।। सूत उवाच ।। ।।
इत्युक्त्वा तान्सुरान्देवो भगवान्बृहतांपतिः ।।
अश्विनौ च समालोक्य तयोर्गाथामवर्णयत् ।। १ ।।
वैवस्वतेऽन्तरे पूर्वं विश्वकर्मा विचित्रकृत् ।।
चित्रगुप्तश्रियं दृष्ट्वा चित्रलेखाविनिर्मिताम् ।।
स्पर्द्धाभूतो महामायां तुष्टाव बहुपूजनैः ।। २ ।।
प्रसन्ना सा तदा देवी चित्रायां तस्य योषिति ।।
स्वांशाज्जाता स्मृता संज्ञा सर्वज्ञानकरी स्वयम् ।। ३ ।।
षोडशाब्दे वयः प्राप्ते संज्ञायास्तत्पिता सुखी ।।
विवाहार्थी सुरान्सर्वानाह्वयन्मेरुमूर्द्धनि ।। ४ ।।
यक्षाधीशाश्च षड्विंशत्कुबेराद्यास्समागताः ।।
यादसां पतयः प्राप्ता दश तत्रैव कामुकाः ।। ५ ।।
पावका ऊनपंचाशद्वायवश्च तथा स्मृताः ।।
ध्रुवौ द्वौ च स्वयं प्राप्तौ सोमास्तत्रैव षोडश ।।६।।
त्रयोदश च प्रत्यूषाः प्राप्ता विश्वप्ररक्षकाः ।।
षष्ट्युत्तरं च त्रिशतं प्रभासा दिनरक्षकाः ।।७ ।।
भवाद्याश्च तदाः रुद्राः शशिमण्डलरक्षकाः ।।
आदित्याश्च स्थितास्सर्वे संज्ञायाश्च स्वयंवरे ।। ८ ।।
दानवा विप्रचित्त्याद्याश्चतुराशीतिराययुः ।।
प्रह्लादाद्यास्तदा दैत्या वासुक्याद्याश्च पन्नगाः ।। ९ ।।
शेषाद्याश्च तदा नागास्तार्क्ष्याद्या गरुडाः स्मृताः ।।
सर्वे स्वयंवरे प्राप्ता महाकोलाहलोह्यभूत् ।। 3.4.18.१० ।।
एतस्मिन्नंतरे देवी देवकन्यासमन्विता ।।
संज्ञा देवान्प्रति तदा प्रत्यक्षमभवद्दिवि ।। ११ ।।
तां समालोक्य बलवान्बलिः कामविमोहितः ।।
करे गृहीत्वा प्रययौ पश्यतां सर्वधन्विनाम् ।। १२ ।।
तदा क्रोधातुरा देवा रुरुधुर्दैत्यसत्तमम् ।।
शस्त्रास्त्रैस्तर्पयित्वा तं महद्युद्धमकारयन् ।। १३ ।।
दानवाश्च तदा दैत्या नानावाहनसंस्थिताः ।।
देवैः सार्द्धं महद्युद्धं तुमुलं चक्रिरे मुदा ।। १४ ।।
दानवैश्च हता देवाः सुरैर्दैत्या विनाशिताः ।।
शवभूतैरिलावर्तेऽभूदगम्या वसुंधरा ।। १५ ।।
पक्षमात्र मभूद्युद्धं दिव्यं दानवदेवयोः ।।
पांचजन्यस्तथा धाता हयग्रीवश्च मित्रकः ।। १६ ।।
अघासुरोऽर्यमा चैव बलः शक्रस्तथैव च ।।
बकासुरश्च वरुणः शकटः प्रांशुरेव च ।। १७ ।।
वत्सासुरो भगश्चैव विवस्वांश्च बलिः स्वयम् ।।
प्रलंबश्च तथा पूषा गर्दभः सविता युधि ।।१८।।
विश्वकर्मा मयश्चैव कालनेमिर्हरिः स्वयम् ।।
कांक्षमाणौ च विजयं युयुधाते परस्परम् ।।
पराजिताश्च ते दैत्या युद्धं त्यक्त्वा प्रदुद्रुवुः ।। १९ ।।
विवस्वाँश्च तदा संज्ञां गृहीत्वा रथसंस्थिताम् ।।
विश्वकर्माणमागम्य ददौ तस्मै प्रसन्नधीः ।। 3.4.18.२० ।।
विवस्वंतं सुरश्रेष्ठं दृष्ट्वा संज्ञा वचोऽब्रवीत् ।।
मत्पतिश्च भवान्देवो भवेत्कार्यकरस्सदा ।। २१ ।।
त्वया जिताहं भगवन्बलेर्विप्रियकारिणः ।।
भ्रातृजाग्रहणे दोषो न भवेत्स कदाचन ।। २२ ।।
वीरभुक्ता सदा नारी स्त्रीरत्नं मुनिभिः स्मृतम् ।।
चतुर्द्धा प्रकृतिर्देवी गुणभिन्ना गुणैकिका ।।
एका सा प्रकृतिर्माता गुणसाम्यात्सनातनी ।। २३ ।।
सत्त्वभूता च भगि नी रजोभूता च गेहिनी ।।
तमोभूता च सा कन्या तस्यै देव्यै नमोनमः ।। २४ ।।
बहवः पुरुषा ये वै निर्गुणाश्चैकरूपिणः ।।
चैतन्याऽज्ञानवंतश्च लोके प्रकृतिसंभवाः ।। २५ ।।
अलोके पापजास्सर्वे देवब्रह्मसमुद्भवाः ।।
या तु ज्ञानमयी नारी वृणेद्यं पुरुषं शुभम् ।।
कोऽपि पुत्रः पिता भ्राता स च तस्याः पतिर्भवेत् ।। २६ ।।
स्वकीयां च सुतां ब्रह्मा विष्णुदेवः स्वमातरम् ।।
भगिनीं भगवाञ्छंभुर्गृहीत्वा श्रेष्ठतामगात् ।। २७ ।।
इति श्रुत्वा वेदमयं वाक्यं चादितिसंभवः ।।
विवस्वान्भ्रातृजां संज्ञां गृहीत्वा श्रेष्ठवानभूत् ।। २८ ।।
सुताः कन्यास्तयोर्जाता मनुर्वैवस्वतस्तथा ।।
यमश्च यमुना चैव दिव्यतेजोभिरन्विताः ।। २९ ।।
तदा संज्ञा सती साक्षात्तेजोभूतं पतिं स्वकम् ।।
ज्ञात्वा छायां समुत्पाद्य तपसे वनमा गता ।। 3.4.18.३० ।।
सावर्णिश्च मनुस्तस्यां शनिश्च तपती तथा ।।
छायायां च समुद्भूताः कूरदृष्ट्या विवस्वतः ।। ३१ ।।
पुत्रभेदेन तां नारीं मत्वा मायां रुषान्वितः ।।
चकार भस्मभूतां तां विवस्वान्भगवान्रविः ।। ३२ ।।
तदा शनिश्च सावर्णिर्विवस्वतं रुषान्वितम् ।।
ज्ञात्वा च क्रोधताम्राक्षौ युयुधाते परस्परम् ।। ३३ ।।
कियतो चैव कालेन भग्नभूतौ विवस्वता ।।
हिमाचले गिरौ प्राप्य तेपतुः परमं तपः ।। ३४ ।।
त्रिवर्षान्ते च सा देवी महाकाली समागता।।
अर्चितं च वरं ताभ्यां ददौ तद्भक्तिवत्सला ।।३५।।
पुनस्तौ च समागम्य युयुधाते विवस्वता।।
विवस्वान्भयभीतश्च त्यक्त्वा युद्धं पराभवत् ।। ३६ ।।
तत्र स्थिता प्रिया संज्ञा वडवारूपधरिणी ।।
कुरुखंडे महारम्ये तपंती तप उल्बणम् ।। ३७ ।।
गत्वा ददर्श भगवान्सज्ञां संबोधकारिणीम् ।।
कामातुरो हयो भूत्वा तत्र रेमे तया सह ।। ३८ ।।
पंचवर्षान्तरे संज्ञा गर्भं तस्माद्दधौ स्वयम् ।।
तनयौ च समुद्भूतौ दिव्य रूपपराक्रमौ ।। ३९ ।।
पितुर्दुःखं समालोक्य जग्मतू रविमण्डलम् ।।
जित्वा बंधू दुराचारौ क्रूरदृष्ट्या तदा स्वयम् ।। 3.4.18.४० ।।
बद्ध्वा तौ स्वपितुः पार्श्वम संप्राप्तौ वडवासुतौ ।।
दृष्ट्वा विवस्वान्भगवान्वैरिणौ समुपागतौ ।। ४१ ।।
संपीड्य ताडयामास लोहदंडैर्भयानकैः ।।
पंगुभूतौ पुनस्त्यक्त्वा छायापुत्रौ दिवाकरः ।। ४२ ।।
आश्विनेयौ समालोक्य वचनं प्राह तौ मुदा ।।
जीव ईशो यथा मित्रे नरनारायणौ यथा।।
एकनाम्ना युवां प्रीतौ नासत्यौ च भविष्यथः ।। ४३ ।।
सोमशक्तिरिडादेवी ज्येष्ठपत्नी भविष्यति ।।
पिंगला सूर्यशक्तिश्च लघुपत्नी भविष्यति ।। ४४ ।।
इडापतिस्स वै नाम द्वितीयः पिंगलापतिः ।।
द्वादशस्स नृणां राशेः क्रूरदृष्टिः शनैश्चरः ।।
तस्य शान्तिकरो ज्येष्ठो भविष्यति महीतले ।। ४५ ।।
द्वितीयश्च नृणां राशेः सावर्णिर्भ्रमकारकः ।।
तस्य शान्तिकरो भूमौ भविता पिंगलापतिः ।। ४६।।
जन्मराशिस्थिता देवी तपती ता पकारिणी ।।
इडा च पिंगला तस्याः शान्तिकर्त्र्यौ भविष्यतः ।। ४७ ।।
इति श्रुत्वा वचस्तस्य सुरवैद्यौ बभूवतुः ।।
सावर्णिश्च शनी राहुः केतुः स्वर्गप्रतापनः ।।
तेषां तु परिहारार्थौ दस्रौ चाश्विनिसंभवौ ।। ४८ ।।
सूत उवाच ।।
इति श्रुत्वा गुरोर्वाक्यं प्रसन्नौ सुरसत्तमौ ।।
स्वांशान्महीतले जातौ शूद्रयोन्यां रवेस्तुतौ ।। ४९ ।।
चाण्डालस्य गृहे जातश्छागहंतुरिडापतिः ।।
सधनो नाम विख्यातः पितृमातृपरायणः ।। 3.4.18.५० ।।
शालिग्रामशिलातुल्यं छागमांसं विचिक्रिये ।।
कबीरं समुपागम्य शिष्यो भूत्वा रराज वै।। ५१ ।।
स तु सत्यनिधिः पूर्वं ब्रह्मणस्तप आस्थितः।।
भयभीतां च गां तत्र चाण्डालाय ह्यदर्शयत् ।।
राजगेहे करस्तस्मात्सधनस्य लयं गतः ।। ५२ ।।
चर्मकारगृहे जातो द्वितीयः पिंगलापतिः ।।
मानदा सस्य तनयो रैदास इति विश्रुतः ।। ५३ ।।
पुरीं काशीं समागम्य कबीरं रामतत्परम् ।।
जित्वा मतविवादेन शंकराचार्यमागतः ।।५४ ।।
तयोर्विवादो सभवदहोरात्रं मतान्तरे ।।
पराजितस्स रैदासो नत्वा तं द्विजसत्तमम् ।।
रामानन्दमुपागम्य तस्य शिष्यत्वमागतः ।। ५५ ।।
इति ते कथितं विप्र सुरांशाश्च यथाभवन् ।।
कलिशुद्धिकरी लीला तेषां मार्गप्रदर्शिनाम् ।। ५६ ।।

इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखंडापरपर्याये कलियुगीयेतिहाससमुच्चये अश्विनीकुमारावतारे सधनरैदाससमुत्पत्तिवर्णनं नामाऽष्टादशोऽध्यायः ।। १८ ।।