प्रतिपत्कल्पवर्णनम्

सुमन्तुरुवाच
इत्युक्त्वा भगवान्ब्रह्मा स्त्रीलक्षणमशेषतः ।
सद्वृत्तं च तथा स्त्रीणां जगाम स निजालयम् । । १
ऋषयश्च तथा जग्मुः स्वानि धिष्ण्यान्यशेषतः ।
स्त्रीलक्षणं तथा वृत्तं श्रुत्वा कृत्स्नं महीपते । । २
इत्थं लक्षणसम्पन्नां भार्यां प्राप्य महीपते ।
कर्तव्यं यद्गृहस्थेन तदिदानीं निबोध मे । । ३
बैवाहिकाग्नौ कुर्वीत गृह्यं कर्म यथाविधि ।
पञ्चयज्ञविधानं तु पक्तिं कुर्यात्सदा गृही । ।४
पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति ।
कण्डनी पेषणी चुल्ली उदकुम्भीः प्रमार्जनी । । ५
आसां क्रमेण सर्वासां विशुद्ध्यर्थं मनीषिभिः ।
पञ्चोद्दिष्टा महायज्ञाः प्रत्यहं गृहमेधिनाम् । । ६
अध्यापनं ब्रह्मयज्ञः पितृयज्ञश्च तर्पणम् ।
होमो दैवो बलिर्भौमस्तथान्योऽतिथिपूजनम् । ।७
पञ्चैतान्यो महायज्ञान्न हापयति शक्तितः ।
स गृहेऽपि वसन्नित्यं सूनोदोर्षैर्न लिप्यते । । ८
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः ।
न निर्वपति पञ्चानामुच्छ्वसन्न च जीवति । । ९
शतानीक उवाच
यस्य नास्ति गृहे त्वग्निः स मृतो नात्र संशयः ।
न स पूजयितुं शक्तो देवादीन्ब्राह्मणोत्तमः । । 1.16.१०
निरग्निकस्य विप्रस्य कथं देवादयो द्विज. ।
प्रीताः स्युः शान्तये तस्य परं कौतूहलं मम । । ११
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र श्रूयतां परमं वचः।
अनग्नयस्तु ये विप्रास्तेषां श्रेयोऽभिधीयते । । १२
व्रतोपवासनियमैर्नानादानैस्तथा १ नृप ।
देवादयो भवन्त्येव प्रीतास्तेषां न संशयः । । १३
विशेषादुपवासेन तिथौ किल महीपते ।
प्रीता देवादयस्तेषां भवन्ति कुरुनन्दन । । १४
शतानीक उवाच
भगवंस्त्वं तिथीन्ब्रूहि तिथीनां च विधिं हि मे ।
प्राशनं गृह्यधर्मांश्च उपवासविधीनपि । । १५
मुच्येम येन पापौघात्त्वत्प्रसाद्द्विजोत्तम ।
संसाराच्चापि विप्रेन्द्र श्रेयसे जगतस्तथा । । १६
सुमन्तुरुवाच
शृणु कौरव कर्माणि तिथिगुह्याश्रितानि तु ।
श्रुतानि घ्नन्ति पापानि उपोषितफलानि च । । १७
प्रतिपदि क्षीरप्राशनं द्वितीयायां लवणवर्जनम् ।
तृतीयायां तिलान्नं प्राश्नीयाच्चतुर्थ्यां क्षीराशनश्च पञ्चम्याम् । ।
फलाशनः सदा षष्ठ्यां शाकाशनः सप्तम्यां बिल्वाहारोष्टम्यां तु । । १८
पिष्टाशनो नवम्यामनग्निपाकाहारो दशम्यामेकादश्यां घृताहारो द्वादश्यां पायसाहारः ।
त्रयोदश्यां गोमूत्राहारश्चतुर्दश्यां यवान्नाहारः । । १९
कुशोदकप्राशनः पौर्णमास्यां हविष्याहारोऽमावास्यायाम् ।
एष प्राशनविधिस्तिथीनामेव चानेन विधिना पक्षमेकं यो वर्तयति । । 1.16.२०
सोऽश्वमेधफलं दशगुणफलमवाप्नोति ।
स्वर्गे मन्वन्तराणि यावत्प्रतिवसति । । २१
उपगीयमानोप्सरोगन्धर्वैर्मासत्रयचतुष्टयम् ।
सोश्वमेधराजसूयानां शतगुणमवाप्नोति । । २२
स्वर्गे उपगीयमानोप्सरोगन्धर्वैश्चतुर्युगानां दशशतीर्यावत्प्रतिवसति ।
तथाष्टमासपारणे राजसूयाश्वमेधाभ्यां सहस्रगुणफलमवाप्नोति । । २३
स्वर्गे चतुर्दश मन्वतराणि यावत्प्रतिवसति ।
उपगीयमानोप्सरोगन्धर्वैर्य एवं नियममास्थाय वर्षमेकं वर्तयति । । २४
स सवितुर्लोके कालं मन्वन्तरं प्रतिवसति । । २५
य एवं नियमान्राजन्नाश्वयुजनवम्यां माघमासस्य सप्तम्यां वैशाखतृतीयायां कार्तिकपौर्णमास्यां तिथिव्रतानि गृदृणाति ब्रह्मचारी गृहस्थो वनस्थो नारी नरो वा शूद्रः प्रयतमानसः दीर्घायुष्यं सवितुः सालोक्यं व्रजति।।२६
यैश्चापि पुरा राजन्ननेन विधिना एतासु तिथिष्वन्यजन्मान्तरे उपवासविधिः कृतः दानानि दत्तानि विविधप्रकाराणि ब्राह्मणानां तपस्विजनेषु वा । । २७
त्रिरात्रोपवासिनां तीर्थयात्रातपोगुरुमातापितृशुश्रूशानिरतानां तेषां स्वर्गादिभोगवासनादिहागतानां फलनिष्पत्तिचिह्नानि मनुष्यलोके प्रत्यक्षत एव दृश्यन्ते । । २८
हस्त्यश्वयानयुग्यधनरत्नकनकहिरण्यकटककेयूरग्रैवेयककटिसूत्रकर्णालङ्कारमुकुटवरवस्त्रवरनारी-वरविलेपनसुरूपगुणदीर्घायुषो विगताधिव्याधयो दानोपवासरतानां फलान्येतानि नृत्यगीत-वादित्रमङ्गलपाठकशब्दैरिहाद्यापि पुण्यकृतो बोध्यमाना दृश्यन्त इति । । २९
तथाकृतोपवासा अपि हि दृश्यन्ते । । 1.16.३०
तथा अदत्तदाना अकृतपुण्याश्च प्रत्यक्षत एव दृश्यन्ते । । ३१
तद्यथा काणकुष्ठिबधिरजडमूकव्यङ्गा रोगदारिद्र्योपसर्गव्याधिहतायुषश्च दृश्यंतेऽद्यापि मानवाः । । ३२
शतानीक उवाच
द्विजेन्द्र तिथयः प्रोक्ताः समासेन त्वया बुध ।
विस्तरेणैव मे भूयः प्रब्रूहि द्विजसत्तम । । ३३
रहस्यं यत्तिथीनां तु देवानां च विचेष्टितम् ।
यानीष्टानि च देवानां भोज्यानि नियमास्तथा । । ३४
तानि मे वद धर्मज्ञ येन पूतो भवेन्वहम् ।
निर्द्वन्द्वो हि यथा विप्र लभे यागफलानि तु । । ३५
सुमन्तुरुवाच
रहस्यं यत्तिथीनां च भोजनं फलमेव तु ।
यावच्च येन नियमो विशेषात्स्त्रीजनस्य च । । ३६
एतत्ते सर्वमाख्यामो रहस्यं तन्निबोध मे ।
यन्मया नोक्तपूर्वं हि कस्यचित्सुप्रियस्य हि । । ३७
तत्तेऽहं सम्प्रवक्ष्यामि यस्य देवस्य या तिथिः ।
देवतानां रहस्यानि व्रतानि नियमास्तथा । । ३८
ताञ्छृणुष्व महाबाहो गदतो मम नारद ।
सृष्टिं पूर्वं वदिष्यामि संक्षेपेण तिथिं प्रति । । ३९
तमोभूतमिदं त्वासीदलभ्यमवितर्कितम् ।
जगद्ब्रह्मा समागत्यासृजदात्मानमात्मना । । 1.16.४०
संभूतात्मैव आत्मासावण्डमध्याद्विनिःसृतः ।
आत्मनैवात्मनो ह्यण्डं सृष्ट्वा स विभुरादितः । । ४१
ब्रह्मा नारायणाख्योऽसौ सृष्टिं कर्तुं समुद्यतः ।
ताभ्यां सोण्डकपालाभ्यां दिवं भूमिं च निर्ममे । । ४२
दिशश्चैवोपदिशश्चैव देवादीन्दानवांस्तथा ।
तिथिं पूर्वामिमां राजंश्चकाराथ विभुः स्वयम् । । ४३
तिथीनां प्रवरा यस्माद्ब्रह्मणा समुदाहृता ।
प्रतिपादिता परे पूर्वे प्रतिपत्तेन तूच्यते । । ४४
अस्मात्पदात्तु तिथयो यस्मात्त्वन्याः प्रकीर्तिताः ।
अस्यान्ते कथयिष्यामि उपवासविधिं परम् । । ४५
कार्त्तिक्यां माघसप्तम्यां वैशाखस्य युगादिषु ।
नियमोपवासं प्रथमं ग्राहयेत विधानवित् १ । । ४६
यां तिथिं नियमं कर्तुं भक्त्या समनुगच्छति ।
तस्यां तिथौ विधानं यत्तन्निबोध जनाधिप । । ४७
यदा तु प्रतिपद्यां वै गृह्णीयान्नियमं नृप ।
चतुर्दश्यां कृताहारः संकल्पं परिकल्पयेत् । । ४८
अमावास्यां न भुञ्जीत त्रिकालं स्नानमाचरेत् ।
पवित्रो हि जपेन्नित्यं गायत्रीं शिरसा सह । । ४९
अर्चयित्वा प्रभाते तु गन्धमाल्यैर्द्विजोत्तमान् ।
शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतां प्रभुः । । 1.16.५०
ततो भुञ्जीत गोक्षीरमनेन विधिना नृप ।
एष एव विधिर्दृष्टः सर्वासु तिथिषु नृप । । ५१
संवत्सरगते काले व्रतमेतत्समाप्यते ।
व्रतांते यत्फलं तस्य तन्निबोध नराधिप । । ५२
विमुक्तपापः शुद्धात्मा दिव्यदेहस्य देहिनः ।
ब्रह्मा ददाति संतुष्टो विमानमतितेजसम् । ।
अव्याहतगतिं दिव्यं किन्नराप्सरसैर्युतम् । । ५३
रमित्वा सुचिरं तत्र दैवतैः सह देववत् ।
इह चागत्य विप्रत्वं दश जन्मान्यसौ लभेत् । । ५४
वेदवेदांगविद्यश्च दीर्घायुश्चैव सुप्रभः ।
भोगी धनपतिर्दाता जायतेऽसौ कृते युगे । । ५५
विश्वामित्रस्तु राजेन्द्र ब्राह्मणत्वजिगीषया ।
तपश्चचार विपुलं सन्तापाय दिवौकसाम् । ।
ब्राह्मणत्वं न लेभेऽसौ लेभे विघ्नाननेकशः । । ५६
ततस्तु नियमात्तेषां तिथीनां प्रवरा तिथिः ।
उपोषिता बहुविधा ज्ञात्वा ब्रह्मप्रियां तिथिम् । । ५७
ततो ददौ ब्रह्मा विश्वामित्राय धीमते ।
इहैव तेन देहेन ब्राह्मणत्वं सुदुर्लभम् । । ५८
तिथीनां प्रवरा ह्येषा तिथीनामुत्तमा तिथिः ।
क्षत्रियो वैश्यशूद्रौ वा ब्राह्मणत्वमवाप्नुयुः । । ५९
एवं तिथिरियं राजन्कामदा कञ्जजप्रिया ।
सरहस्या मया प्रोक्ता या नोक्ता यस्य कस्यचित् । । 1.16.६०
हैहयैस्तालजङ्घैश्च तुरुष्कैर्यवनैः शकैः ।
उपोषिता इहात्रैव ब्राह्मणत्वमभीप्सुभिः १ । । ६१
इत्येषा परमा पुण्या शिवा पापहरा तथा ।
पठितोपासिता राजञ्छ्रद्धया च श्रुता १ तथा । । ६२
माहात्म्यं चापि योप्यस्याः शृणुयान्मानवो नृप ।
ऋद्धिं वृद्धिं तथा कीर्तिं शिवं चाप्य दिवं व्रजेत् । । ६३
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि प्रतिपत्कल्पवर्णनं
नाम षोडशोऽध्यायः । १६ ।