर्यः प्रसन्नधीः ।।
राजानमुत्तमां गाथां वर्णयामास विश्रुताम् ।। १ ।।
चंपापुरी च विख्याता चम्पकेशो महीपतिः ।।
तत्रास्ते बलवान्धन्वी महिषी तत्सुलोचना ।। २ ।।
त्रिलोकसुंदरी नाम कन्या तस्यामजायत ।।
वदनं चन्द्रवद्यस्या भ्रुवौ चापसमे स्मृते ।। ३ ।।
मृगाक्षी कोकिलरवा कोमलांगी महोत्तमा ।।
देवैर्मनोवृता बाला किमन्यैर्मानुषैर्नृप ।। ४ ।।
तस्याः स्वयंवरो जातो नृपा बहुविधास्तदा ।।
तस्या योगेन संप्राप्ता ये भूपा भुवि विश्रुताः ।। ५ ।।
इन्द्रो यमः कुबेरश्च वरुणो विबुधोत्तमः ।।
कृत्वा नरमयं रूपं तदर्थे समुपागताः ।। ६ ।।
चंपकेशमिदं प्राह शृणु राजन्वचो मम ।।
सर्वशास्त्रेषु निपुणं रूपवन्तं मनोरमम् ।।
इन्द्रदत्तं च मां विद्धि स्वसुतां मे समर्पय ।। ७ ।।
द्वितीयस्तु तदा प्राह धर्मदत्तं मनोरमम् ।।
धनुर्वेदेषु निपुणं स्वकन्यां दातुमर्हसि ।। ८ ।।
तृतीयश्चाह भो राजन्धनपालाय शोभिने ।।
सर्वजीवस्य भाषाणां ज्ञायिने गुणरूपिणे ।।
मह्यं च स्वसुतां शीघ्रं समर्पय सुखी भव ।। ९ ।।
चतुर्थश्चाह भो राजन्सर्वकलासु कोविदः ।।
पञ्चरत्नसमुद्योगी प्रत्यहं भूपते ह्यहम् ।। ।। 3.2.7.१० ।।
पुण्यार्थमेकरत्नं च होमार्थं द्वितियं वसु ।।
आत्मार्थं तृतियं रत्नं पत्न्यर्थे तुरियं वसु ।। ११ ।।
शेषं सुभोजनार्थं च रत्नं नित्यं मयाहृतम् ।।
ईदृग्विधं मां पुरुषं स्वसुतां दातुमर्हसि ।। १२ ।।
इति श्रुत्वा वचस्तेषां मोहितो नृपतिस्तदा ।।
स्वसुतां प्राह धर्मात्मा कस्मै दास्यामि कन्यके ।। १३ ।।
सा देवी तु वचः श्रुत्वा व्रीडिता दैवमोहिता ।।
नोत्तरं च ददौ तस्मै स्वपित्रे धर्मशालिनी ।। १४ ।।
इत्युक्त्वा स तु वैतालो विहस्योवाच भूपतिम् ।।
कस्मै योग्या भवेत्कन्या रूपयौवनशालिनी ।। १५ ।।
।। सूत उवाच ।। ।।
इत्युक्तः स तु भूपालो वचनं तं समब्रवीत् ।।
धर्मदत्ताय सा कन्या योग्या भवति रूपिणी ।। १६ ।।
सर्वशास्त्रेषु निपुणः स द्विजो वर्णतः स्मृतः ।।
भाषावेत्ता तु वणिजो धनधान्य प्रसारकः ।।१७।।
कलाज्ञः स तु शूद्रो हि धनुर्वेदी स भूपतिः।।
सवर्णाय च वैताल सदा योग्या हि कन्यका ।।
अतो विवाहिता बाला धर्मदत्ताय शीलिने।।१८।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये सप्तमोऽध्यायः ।। ७ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशति

चम्पा शब्दोपरि टिप्पणी