अथ तृतीयोऽध्यायः

गर्भाधानादारभ्य समासात्सर्वसंस्कारवर्णनमाचमनादिविधिवर्णनञ्च

शतानीक उवाच
जातकर्मादिसंस्कारान्वर्णानामनुपूर्वशः ।
आश्रमाणां च मे धर्मं कथयस्व द्विजोत्तम । । १
सुमन्तुरुवाच
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।
जातकर्मान्नप्राशश्च चूडामौञ्जीनिबन्धनम् । । २
बैजिकं गार्भिकं चैनो द्विजानामपमृज्यते ।
स्वाध्यायेन व्रतैर्होमैस्त्रैविद्येनेज्यया श्रुतैः । । ३
महायज्ञैश्च ब्राह्मीयं यज्ञैश्च क्रियते तनुः ।
शृणुष्वैकमना राजन्यथा सा क्रियते तनुः । । ४
प्राङ्नाभिकर्तनात्पुंसो जातकर्म विधीयते ।
मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम् । । ५
नामधेयं दशम्यां तु केचिदिच्छन्ति पार्थिव ।
द्वादश्यामपरे राजन्मासि पूर्णे तथा परे । । ६
अष्टादशेऽहनि तथाऽन्ये वदन्ति मनीषिणः ।
पुण्ये तिथौ मुहूर्ते च नक्षत्रे च गुणान्विते । । ७
मङ्गल्यं तात विप्रस्य शिवशर्मेति पार्थिव ।
राजन्यस्य विशिष्टं १ तु इन्दुवर्मेति कथ्यते २ । ।। ८ ।।
वैश्यस्य धनसंयुक्तं शूद्रस्य च जुगुप्सितम् ।
धनवर्धनेति वैश्यस्य सर्वदासेति हीनजे । । ९
मनुना च तथा प्रोक्तं नाम्नो लक्षणमुत्तमम् ।
शर्मवद्ब्राह्मणस्य स्याद्राज्ञो रक्षासमन्वितम् । । 1.3.१०
वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रेष्यसंयुतम् ।
स्त्रीणां सुखोद्यमक्रूरं विस्पष्टार्थमनोरमम् । । ११
मङ्गल्यं दीर्घवर्णान्तमाशीर्वादाभिधानवत् ।
द्वादशेऽहनि राजेन्द्र शिशोर्निष्कमणं गृहात् । । १२
चतुर्थे मासि कर्त्तव्यं तथान्येषां मतं विभो ।
षष्ठेऽन्नप्राशनं मासि यथेष्टं मङ्गलं कुले । । १३
चूडाकर्म द्विजातीनां सर्वेषामनुपूर्वशः ।
प्रथमेऽब्दे तृतीये वा कर्तव्यं कुरुनन्दन । । १४
गर्भाष्टमेऽब्दे कुर्वीत ब्राह्मणस्योपनायनम् ।
गर्भादेकादशे राजन्क्षत्रियस्य विनिर्दिशेत् । । १५
द्वादशेऽब्देऽपि गर्भात्तु वैश्यस्य व्रतमादिशेत् ।
ब्रह्मवर्चसकामेन कार्यं विप्रस्य पञ्चमे । । १६
बलार्थिना तथा राज्ञः षष्ठे ऽब्दे कार्यमेव हि ।
अर्थकामेन वैश्यस्य अष्टमे कुरुनन्दन । । १७
आषोडशाद्ब्राह्मणस्य सावित्री नातिवर्तते ।
द्वाविंशतेः क्षत्रबन्धोराचतुर्विंशतेर्विशः । । १८
अत ऊर्ध्वं तु ये राजन्यथाकालमसंस्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते ३ क्रतोः । । १९
न चाप्येभिरपूतैस्तु आपद्यपि हि कर्हिचित् ।
ब्राह्मं यौनं च सम्बन्धमाचरेद्ब्राह्मणैः सह । । 1.3.२०
भवन्ति राजंश्चर्माणि व्रतिनां त्रिविधानि च ।
कार्ष्णरौरववास्तानि ब्रह्मक्षत्रविशां नृप । । २१
वशीरंश्चानुपूर्व्येण वस्त्राणि विविधानि तु ।
ब्रह्मक्षत्रविशो राजञ्छाणक्षौमादिकानि च । । २२
मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला ।
क्षत्रियस्य च मौर्वीज्या वैश्यस्य शणतान्तवी । । २३
मुञ्जालाभे तु कर्तव्या कुशाश्मन्तकबल्वजैः ।
त्रिवृत्ता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव च । । २४
कार्पासमुपवीतं स्याद्विप्रस्योर्ध्ववृतं त्रिवृत् ।
शणसूत्रमयं राज्ञो वैश्यस्याविकसौत्रिकम् । । २५
पुष्कराणि तथा चैषां भवन्ति त्रिविधानि तु ।
ब्रह्मणो बैल्वपालाशौ तृतीयं प्लक्षजं नृप । । २६
वाटखादिरौ क्षत्रियस्तु तथान्यं वेतसोद्भवम् ।
पैलवोदुम्बरौ वैश्यस्तथाश्वत्थजमेव हि । । २७
दण्डानेतान्महाबाहो धर्मतोऽर्हन्ति धारितुम् ।
केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । । २८
ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ।
ऋजवस्ते तू सर्वे स्युर्ब्राह्मणाः सौम्यदर्शनाः । । २९
अनुद्वेगकरा नॄणां सत्वचो नाग्निदूषिताः ।
प्रगृह्य चेप्सितं दण्डमुपस्थाय च भास्करम् । । 1.3.३०
सम्यग्गुरुं तथा पूज्य चरेद्भैक्ष्यं यथाविधि ।
भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः । । ३१
भवन्मध्यं तु राजन्यो वैश्यस्य भवदुत्तरम् ।
मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । । ३२
भिक्षेत भैक्ष्यं प्रथमं या चैनं नावमानयेत् ।
सुवर्णं रजतं चान्नं सा पात्रेऽस्य विनिर्दिशेत् । । ३३
समाहृत्य ततो भैक्ष्यं यावदर्थममायया ।
निवेद्य गुरवेऽश्नीयादाचम्य प्राङ्मुखः शुचिः । । ३४
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं १ भुङ्क्ते उदङ्मुखः । । ३५
उपस्पृश्य द्विजो राजन्नन्नमद्यात्समाहितः ।
भुक्त्वा चोपस्पृशेत्सम्यगद्भिः खानि च संस्पृशेत् । । ३६
तथान्नं पूजयेन्नित्यमद्याच्चैतदकुत्सयन् ।
दर्शनात्तस्य हष्येद्वै प्रसीदेच्चापि भारत। । ३७
अभिनन्द्य ततोऽश्नीयादित्येवं मनुरब्रवीत् ।
पूजितं त्वशनं नित्यं बलमोजश्च यच्छति। । ३८
अपूजितं तु तद्भुक्तमुभयं नाशयेदिदम् ६।
नोच्छिष्टं कस्यचिद्दद्यान्नाद्याच्चैतत्तथान्तरा । । ३९
यस्त्वन्नमन्तरा कृत्वा लोभादत्ति नृपोत्तम ।
विनाशं याति स नर इह लोके परत्र च । ।
यथाभवत्पुरा वैश्यो धनवर्द्धनसंज्ञितः । । 1.3.४०
शतानीक उवाच
स कथमन्तरं पूर्वमन्नस्य द्विजसत्तम ।
किमन्तरं तथान्नस्य कथं वा तत्कृतं भवेत् । । ४१
सुमन्तुरुवाच
पुरा कृतयुगे राजन्वैश्यो वसति पुष्करे ।
धनवर्धननामा वै समृद्धौ धनधान्यतः । । ४२
निदाघकाले राजेन्द्र स कृत्वा वैश्वदेविकम् ।
सपुत्रभ्रातृभिः सार्धं तथा वै मित्रबन्धुभिः । ।
आहारं कुरुते राजन्भक्ष्यभोज्यसमन्वितम् १ । । ४३
अथ तद्भुञ्जतस्तस्य २ अन्नं शब्दो महानभूत् ।
करुणः कुरुशार्दूल अथ तं स प्रधावितः । । ४४
त्यक्त्वा स भोजनं यावन्निष्क्रान्तो गृहबाह्यतः ।
अथ शब्दस्तिरोभूतः स भूयो गृहमागतः । । ४५
तमेव भाजनं गृह्य ३ आहारं कृतवान्नृप ।
भुक्तशेषं महाबाहो आहारं स तु भुक्तवान् । । ४६
भुक्त्वा स शतधा जातस्तस्मिन्नेव क्षणे नृप ।
तस्मादन्नं न राजेन्द्र अश्नीयादन्तरा क्वचित् । । ४७
न चैवात्यशनं कुर्यान्न चोच्छिष्टः क्वचिद्व्रजेत् ।
रसो भवत्यत्यशनाद्रसाद्रोगः प्रवर्तते । । ४८
स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ।
न भवन्ति रसे जाते नराणां भरतर्षभ । । ४९
अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् । । 1.3.५०
यक्षभूतपिशाचानां रक्षसां च नृपोत्तम ।
४गम्यो भवति वै विप्र उच्छिष्टो नात्र संशयः । । ५१
शुचित्वमाश्रयेत्तस्माच्छुचित्वान्मोदते दिति? ।
सुखेन चेह रमते इतीयं वैदिकी श्रुतिः । । ५२
शतानीक उवाच
शुचितामियात्कथं विप्रः कथं चाशुचितामियात् ।
एतन्मे इहि विप्रेन्द्र कौतुकं परमं मम । । ५३
सुमन्तुरुवाच
उपस्पृश्य शुचिर्विप्रो भवते भरतर्षभ ।
विधिवत्कुरुशार्दूल भवेद्विधिपरो ह्यतः । । ५४
शतानीक उवाच
उपस्पर्शविधिं विप्र कथय त्वं ममाखिलम् ।
शुचित्वमाप्नुयाद्येन आचान्तो ब्राह्मणो द्विजः । । ५५
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र शृणु विप्रो यथा भवेत् ।
शुचिर्भरतशार्दूल विधिना येन वा विभो । । ५६
प्रक्षाल्य हस्तौ पादौ च प्राङ्मुखोदङ्मुखोऽपि वा ।
उपविश्य शुचौ देशे बाहुं कृत्वा च दक्षिणम् । । ५७
जान्वन्तरे महाबाहो ब्रह्मसूत्रसमन्वितः १ ।
सुसमौ चरणौ कृत्वा तथा बद्धशिखो नृप । । ५८
न तिष्ठन्न च संजल्पंस्तथा चानवलोकयन् ।
न त्वरन्कुपितो वापि त्यक्त्वा राजन्सुदूरतः । । ५९
प्रसन्नाभिस्तथाद्भिस्तु आचान्तः शुचितामियात् ।
नोष्णाभिर्न सफेनाभिर्युक्ताभिः कलुषेण च । । 1.3.६०
वर्णेन रसगन्धाभ्यां हीनाभिर्न च भारत ।
सबुद्बुदाभिश्च तथा नाचामेत्पण्डितो नृप । । ६१
पञ्चतीर्थानि विप्रस्य श्रूयन्ते दक्षिणे करे ।
देवतीर्थं पितृतीर्थं ब्रह्मतीर्थं च मानद । । ६२
प्राजापत्यं तथा चान्यत्तथान्यत्सौम्यमुच्यते ।
अङ्गुष्ठमूलोत्तरतो येयं रेखा महीपते । । ६३
ब्राह्मं तीर्थं वदन्त्येतद्वसिष्ठाद्या द्विजोत्तमाः ।
कायं कनिष्ठिकामूले अङ्गुल्यग्रे तु दैवतम् । । ६४
तर्जन्यङ्गुष्ठयोरन्तः पित्र्यं तीर्थमुदाहृतम् ।
करमध्ये स्थितं सौम्यं प्रशस्तं देवकर्मणि । । ६५
देवार्चाबलिहरणं प्रविक्षपणमेव च ।
एतानि देवतीर्थेन कुर्यात्कुरुकुलोद्वह । । ६६
अन्ननिर्वपणं राजंस्तथा सपवनं १ नृप ।
लाजाहोमं तथा सौम्यं प्राजापत्येन कारयेत् । । ६७
कमण्डलूपस्पर्शनं दधिप्राशनमेव च ।
सौम्यतीर्थेन राजेन्द्र सदा कुर्याद्विचक्षणः । । ६८
पितॄणां तर्पणं कार्यं पितृतीर्थेन धीमता ।
ब्राह्मेण चापि तीर्थेन सदोषस्पर्शनं परम् । । ६९
२घनाङ्गुलिकरं कृत्वा एकाग्रः सुमना द्विजः ।
त्रिः कृत्वा यः पिबेदापो मुखशब्दविवर्जितः । । 1.3.७०
शृणु यत्फलमाप्नोति प्रीणाति च यथा सुरान् ।
प्रथमं यत्पिबेदाप ऋग्वेदस्तेन तृप्यति । । ७१
यद्द्वितीयं यजुर्वेदस्तेन प्रीणाति भारत ।
यत्तृतीयं सामवेदस्तेन प्रीणाति भारत । । ७२
प्रथमं यन्मृजेदास्यं दक्षिणाङ्गुष्ठमूलतः ।
अथर्ववेदः प्रीणाति तेन राजन्नसंशयः । । ७३
इतिहासपुराणानि यद्द्वितीयं प्रमार्जति ।
यन्मूर्धानं हि राजेन्द्र अभिषिञ्चति वै द्विजः । । ७४
तेन प्रीणाति वै रुद्रं शिखामालभ्य वै ऋषीन् ।
यदक्षिणी चालभते रविः प्रीणाति तेन वै । । ७५
नासिकालम्भनाद्वायुं प्रीणात्येव न संशयः ।
यच्छ्रोत्रमालभेद्विप्रो दिशः प्रीणाति तेन वै । । ७६
यमं कुबेरं वरुणं वासवं चाग्निमेव च ।
यद्बाहुमन्वालभते एतान्प्रीणाति तेन १ वै । । ७७
यन्नाभिमन्वालभते प्राणानां ग्रन्थिमेव च ।
तेन प्रीणाति राजेन्द्र इतीयं वैदिकी श्रुतिः । । ७८
अभिषिञ्चति यत्पादौ विष्णुं प्रीणाति तेन वै ।
यद्भूम्याच्छादकं वारि विसर्जयति मानद । । ७९
वासुकिप्रमुखान्नागांस्तेन प्रीणाति भारत ।
यद्बिन्दवोऽन्तरे भूमौ पतन्तीह नराधिप । । 1.3.८०
भूतग्रामं ततस्तस्तु प्रीणन्तीह चतुर्विधम् ।
अङ्गुष्ठेन प्रदेशिन्या लभेत चाक्षिणी नृप । । ८१
अनामिकाङ्गुष्ठिकाभ्यां नासिकामालभेन्नृप ।
मध्यमाङ्गुष्ठाभ्यां मुखं संस्पृशेद्भरतर्षभ । । ८२
कनिष्ठिकाङ्गुष्ठकाभ्यां कर्णमालभते नृप ।
अङ्गुलीभिस्तथा बाहुमङ्गुष्ठेन तु मङ्गलम् । । ८३
नाभिं कुरुकुलश्रेष्ठ शिरः सर्वाभिरेव च ।
अङ्गुष्ठोग्निर्महाबाहो प्रोक्तो वायुः प्रदेशिनी । । ८४
अनामिका तथा सूर्यः कनिष्ठा माघवा विभो ।
प्रजापतिर्मध्यमा ज्ञेया तस्माद्भरतसत्तम । । ८५
एवमाचम्य विप्रस्तु प्रीणाति सततं जगत् ।
सर्वाश्च देवतास्तात लोकांश्चापि न संशयः । । ८६
तस्मात्पूज्यः सदा विप्रः सर्वदेवमयो हि सः ।
ब्राह्मेण विप्रतीर्थेन नित्यकालमुपस्पृशेत् । । ८७
कायत्रैदेशिकाभ्यां वा न पित्र्येण कदाचन ।
हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः । । ८८
वैश्योद्भिः प्राशिताभिस्तु शूद्रः स्पृष्टाभिरन्ततः ।
उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधः । । ८९
सव्येन प्राचीनावीती निवीती कण्ठसंज्ञिते ।
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । । 1.3.९०
अस्तु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवित् ।
उपवीत्याचमेन्नित्यमन्तर्जानु महीपते । । ९१
एवं तु विप्रो ह्याचान्तः शुचितां याति भारत ।
यास्त्वेताः करमध्ये तु रेखा विप्रस्य भारत । । ९२
गङ्गाद्याः सरितः सर्वा ज्ञेया भारतसत्तम ।
यान्यङ्गुलिषु पर्वाणि गिरयस्तानि विद्धि वै । । ९३
सर्वदेवमयो राजन्करो विप्रस्य दक्षिणः ।
हस्तोपस्पर्शनविधिस्तवाख्यातो महीपते । । ९४
एषु सर्वेषु लोकेषु येनाचान्तो दिवं व्रजेत् । । ९५

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वण्युपस्पर्शनविधिवर्णनं नाम तृतीयोऽध्यायः । ३ ।