।। सूत उवाच ।। ।।
कृतकृत्यः प्रसन्नात्मा वैतालो नृपमब्रवीत् ।।
नगरे चन्द्रहृदये रणधीरो नृपोऽभवत् ।। १ ।।
तत्र वैश्योऽवसद्धर्मी नाम्ना धर्मध्वजो धनी ।।
तस्य पुत्री समायाता सुन्दरी सुखभाविनी ।। २ ।।
एकदा नगरे तस्मिन्यातुभक्तो नरोऽभवत् ।।
द्यूतविद्यापरो नित्यं मद्यमांसपरायणः ।। ३ ।।
वाशरो नाम तत्रासीद्राक्षसः पुरुषादनः ।।
तस्मै मद्यं च मांसं च प्रत्यहं स च दत्तवान् ।। ४ ।।
प्रसन्नो राक्षसो भूत्वा यातुभक्तं तमब्रवीत् ।।
वरं वरय यो योग्यो मत्तः सर्वमवाप्स्यसि ।। ५ ।।
स होवाच वरो मह्यं देयस्ते पुरुषादक ।।
गुप्तगर्तं च भूमध्ये कुरु चौरनिरूपणम् ।। ६ ।।
इति श्रुत्वाकरोद्गर्तं नर बुद्धिविमोहनम् ।।
स्वयं तत्र स्थितो देवः स्वभक्तेन समन्वितः ।। ७ ।।
तेन रात्रौ तु चौर्येण नृपदासी वरांगना ।।
हृता संस्थापिता गर्ते बहुद्रव्यं तथा हृतम् ।। ८ ।।
सप्तपत्न्योऽभवंस्तस्य चतुर्वर्णस्य योषितः ।।
तासां मध्ये भूपदासी तस्य चौरस्य वल्लभा ।। ९ ।।
नृपदुर्गसमं गेहं रचितं तेन रक्षसा ।।
भूतले गुप्तरूपं च नरबुद्धिविमोहनम्।। 3.2.13.१० ।।
चोरितं बहुधा द्रव्यं गर्ते संस्थापितं बलात्।।
तदा ते व्याकुला राजञ्जना राजानमब्रु वन् ।। ११ ।।
त्यजाम नगरीं भूप चौरविघ्नकरीं तव ।।
इति श्रुत्वाथ भूपेन रक्षिणः शस्त्रसंयुताः ।।
स्थापिता नगरे तस्मिश्चौरहिंसापराय णाः ।। १२ ।।
आज्ञाप्य स ययौ गेहं तैस्तु श्रुत्वा तथा कृतम् ।। १३ ।।
राक्षस्या मायया सर्वे मोहिता रक्षिणस्तदा ।।
चौरेण बहुधा द्रव्यं हृतं च धनिनां वलात् ।। १४ ।।
पुनस्ते प्रययुर्भूपं रणधीरं समेरयन् ।।
श्रुत्वा तु विस्मितो राजा स्वयं नगरमागतः ।। १५ ।।
अर्धरात्रे तमोभूते स चौरो नृपमागतम् ।।
ज्ञात्वाब्रवीच्च राजानं को भवानत्र चाप्तवान् ।। १६ ।।
नृपोऽब्रवीदहं चौरश्चोदितार्थः समागतः ।।
यास्यामि धनिनां गेहे भवान्मे वचनं कुरु ।। १७ ।।
मया सार्द्धं च बहुधा द्रव्यं हर सुखी भव ।।
तथा मत्वा तु बहुधा चौरेण धनमाहृतम् ।। १८ ।।
गर्तमध्ये गतो रात्रौ स्थापयित्वा नृपं बहिः ।।
एतस्मिन्नेव तत्पत्नी नृपदासी वरांगना ।। १९ ।।
भूपतिं प्राह भो राजन्गच्छ शीघ्रं स्वकं गृहम् ।।
चौरोऽसौ हि त्वदर्थे च मृत्युं कुर्वन्गृहं गतः ।। 3.2.13.२० ।।
इत्युक्त्वा सा तु भूपाय मार्गभेदमदर्शयत् ।।
नृपोऽपि स्वगृहं प्राप्य प्रभाते विमले रवौ ।। २१ ।।
आययौ सेनया सार्द्धं यत्र चौरः स्वयं स्थितः ।।
चौरोऽपि भयमासाद्य वाशरं नाम राक्षसम् ।। २२ ।।
संपूज्य वर्णयामास यथा जातं तथाविधि ।।
विहस्याह च रक्षस्तं त्वया मे भोजनं कृतम्। २३ ।।
अद्य भक्ष्याम्यहं सर्वान्मानुषान्दैवचोदितान् ।।
इत्युक्त्वा स ययौ घोरो राक्षसो नृपतिं प्रति ।। ।। २४ ।।
चखाद बहुलां सेनां तेपि याता दिशो दश ।।
आक्रांतः स च भूपालो रक्षसा विकलीकृतः ।। २५ ।।
तदा चौरः स्वयं प्राप्य भूपतिं प्राह रोषतः ।।
पलायनं न भूपस्य योग्यं धर्मजनस्य वै ।। २६ ।।
इति श्रुत्वा नृपश्चैव तूर्णमागत्य तत्र ह ।।
ध्यात्वा देवीं महाकालीं लब्ध्वा मंत्रं महोत्तमम् ।। २७ ।।
रक्षसा सह तद्गर्तं भस्मसादभवत्क्षणात् ।।
निगडैस्तं बबंधाशु चौरं नगरलुंठकम् ।। २८ ।।
तथा सर्वधनैः सार्धं स्त्रीभिस्ताभिः समाययौ ।।
राज्यस्थानं समासाद्य दुर्गतिस्तस्य चाभवत् ।। २९ ।।
पटहाताडितेनैव शब्देन च गृहेगृहे ।।
ज्ञापितं करणं सर्वं तच्चौरस्य वधस्य तैः ।। 3.2.13.३० ।।
तद्दिने नगरे तस्मिन्भ्रामितो गर्दभोपरि ।।
धर्मध्वजगृहद्वारे स चौरो हि समागतः ।। ३१ ।।
तस्य रूपं समालोक्य मुमोह सुखभाविनी ।।
पितरं प्राह दुःखार्ता चौरं मोचय सत्वरम् ।। ३२ ।।
स गत्वा नृपतिं प्राह पंचलक्षधनं मम ।।
गृहाण चौरमोक्षार्थे म्रियते न हि मे सुता ।। ३३ ।।
विहस्याह नृपस्तं वै चौरोऽयं धनलुंठकः ।।
कर्हिचिन्न मया त्याज्यो भुवि वै पुरुषाधमः ।। ३४ ।।
इति श्रुत्वा निराशोऽभूत्स चौरो मरणं गतः ।।
शल्यारोपणकाले तु प्राक्प्रहस्य ततोऽरुदत् ।। ३५ ।।
एतस्मिन्नेव तत्पुत्री देवमायाविमोहिता ।।
गृहीत्वा चौरदेहं तु वह्निकुण्डे तु सागमत् ।। ३६ ।।
तदा प्रसन्ना सा दुर्गा तावुजीव्य प्रसादतः ।।
तस्यै दत्तो वरो दिव्यो भुक्तिमुक्तिफलप्रदः ।। ३७ ।।
इत्युक्त्वा स तु भूपालं पुनः प्राह विहस्य तम् ।।
किं कारणेन चौरोसौ प्राक्प्रहस्य ततोऽरुदत् ।। ३८ ।।
।। राजोवाच ।। ।।
मदर्थे सुन्दरी नारी स्वप्राणान्दातुमुद्यता ।।
तस्यै किं च प्रदातव्यं मया तत्स्नेहरूपिणा ।। ३९ ।।
अतो रोदितवान्पश्चाद्धसने कारणं शृणु ।।
धन्योऽयं भगवान्कृष्णो यस्य लीलेयमीदृशी ।। ।। 3.2.13.४० ।।
अधर्मिणे च नाकस्य फलं दातुं समर्हति ।।
धर्मिणे नरकस्यैव फलं तस्मै नमोनमः ।। ४१ ।।
अतः स हसितः पूर्वं मोहितो हरिलीलया ।।
इति श्रुत्वाह वैतालो हरेः शरणमुत्तमम् ।। ४२ ।।
वाक्यं तेन कृतं शूल्यामतो जीवितवाच्छुचिः ।। ४३ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये त्रयोदशोऽध्यायः ।। १३ ।।

तुलनीय - वेतालपंचविंशति