विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनम्

ब्रह्मोवाच
कर्तव्यं यद्गृहस्थेन तदिदानीं निबोधत ।
गदतो द्विजशार्दूल विस्तराच्छास्त्रतस्तथा । । १
वैवाहिकेऽग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
शुभदेशाश्रयश्चैव पत्नी वैवाहिकी गृहे । । २
स्वाश्रयेण विना शक्यं न यस्माद्रक्षणादिकम् ।
वित्तानामिव दाराणामतस्तद्विधिरुच्यते । । ३
हेतवो हि त्रिवर्गस्य विपरीतास्तु१ मानद ।
अरक्षणाद्भवन्त्यस्मादमीषां रक्षणं मतम् । । ४
निसर्गात्पुंस्यसन्तोषाद्गुणदोषविमर्षतः ।
दुष्टानां चापि संसर्गाद्रक्ष्या एव च योषितः । । ५
पुरुषस्थानवेश्मानि त्रिविधं प्राहुराश्रयम् ।
वित्तानां रक्षणाद्यर्थमपूर्वाधिगमाय च । । ६
कुलीनो नीतिमान्प्राज्ञः सत्यसन्धो दृढव्रतः ।
विनीतो धार्मिकस्त्यागी२ विज्ञेयः पुरुषाश्रयः । । ७
नगरे खर्वटे खेटे ग्रामे चापि क्रमागते ।
यात्रावशाद्वा निवसेद्धार्मिकाद्यजनान्विते । । ८
गुरुणानुमतस्तत्र ग्रामण्यादिजनेन वा ।
प्रतिवेश्माद्यबाधेन शुद्धं कुर्यान्निवेशनम् । । ९
द्वारचत्वरशालानां १ सर्वकारुकवेश्मनाम् ।
द्यूतसूनासुरावेशनटराजानुजीविनाम् । । 1.8.१०
पाखण्डदेववीथीनां राजमार्गकुलस्य च ।
दूरात्सुगुप्तं कर्तव्या जीविका विभवोचिता । । ११
सापिधानैकनिष्काशं शुद्धपृष्टं समन्ततः ।
सद्वृत्ताप्तजनाकीर्णमदुष्टप्रातिवेशिकम् । । १२
प्रागुदक्प्रवणे देशे वास्तुविद्याविधानतः ।
प्रविभक्तक्रियाकाञ्क्षं सर्वर्तुकमनोहरम् । । १३
अर्चास्नानोदकागारगोष्ठागारमहानसैः ।
युक्तं गोवाजिशालाभिः सदासीभृत्यकाश्रयैः । । १४
बहिरन्तः पुरस्त्रीकं सर्वोपकरणैर्युतम् ।
विभक्तशयनोद्देशमाप्तवृद्धैरधिष्ठितम् । । १५
अरक्षणाद्धि दाराणां वर्णसङ्करजादयः ।
दृष्टा हि बहवो दोषास्तस्माद्रक्ष्याः सदा स्त्रियः । । १६
न ह्यासां प्रमदं दद्यान्न स्वातन्त्र्यं न विश्वसेत् ।
विश्वस्तवच्च चेष्टेत न्याय्यं भर्त्सनमाचरेत् । । १७
नाधिकारं क्वचिद्दद्यादृते पाकादिकर्मणः ।
स्त्रीणां ग्रामीणवत्ता हि भोगायालं सुशासिता । । १८
नित्यं तत्कर्मयोगेन ताः कर्तव्या निरन्तराः ।
इत्येवं सर्वदा व्याप्तेः स्यादविद्यनिराश्रया । । १९
दौर्गत्यमतिरूपं१ चाप्यसत्सङ्गः स्वतन्त्रता ।
पानाशनकथागोष्ठीप्रियत्वाकर्मशीलता२ । । 1.8.२०
कुहकेक्षणिकामुण्डाभिक्षुकीसूतिकादिभिः ।
गोप्रसङ्गैस्तथा३ सद्भिर्लिङ्गियाचकशिल्पिभिः । । २१
संवाहोद्यानयात्रासूद्यानेष्वामन्त्रणादिषु ।
प्रसङ्गस्तीर्थयात्रार्थं धर्मेषु प्रकटेषु च । । २२
विप्रयोगः सदा भर्त्रा तज्ज्ञातिकुलनिःस्वता ।
अमाधुर्यकदर्यत्वे भृशं पुंसां च वाच्यता । । २३
अतिक्रौर्यमतिक्षान्तिरत्यन्ताभीतिपातनम् ।
स्त्रीभिर्जितत्वमत्यर्थं सत्यं तास्ताः सदोषताः । । २४
स्त्रीणां४ पत्युरधीनत्वात्पुमानेव हि निन्द्यते ।
भर्तुरेव हि तज्जाड्यं यद्भृत्यानामयोग्यता । । २५
तस्माद्यथोदितास्वेता रक्ष्याः शासनताडनैः ।
ताडनैश्च यथाकालं यथावत्समुपाचरेत् । । २६
परिगृह्य बहून्दारानुपचारैः समो भवेत् ।
यथाक्रमोचितैः कर्म दानसत्कारवासनैः । । २७
प्रथमोऽभिजनो धर्मो योग्यत्वं च सुपुत्रता ।
पक्षे वित्तं विशेत्स्त्रीणां मानस्तत्कारणं तथा । । २८
तस्मान्मानो न कर्तव्यो हेयश्चापि न तत्कृतः ।
गुरुत्वे लाघवे वापि सतां कार्यं निबन्धनम् । । २९
आकस्मिके प्रयुञ्जानः प्रेक्षावान्मानलाघवे ।
स यत्किञ्चनकारित्वाच्चायमेवैति लाघवम् । । 1.8.३०
यथा मानापमानौ हि प्रयुज्येतानिमित्ततः ।
तन्निमित्ता जनत्यागे प्रयतन्ते तदाश्रिताः । । ३१
एतदेव ह्यपत्यानां१ ज्ञेयं माननकारणम् ।
यत्स्वापत्यनिमित्तेषु२ प्रधाने कुलयोग्यते । । ३२
तत्संयोगात्सुखं पुंसां महद्दुःखं वियोगतः ।
तत्प्राप्तिः प्रति हातव्या स्वार्थायैव प्रियाण्यपि । । ३३
अतः स्वार्थैकनिष्ठोऽयं लोकः सर्वोऽवसीयते ।
तत्प्रसिद्धिर्भवेदस्तमानाद् भ्रान्तिविधायकः । । ३४
ततो दारादिका भृत्या नियन्तव्यास्तथा द्विजाः ।
यथेहामुत्र वा श्रेयः प्राप्नुयादुत्तरोत्तरम् । । ३५
स्त्रीणां धर्मार्थकामेषु नातिसन्धानमाचरेत् ।
तासां तेष्वभिसन्धानाद्भवेदात्माभिसंहितः । । ३६
जाया त्वर्धं शरीरस्य नृणां धर्मादिसाधने ।
नातस्तासु व्यथां काञ्चित्प्रतिकूलं समाचरेत् । । ३७
यज्ञोत्सवादौ नाकस्मात्काञ्चिदासां विशेषयेत् ।
वस्त्रताम्बूलदानादौ प्रतिपत्तौ समो भवेत् । । ३८
प्रियाप्रियत्वं भेदो हि कामतस्तु रहोगतः ।
उपचारैः पुनर्वाक्यैस्तुल्यवृत्तिः प्रशस्यते । । ३९
आर्तवे तु पुनः सर्वा उपगम्याः प्रिया इव ।
पूर्वाभिजातधर्मार्था पुत्रिणी चोत्तरोत्तरम् । । 1.8.४०
उदग्गच्छेदनेनैव विधिना नित्यमार्तवे ।
तुल्यवृत्तिर्यथाकालं स्वं स्वं वासमखण्डयन् । । ४१
नित्यपर्यायवासानामपादानमसून्विदुः ।
ऋतुदुःखं प्रमोदश्च तथा पूर्वं समागतः । । ४२
अन्यया सह यद्दुःखं सदसद्वा रहोगतम् ।
उत्कण्ठितं वा यत्किञ्चित्सपत्नीषु न तद्वसेत् । । ४३
यत्किञ्चिदन्यसम्बद्धमन्यथा कथितं मिथः ।
तस्य कुर्यादनिर्वेदमात्मनैव विचिन्तयेत् । । ४४
अन्योऽन्यमत्सराख्यानैर्न ता वाचापि भर्त्सयेत् ।
गुणदोषौ च विज्ञाय स्वयं कुर्यान्न निष्कलौ । । ४५
वस्त्रालङ्कारभोज्यादौ तदपत्येष्वनुक्रमात् ।
मातृदोषाननादृत्य तुल्यदृष्टिः पिता भवेत् । । ४६
अन्यस्यान्यगतैर्दोषैर्दूषणं न हि नीतिमत् ।
यत्तु तेषामपत्यं तु तत्तुल्यमुभयोरपि । । ४७
प्रीतिं द्वेषमभिप्रायं शौचाशौचगतागमान् ।
बहिरन्तश्च जानीयाद्दास गूढचरैः सदा । । ४८
आत्मानमपि विज्ञाय चित्तवृत्तेरनीश्वरम् ।
विश्वसेत कथं स्त्रीषु सर्वाविनयधामसु । । ४९
वृद्धदास्यः क्रमायाता धात्र्यश्च परिचारिकाः ।
तन्मातृपितृकाद्याश्च षण्डवृद्धाश्चरा मताः । । 1.8.५०
विविधैस्तत्कथाख्यानैस्तुल्यशीलदयान्वितैः ।
प्रविश्यान्तरभिप्रायं विद्यात्काले प्रयोजितैः । । ५१
तेषु तेषु कथार्थेषु कथ्यमानेषु लक्षयेत् ।
मुखाकारादिभिर्लिङ्गैरभिप्रायं मनोगतम् । । ५२
सीतारुन्धतिसम्बन्धैस्तथा शाकुन्तलादिभिः ।
सदसच्चरिताख्यानैर्भावं विद्यात्प्रवृत्तितः । । ५३
तद्दुष्टानामदुष्टेषु साधूनामितरेषु च ।
प्रीतिः कथाप्रबन्धेषु स्यात्सख्यं पुरुषेष्वितः । । ५४
एवमागमदुष्टाभ्यामनुमित्या च तत्त्वतः ।
स्त्रीणां विदित्वाभिप्रायं वर्तेताशु यथोचितम् । । ५५
स्त्रीभ्यो विप्रतिपन्नाभ्यः प्राणैरपि वियोजनम् ।
दृष्टं हि च यथा १ राज्ञामतो रक्षेत्प्रयत्नतः । । ५६
वेण्या गूढेन शस्त्रेण हतो राजा शुभध्वजः ।
मेखलामणिना देव्या सौवीरश्च नराधिपः । । ५७
भ्रात्रा देवीप्रयुक्तेन भद्रसेनो निपातितः ।
तथा पुत्रेण कारूषो घातितो दर्पणासिना । । ५८
द्वौ काशिराजौ वै वन्द्यौ चानन्दापुरयोषिता ।
विषं प्रयुज्य पञ्चत्वमानीतौ पूजितात्मकौ । । ५९
एवमादि महाभागा राजानो ब्राह्मणाश्च ह ।
स्त्रीभिर्यत्र निपात्यन्ते तत्रान्येष्विह का कथा । । 1.8.६०
तस्मान्नित्याप्रमत्तेन जाया रक्ष्याश्च नित्यशः ।
यथावदुपचर्याश्च गुणदोषानुरूपतः । । ६१
वैषम्यादुपचाराणां विकारैश्चानिमित्तजैः ।
विशेषेण सपत्नीकैरकस्माच्चापि वेदनैः । । ६२
असम्भागे च वाग्दण्डपारुष्यादप्रसङ्गतः ।
प्रद्वेषो भर्तरि स्त्रीणां प्रकोपश्चापि जायते । । ६३
ततश्चायाति वार्धक्यमुद्वोढुश्चापि शत्रुताम् ।
तस्मान्न तान्प्रयुञ्जीत दोषान्दारविनाशकान् । । ६४
न चैताः स्वकुलाचारमधर्मं वापि चाञ्जसा ।
न गुणांश्चाप्युपेक्षन्ते प्रकृत्या किमु पीडिताः । । ६५
सतीत्वे प्रायशः स्त्रीणां प्रदृष्टं कारणत्रयम् ।
परपुंसामसम्प्रीतिः प्रिये प्रीतिः स्वरक्षणे । । ६६
तस्मात्सुरक्षिता नित्यमुपचारैर्यथोचितैः ।
सुभृता१ नित्यकर्माणः कर्तव्या योषितः सदा । । ६७
उत्तमां सामदानाभ्यां मध्यमाभ्यां तु मध्यमाम् ।
पश्चिमाभ्यामुभाम्यां च अधमां सम्प्रसाधयेत् । । ६८
भेददण्डौ प्रयुज्यापि प्रागपत्याद्यपेक्षया ।
तच्छिष्टानां तदा पश्चात्सामदानप्रसाधने । । ६९
यास्तु विध्वस्तचारित्रा भर्तुश्चाहितकारिकाः ।
त्याज्या एवं स्त्रियः सद्भिः२ कालकूटविषोपमाः । । ७०
इष्टाः ३ कुलोद्गताः साध्व्यो विनीता भर्तृवत्सलाः ।
सर्वदा साधनीयास्ताः सम्प्रदायोत्तरोत्तरैः ४। । ७१
एवमेव यथोद्दिष्टं स्त्रीवृत्तं योऽनुतिष्ठति ।
प्राप्नोत्येव स सम्पूर्णं त्रिवर्गं ५ लोकसम्भवम् । । ७२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि विवाहधर्मेषु स्त्रीविषये नरवृत्तवर्णनं नामाष्टमोऽध्यायः । ८ ।