भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः २/अध्यायः २१
सूत उवाच।।
इत्युक्त्वा स तु वैतालो राजानं प्राह नम्रधीः।।
जयस्थलपुरे रम्ये वर्धमानो नृपोभवत्।।१।।
तस्य ग्रामेवसद्विप्रो वेदवेदांगपारगः।।
विष्णुस्वामीति विख्यातो राधाकृष्णपरायणः।।२।।
चत्वारश्चात्मजास्तस्य चतुर्भागपरायणाः ।।
द्यूतकर्मा च कुलटो विषयी नास्तिकः श्रुतः ।। ३ ।।
कदाचिद्दैवयोगेन निर्द्धनत्वं च ते गताः ।।
पितरं विष्णुशर्माणं नेमुस्ते विनयान्विताः ।। ४ ।।
ऊचू रमा कथं नष्टा तद्वदस्व पितः प्रिय ।।
पितोवाच तु तच्छ्रुत्वा द्यूतकर्मन्निशामय ।। ५ ।।
द्यूतो धनव्ययकरः पापमूलो महाखलः ।।
व्यभिचारस्तथा चौर्यं निर्दयत्वमतो भवेत् ।।
द्यूतकर्मप्रभावेण त्वदीयद्रव्यसंक्षयः ।। ६ ।।
धनोपायेन भोः पित्रोर्वाक्यं कुरु मतिं प्रति ।।
तीर्थव्रतप्रभावेण त्वत्पापं संक्षयं व्रजेत् ।। ७ ।।
हे पुत्र कुलट त्वं वै वेश्यासंगं महाशुभम् ।।
त्यक्त्वा ब्रह्मपरो भूत्वा ब्रह्मचर्ये मतिं कुरु ।। ८ ।।
विषयिन्मांसमदिरे नित्यपापविवर्धिके ।।
अतः प्राप्स्यति चौर्यत्वमतो वै निरयस्तथा ।। ९ ।।
तस्मात्त्वं प्रभुमीशानं विष्णुं जिष्णुं जगत्पतिम् ।।
निवेद्य सर्वथा द्रव्यं भुञ्जीथा वाग्यतः स्वयम् ।। 3.2.21.१० ।।
नास्तिकत्वं देवनिंदा परित्यज्य मतिं कुरु ।।
आत्मा सर्वाभयो नित्यमात्मशक्तिश्च चंडिका ।। ११ ।।
आत्मनोंगानि देवाश्च सर्वजीवगुहाशयाः ।।
ताञ्ज्ञात्वा पूजनं तेषां कुरु त्वं पापशान्तये ।। १२ ।।
इति ते वचनं श्रुत्वा गतास्तीर्थान्तरं प्रति ।।
शिवमाराधयामासुर्विद्यार्थे सर्वरूपिणम् ।। १३ ।।
वर्षांते च महादेवो विद्यां संजीवनीं ददौ ।।
ते प्राप्य वनमागत्य परीक्षार्थे समुद्यताः ।। १४ ।।
मृतव्याघ्रास्थिनि श्रेष्ठं मंत्रपूतांबु चाक्षिपत् ।।
तेन मंत्रप्रभावेण पंजरत्वमुपागतम् ।। १५ ।।
तस्योपर्य्येव कुलटो मंत्रपूतं पयोऽक्षिपत् ।।
घनमांसं च रुधिरं तेन मंत्रेण चाभवत् ।। १६ ।।
विषयी चाक्षिपच्चैव तस्योपरि जलं शुभम् ।।
तेन मन्त्रप्रभावेण त्वक्प्राणत्वमुपागतम् ।। १७ ।।
सुप्तं व्याघ्रं च संज्ञाय नास्तिकस्तु जलं ददौ ।।
मंत्रेण बोधितो व्याघ्रस्तांश्च विप्रानखादयत्।।१८।।
सूत उवाच ।।
इत्युक्त्वा स तु वेतालो राजानमिदमब्रवीत् ।।
राजन्मूर्खो हि कस्तेषां श्रुत्वा राजाब्रवीदिदम् ।। १९ ।।
बोधितो येन स व्याघ्रः स मूर्खस्त्वधिको मतः ।।
इति श्रुत्वा द्विजश्रेष्ठो वैतालः पुनरब्रवीत् ।। 3.2.21.२० ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहा ससमुच्चय एकविंशोऽध्यायः ।। २१ ।।
तुलनीय - कथासरित्सागरे वेतालपंचविंशति