।। सूत उवाच ।। ।।
विहस्य स तु वैतालो राजानमिदमब्रवीत् ।।
राजंश्चूडापुरे रम्ये भूपश्चूडामणिः स्मृतः ।।१।।
देवस्वामी गुरुस्तस्य वेदवेदांगपारगः ।।
तस्य पत्नी विशालाक्षी पतिधर्मपरायणा ।। २ ।।
शिवमाराधयामास पुत्रार्थे वरवर्णिनी ।।
रुद्रस्य वरदानेन कामदेवसमः सुतः ।। ३ ।।
हरिस्वामीति विख्यातो जातो देवांशवान्बली ।।
सर्वसंपत्समायुक्तो देवतुल्यसुखी क्षितौ ।। ४ ।।
रूपलावण्यिका नाम्ना तत्पत्नी हि सुरांगना ।।
जाता देवलशापेन तस्य नन्दनतो नृप ।। ५ ।।
एकदा पतिना सार्द्धं वसन्ते कुसुमाकरे ।।
हर्म्ये सुष्वाप संप्रीत्या शय्यामध्यास्य सुंदरी ।।६।।
सुकलो नाम गंधर्वस्तस्या रूपेण मोहितः ।।
तां जहार विमाने स्वे संस्थाप्य स्वपुरं ययौ ।।७।।
प्रबुद्धः स तु तां नारीं मृगयामास विह्वलः ।।
अलब्ध्वा व्याकुलो भूत्वा देशं त्यक्त्वा वनं गतः ।।८।।
संन्यस्य विषयान्सर्वान्हरिध्यानपरायणः ।।
कदाचित्प्राप स स्नेही विप्रगेहमुपागतः ।। ९ ।।
प्रपच्य पायसमपि वटवृक्षमुपाश्रितः ।।
वृक्षोपरि निधायाशु नदीस्नानमथाकरोत् ।।
भोजनं च ततो राजन्सर्पेण गरलीकृतम् ।। 3.2.12.१० ।।
ततो यतिः समायातो भुक्त्वा मदमुपाययौ ।।
विषेण पीडिततनुर्दृष्ट्वा ब्राह्मणमब्रवीत् ।। ११ ।।
त्वया प्रदत्तं मूर्खेण पायसं विषमिश्रितम् ।।
मरणं यामि भो दुष्ट ब्रह्महत्यामवाप्स्यसि ।। १२ ।।
इत्युक्त्वा मरणं प्राप्य शिवलोकमुपाययौ ।।
रूपतेजोयुतां देवीं गृहीत्वा सुखमाप्तवान् ।। १३ ।।
इत्युक्त्वा स तु वेतालो राजानमिदब्रवीत् ।।
कस्मै प्राप्ता ब्रह्महत्या तेषां मध्ये वदस्व मे ।। १४ ।।
।। राजोवाच ।। ।।
स्वाभाविकविषो नागो ह्यज्ञानेन विषं कृतम् ।।
अतो दोषी हि भुजगो ब्रह्महत्यां न चाप्तवान् ।। १५ ।।
बुभुक्षिते ददौ भिक्षां स द्विजो दैवमोहितः ।।
ब्रह्महत्यामतो नायात्कुलधर्मपरायणम् ।। १६ ।।
आत्मना च कृतं पापं भोक्तव्यं सर्वदा जनैः ।।
आत्मत्यागो ब्रह्महत्या चातिथेश्चावमाननम्।। १७ ।।
ब्रह्महत्या तदा ज्ञेया विषदत्तेन सा तथा ।।
आत्मत्यागः स्मृतो दैवात्तस्मात्सोपि न पापवान् ।। १८ ।।
यैर्नरैः कथिता वार्ता ब्रह्महत्या त्वया कृता ।।
तेषां ब्राह्मणहत्या सा न्यायभ्रष्टवतां नृणाम् ।। १९ ।। ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युग खण्डापरपर्याये कलियुगीयेतिहाससमुच्चये द्वादशोऽध्यायः ।। १२ ।।

तुलनीय - कथासरित्सागरे वेतालपञ्चविंशति