भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ००७
विवाह-धर्मवर्णनम्
ब्रह्मोवाच३
असपिण्डा च या मातुरसगोत्रा च या पितुः ।
सा प्रशस्ता द्विजातीनां दारकर्मणि मैथुने । । १
सहजो न भवेद्यस्या न च विज्ञायते पिता ।
नोपयच्छेत तां प्राज्ञः पुत्रिकाधर्मशङ्कया । । २
ब्राह्मणानां प्रशस्ता स्यात्सवर्णा दारकर्मणि ।
कामशस्तु प्रवृत्तानामिमाः स्युः क्रमशोऽवराः । । ३
क्षत्रस्यापि सवर्णा स्यात्प्रथमा द्विजसत्तमाः ।
द्वे चावरे तथा प्रोक्ते कामतस्तु न धर्मतः । ।४
वैश्यस्यैका वरा प्रोक्ता सवर्णा चैव धर्मतः ।
तथावरा कामतस्तु द्वितीया न तु धर्मतः । । ५
शूद्रैव भार्या शूद्रस्य धर्मतो मनुरब्रवीत् ।
चतुर्णामपि वर्णानां परिणेता द्विजोत्तमः । । ६
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।
कस्मिंश्चिदपि वृतान्ते शूद्रा भार्योपदिश्यते । । ७
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।
कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् । । ८
शूद्रमारोप्य वेद्यां तु पतितोत्रिर्बभूव ह ।
उतथ्यः पुत्रजननात्पतितत्वमवाप्तवान् । । ९
शूद्रस्य पुत्रमासाद्य शौनकः शूद्रतां गतः ।
भृग्वादयोप्येवमेव पतितत्वमवाप्नुयुः । । 1.7.१०
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम् ।
जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते । । ११
देवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।
नादन्ति पितरो देवाः स च स्वर्गं न गच्छति । । १२
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।
तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते । । १३
चतुर्णामपि विप्रेन्द्राः प्रेत्येह च हिताहितम् ।
समासतो ब्रवीम्येष विवाहाष्टकमुत्तमम् । । १४
कालो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः ।
गान्धर्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः । । १५
ये यस्य धर्मा वर्णस्य गुणदोषौ च यस्य यौ ।
शृणुध्वं तद्द्विजश्रेष्ठाः प्रसवे च गुणागुणम् । । १६
विप्रस्य १ चतुरः पूर्वान्क्षत्रस्य चतुरोऽवरान् ।
विट्शूद्रयोस्तु त्रीनेव विद्याद्धर्मानराक्षसान् । । १७
चतुरो ब्राह्मणस्याद्यान्प्रशस्तान्कवयो विदुः ।
राक्षसं क्षत्रियस्यैकमासुरं वैश्यशूद्रयोः । । १८
क्षत्रियाणां त्रयो धर्म्या द्वावधर्म्यौ२ स्मृताविह ।
पैशाचश्चासुरश्चैव न कर्त्तव्यौ कथञ्चन । । १९
पृथक्पृथग्वा मिश्रौ वा विवाहौ पूर्वचोदितौ ।
गान्धर्वो राक्षसश्चैव धर्म्यौ क्षत्रस्य तौ स्मृतौ । । 1.7.२०
आच्छाद्य चार्चयित्वा तु श्रुतशीलवते स्वयम् ।
आहूय दानं कन्याया बाह्यो धर्मः प्रकीर्तितः । । २१
वितते चापि यज्ञे तु कर्म कुर्वति चार्त्विजि ।
अलङ्कृत्य सुतादानं दैवो धर्म उदाहृतः । । २२
एकं गोमिथुनं द्वे वा वरादादाय धर्मतः ।
कन्याप्रदानं विधिवदार्षीयो धर्म उच्यते । । २३
सहोभौ चरतं धर्ममिति वाचानुभाष्य तु ।
कन्याप्रदानमभ्यर्च प्राजापत्यविधिः स्मृतः । । २४
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायाश्चैव शक्तितः ।
कन्याप्रदानं स्वच्छन्दादासुरो धर्म उच्यते । । २५
इच्छयान्योऽन्यसंयोगः कन्यायाश्च वरस्य च ।
गान्धर्वः स विधिर्ज्ञेयो मैथुन्यः कामसम्भवः । । २६
हत्वा छित्त्वा च भित्त्वा च क्रोशन्तीं रुदतीं गृहात् ।
प्रसह्य कन्याहरणं राक्षसो विधिरुच्यते । । २७
सुप्तां मत्तां प्रमत्तां च रहो यत्रोपगच्छति ।
स पापिष्ठो विवाहानां पैशाचः कथितोऽष्टमः । । २८
जलपूर्वं द्विजाग्र्याणां कन्यादानं प्रशस्यते ।
इतरेषां तु वर्णानामितरेतरकाम्यया । । २९
यो यस्यैषां विवाहानां विभूनां कीर्तितो गुणः ।
तं निबोधत वै विप्राः सम्यक्तकीर्तयतो मम । । 1.7.३०
कुलानि दश पूर्वाणि तथान्यानि दशैव तु ।
स हि तान्यात्मना चैवं मोचयत्येनसो ध्रुवम् । । ३१
ब्राह्मीपुत्रः सुकृतकृद्दैवोढाजं सुतं शृणु ।
दैवोढाजः सुतो विप्राः सप्त सप्त परावरान् । ।
आर्षोढाजः सुतः स्त्रीणां पुरुषांस्तारयेद्द्विजाः । । ३२
ब्रह्मादिषु विवाहेषु चतुर्ष्वेवानुपूर्वशः ।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसम्मताः । । ३३
रूपसत्त्वगुणोपेता धनवन्तो यशस्विनः ।
पुत्रवन्तोऽथ धर्मिष्ठा जीवन्ति च शतं समाः । । ३४
इतरेषु निबोधध्वं नृशंसानृतवादिनः ।
जायन्ते दुर्विवाहेषु ब्रह्मधर्मद्विषः १ सुताः । । ३५
अनिन्दितैः स्त्रीविवाहैरनिन्द्या भवति प्रजा ।
निन्दितैर्निंदिता नृणां तस्मान्निद्यान्विवर्जयेत् । । ३६
करग्रहणसंस्काराः सवर्णासु भवन्ति वै ।
असवर्णास्वयं ज्ञेया विधिरुद्वाहकर्मणि । । ३७
बाणः क्षत्रियया ग्राह्यः प्रतोदो वैश्यकन्यया ।
वसनस्य दशा ग्राह्या शूद्रयोत्कृष्टवेदने । । ३८
न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि ।
गृह्णन्हि शुल्कं लोभेन स्यान्नरोऽपत्यविक्रयी । । ३९
स्त्रीधनानि तु ये मोहादुपजीवन्ति बान्धवाः ।
नारीयानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् । । 1.7.४०
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव १ तत् ।
अल्पो वापि महान्वापि विक्रयस्तावदेव सः । । ४१
यासां नाददते शुल्कं ज्ञातयो न स विक्रयः ।
अर्हणं तत्कुमारीणामानृशंस्यं च केवलम् । । ४२
इत्थं दारान्समासाद्य देशमग्र्यं समावसेत् ।
ब्राह्मणो द्विजशार्दूल य इच्छेद्विपुलं यशः । । ४३
ऋषय ऊचुः
को देशः परमो ब्रह्मन्कश्च पुण्यो मतस्तव ।
प्रवसन्यत्र विप्रेन्द्र यशः प्राप्नोति कञ्जज । । ४४
ब्रह्मोवाच
न हीयते यत्र धर्मश्चतुष्पात्स कलो द्विजाः ।
स देशः परमो विप्राः स च पुण्यो मतो मम । । ४५
विद्वद्भिः सेवितो धर्मो यस्मिन्देशे प्रवर्तते ।
शास्त्रोक्तश्चापि विप्रेन्द्राः स देशः परमो मतः । । ४६
ऋषय ऊचू
विद्वद्भिः सेवितं धर्मं शास्त्रोक्तं च सुरोत्तम ।
वदास्मासु सुरश्रेष्ठ कौतुकं परमं हि नः । । ४७
ब्रह्मोवाच
विद्वद्भिः सेवितः सद्भिर्नित्यमद्वेषरागिभिः ।
हृदयेनाभ्यनुज्ञातो यो धर्मस्तं निबोधत । । ४८
कामात्मता न प्रशस्ता न वेहास्याप्यकामता ।
काम्यो हि वेदाधिगमः कर्मयोगश्च वैदिकः । । ४९
सङ्कल्पाज्जायते कामो यज्ञाद्यानि च सर्वशः ।
व्रताः नियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः । । 1.7.५०
कामादृते क्रियाकारी दृश्यते नेह कर्हिचित् ।
यद्यद्धि कुरुते कश्चित्तत्तत्कामस्य चेष्टितम् । । ५१
निगमो १ धर्ममूलं स्यात्स्मृतिशीले तथैव च ।
तथाचारश्च साधूनामात्मनस्तुष्टिरेव च । । ५२
सर्वं तु समवेक्षेत निश्चयं ज्ञानचक्षुषा ।
श्रुतिप्राधान्यतो विद्वान्स्वधर्मे निवसेत वै । । ५३
श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन्सदा नरः ।
प्राप्य चेह परां कीर्तिं याति शक्रसलोकताम् । । ५४
श्रुतिस्तु वेदो ४ विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ।
ते सर्वार्थेषु मीमांस्ये ताभ्यां धर्मो हि निर्बभौ । । ५५
योऽवमन्येत ते चोभे हेतुशास्त्राश्रयाद्द्विजः ।
स साधुभिर्बहिष्कार्यो नास्तिको वेदनिन्दकः । । ५६
वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
एतच्चतुर्विधं विप्राः साक्षाद्धर्मस्य लक्षणम् । । ५७
धर्मज्ञानं भवेद्विप्रा अर्थकामेष्वसज्जताम् ।
धर्मं जिज्ञासमानानां प्रमाणान्नैगमं परम् । । ५८
निषेकादिश्मशानान्तो मन्त्रैर्यस्योदितो विधिः ।
अधिकारो भवेत्तस्य वेदेषु च जपेषु च । । ५९
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् १ ।
तदेव निर्मितं देशं ब्रह्मावर्तं प्रचक्षते । । 1.7.६०
यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः ।
वर्णानां सान्तरालानां स सदाचार उच्यते । । ६१
कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनयः ।
एष ब्रह्मर्षिदेशो वै ब्रह्मावर्तादनन्तरम् । । ६२
एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।
स्वं स्वं चरित्रं शिक्षन्ति पृथिव्यां सर्वमानवाः । । ६३
हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः । । ६४
आ समुद्रात्तु वै पूर्वादासमुद्रात्तु पश्चिमात् ।
तयोरेवान्तरं गिर्योरार्यावर्त्तं विदुर्बुधाः । । ६५
अटते यत्र कृष्णा गौर्मृगो नित्यं स्वभावतः ।
स ज्ञेयो याज्ञिको देशो म्लेच्छदेशस्त्वतः परः । । ६६
एतान्नित्यं शुभान्देशान्संश्रयेत द्विजोत्तमः ।
यस्मिन्कस्मिंश्च निवसेत्पादजो२ वृत्तिकर्शितः । । ६७
प्रकीर्तितेयं धर्मस्य बुधैर्योनिर्द्विजोत्तमाः ।
सम्भवश्चास्य सर्वस्य समासान्न तु विस्तरात् । । ६८
इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मवर्णनं नाम सप्तमोऽध्यायः । ७ ।