भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३/अध्यायः ०२
← अध्यायः ०१ | भविष्यपुराणम् /पर्व ३ (प्रतिसर्गपर्व)/खण्डः ३ अध्यायः ०२ अज्ञातलेखकः |
अध्यायः ०३ → |
।। सूत उवाच ।। ।।
प्रातः काले च संप्राप्ते पांडवाः पुत्रशोकिनः ।।
प्रेतकार्याणि ते कृत्वा भीष्मान्तिकमुपाययुः ।। १ ।।
राजधर्मान्मोक्षधर्मान्दानधर्मान्विभागशः ।।
श्रुत्वायजन्नश्वमेधैस्त्रिभिरुत्तमकर्मभिः ।।२।।
षट्त्रिंशदब्दराज्यं हि कृत्वा स्वर्गपुरं ययुः ।।
जनिष्यन्ते तदंशा वै कलिधर्म विवृद्धये ।। ३ ।।
।। व्यास उवाच ।। ।।
इत्युक्त्वा स मुनिः सर्वान्पुनः सूतो वदिष्यति ।।
गच्छध्वं मुनयः सर्वे योगनिद्रावशो ह्यहम् ।।
चक्रतीर्थे समाधिस्थो ध्यायेऽहं त्रिगुणात्परम् ।। ४ ।।
इति श्रुत्वा तु मुनयो नैमिषारण्यवासिनः ।।
योगसिद्धिं समास्थाय गमिष्यंत्यात्मनोन्तिके ।। ५ ।।
द्वादशाब्दशते कालेऽतीते ते शौनकादयः ।। ६ ।।
उत्थाय देवखाते च स्नानध्यानादिकाः क्रियाः ।।
कृत्वा सूतान्तिकं गत्वा वदिष्यंति पुनर्वचः ।। ७ ।।
।। ऋषय ऊचुः ।। ।।
विक्रमाख्यानकालोऽयं द्वापरे च शिवाज्ञया ।।
विनीतान्भगवन्भूमौ तदा तान्नृपतीन्वद ।। ८ ।। ।।
।। सूत उवाच ।। ।।
स्वर्गते विक्रमादित्ये राजानो बहुधाऽभवन् ।।
तथाष्टादश राज्यानि तेषां नामानि मे शृणु ।। ९ ।।
पश्चिमे सिंधुनद्यंते सेतुबन्धे हि दक्षिणे ।।
उत्तरे बदरीस्थाने पूर्वे च कपिलान्तिके ।।3.3.2.१ ०।।
अष्टादशैव राष्ट्राणि तेषां मध्ये बभूविरे ।।
इंद्रप्रस्थं च पांचालं कुरु क्षेत्रं च कापिलम् ।। ११ ।।
अन्तर्वेदी व्रजथ्यैवाजमेरं मरुधन्व च ।।
गौर्ज्जरं च महाराष्ट्रं द्राविडं च कलिंगकम् ।। १२ ।।
आवंत्यं चोडुपं वंगं गौडं मागधमेव च ।।
कौशल्यं च तथा ज्ञेयं तेषां राजा पृथक्पृक् ।। १३ ।।
नानाभाषाः स्थितास्तत्र बहुधर्मप्रवर्तकाः ।।
एवमब्दशतं जातं ततस्ते वै शकादयः ।।१४।।
श्रुत्वा धर्मविनाशं च बहुवृंदैः समन्विताः ।।
केचित्तीर्त्वा सिंधुनदीमार्य्यदेशं समागताः ।। १५ ।।
हिमपर्वतमार्गेण सिंधुमार्गेण चागमन् ।।
जित्वार्य्याल्लाँठयित्वा तान्स्वदेशं पुनराययुः ।। १६ ।।
गृहीत्वा योषितस्तेषां परं हर्षमुपाययुः ।।
एतस्मिन्नन्तरे तत्र शालिवाहनभूपतिः ।। १७ ।।
विक्रमादित्यपौत्रश्च पितृराज्यं गृहीतवान् ।।
जित्वा शकान्दुराधर्षांश्चीनतैत्तिरिदेशजान् ।। १८ ।।
बाह्लीकान्कामरूपांश्च रोमजान्खुरजा च्छठान् ।।
तेषां कोशान्गृहीत्वा च दंडयोग्यानकारयत् ।। १९ ।।
स्थापिता तेन मर्य्यादा म्लेच्छार्याणां पृथक्पृथक् ।।
सिंधुस्थानमिति ज्ञेयं राष्ट्र मार्य्यस्य चोत्तमम् ।।3.3.2.२०।।
म्लेच्छस्थानं परं सिन्धोः कृतं तेन महात्मना ।।
एकदा तु शकाधीशो हिमतुंगं समाययौ ।। २१ ।।
हूणदेशस्य मध्ये वै गिरिस्थं पुरुषं शुभम् ।।
ददर्श बलवान्राजा गौरांगं श्वेतवस्त्रकम् ।। २२ ।।
को भवानिति तं प्राह स होवाच मुदान्वितः ।।
ईशपुत्रं च मां विद्धि कुमारीगर्भसंभवम् ।। २३ ।।
म्लेच्छधर्मस्य वक्तारं सत्यव्रतपरायणम् ।।
इति श्रुत्वा नृपः प्राह धर्मः को भवतो मतः ।। २४ ।।
श्रुत्वोवाच महाराज प्राप्ते सत्यस्य संक्षये ।।
निर्मर्यादे म्लेच्छदेशे मसीहोऽहं समागतः ।। २५ ।।
ईशामसी च दस्यूनां प्रादुर्भूता भयंकरी ।।
तामहं म्लेच्छतः प्राप्य मसीहत्वमुपागतः ।। २६ ।।
म्लेच्छेषु स्थापितो धर्मो मया तच्छृणु भूपते ।।
मानसं निर्मलं कृत्वा मलं देहे शुभाशुभम् ।।२७।
नैगमं जपमास्थाय जपेत निर्मलं परम्।।
न्यायेन सत्यवचसा मनसैक्येन मानवः ।। २८ ।।
ध्यानेन पूजयेदीशं सूर्यमंडलसंस्थितम् ।
अचलोऽयं प्रभुः साक्षात्तथा सूर्योचलः सदा ।। २९ ।।
तत्त्वानां चलभूतानां कर्षणः स समंततः ।।
इति कृत्येन भूपाल मसीहा विलयं गता ।। 3.3.2.३० ।।
ईशमूर्तिर्हृदि प्राप्ता नित्यशुद्धा शिवंकरी ।।
ईशामसीह इति च मम नाम प्रतिष्ठितम् ।। ३१ ।।
इति श्रुत्वा स भूपालो नत्वा तं म्लेच्छपूजकम्।।
स्थापयामास त तत्र म्लेच्छस्थाने हि दारुणे ।। ३२ ।।
स्वराज्यं प्राप्तवान्राजा हयमेधमचीकरत् ।।
राज्यं कृत्वा स षष्ट्यब्दं स्वर्गलोकमुपाययौ।।
स्वर्गते नृपतौ तस्मिन्यथा चासीत्तथा शृणु ।। ३४ ।।
इति श्रीभविष्ये महापुराणे प्रतिसर्गपर्वणि चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्चये शालिवाहनकाले द्वितीयोऽध्यायः।।२।।