भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०२०

अशून्यशयना नाम्न्याः द्वितीयातिथेर्महत्त्वम्

शतानीक उवाच
ब्रूहि मे द्विजशार्दूल द्वितीयां फलसंज्ञिताम् ।
यामुपोष्य नरो योषिद्वियोगं नेह गच्छति । । १
पत्न्या नरो मुनिश्रेष्ठ भार्या च पतिना १ सह ।
तामहं श्रोतुमिच्छामि विधवा स्त्री न जायते । ।
उपोषितेन येनार्य पत्न्या च सहितो नरः । । २
तन्मे ब्रूहि द्विजश्रेष्ठ श्रेयोऽर्थं नरयोषिताम् ।
येन मे कौतुकं ब्रह्मञ्छ्रुत्वापूर्वं प्रसर्पति । । ३
सुमन्तुरुवाच
अशून्यशयनां नाम द्वितीयां शृणु भारत ।
यामुपोष्य न वैधव्यं स्त्री प्रयाति नराधिप । ।
पत्नीवियुक्तश्च नरो न कदाचित्प्रजायते । ।४
शेते जगत्पतिः कृष्णः श्रिया सार्धं यदा नृप ।
अशून्यशयना नाम तदा ग्राह्या हि सा तिथिः । । ५
कृष्णपक्षे द्वितीयायां श्रावणे मासि भारत ।
इदमुच्चारयेत्स्नातः प्रणम्य जगतः पतिम् । ।
श्रीवत्सधारिणं देवं भक्त्याभ्यर्च्य श्रिया सह । । ६
श्रीवत्सधारिञ्छ्रीकान्त श्रीवत्स श्रीपतेऽव्यय ।
गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् । । ७
गावश्च मा प्रणश्यन्तु मा प्रणश्यन्तु मे जनाः । । ८
जामयो मा प्रणश्यन्तु मत्तो दाम्पत्यभेदतः ।
लक्ष्म्या वियुज्येऽहं देव न कदाचिद्यथा भवान् । । ९
तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् ।
लक्ष्म्या न शून्यं वरद यथा ते शयनं सदा । । 1.20.१०
शय्या ममाप्यशून्यास्तु तथा तु मधुसूदन ।
एवं प्रमाद्य पूजां च कृत्वा लक्ष्म्यास्तथा हरेः । । ११
फलानि दद्याच्छायायामभीष्टानि जगत्पतिम् ।
नक्तं १ प्रणम्यायतने हविर्भुञ्जीत वाग्यतः । । १२
ब्राह्मणाय द्वितीयेऽह्नि शक्त्या दद्याच्च दक्षिणाम् । । १३
शतानीक उवाच
कानि तानि अभीष्टानि केशवस्य फलानि तु ।
योज्यानि शयने विप्र देवदेवस्य कथ्यताम् । । १४
किं च दानं द्वितीयेऽह्नि दातव्यं ब्राह्मणस्य तु ।
भक्तैर्नरैर्द्विजश्रेष्ठ देवदेवस्य शक्तितः । । १५
सुमन्तुरुवाच
यानि तत्र महाबाहो काले सन्ति फलानि तु।
मधुराणि सुतीव्राणि न चापि कटुकानि तु । । १६
दातव्यानि नृपश्रेष्ठ स्वशक्त्या शयने नृप ।
मधुराणि प्रदत्तानि नरो वल्लभतां यजेत् । । १७
योषिच्च कुरुशार्दूल भर्तुर्वल्लभतामियात् ।
तस्मात्कटुकतीव्राणि स्त्रीलिङ्गानि विवर्जयेत् । । १८
खर्जूरमातुलिङ्गानि श्वेतेन शिरसा सह ।
फलानि शयने राजन्यज्ञभागहरस्य तु । । १९
देयानि कुरुशार्दूल स्वशक्त्या मुञ्जकेशिने ।
एतान्येव तु विप्रस्य गाङ्गेयसहितानि तु । । 1.20.२०
द्वितीयेऽह्नि प्रदेयानि भक्त्या शक्त्या च भारत ।
वासोदानं तथा धान्यफलदानसमन्वितम् । ।
गाङ्गेयस्य विशेषेण धान्यदानं प्रचक्षते । । २१
एवं करोति यः सम्यङ्नरो मासचतुष्टयम् ।
ततो जन्मत्रयं वीर गृहभङ्गो न जायते । । २२
अशून्यशयनश्चासौ धर्मकामार्थसाधनः ।
भवत्यव्याहतैश्वर्यः पुरुषो नात्र संशयः । । २३
१नारी च राजन्धर्मज्ञा व्रतमेतद्यथाविधि ।
या करोति न सा शोच्या बन्धुवर्गस्य जायते । । २४
वैधव्यं दुर्भगत्वं च भर्तृत्यागं च सत्तम ।
नाप्नोति जन्म त्रियतमेतच्चीर्त्वा२ महाव्रतम् । । २५
अदत्त्वा कटुकानीह फलानि कुरुनन्दन ।
खर्जूरमातुलिङ्गानि बृहत्फलशिरांसि च । । २६
दत्त्वा द्विजेभ्यो राजेन्द्र मधुराणि पराणि च ।
तस्मात्स्वशक्त्या यत्तेन देयानि मधुराणि च । । २७
इत्येषा कथिता कृष्णद्वितीया तिथिरुत्तमा ।
यामुपोष्य नरो राजन्नृद्धिं वृद्धिं तथा व्रजेत् । । २८
शतानीक उवाच
भवता कथितेयं वै द्वितीया तिथिरुत्तमा ।
अश्विभ्यां द्विजशार्दूल कथमस्यां जनार्दनः । । २९
सम्पूज्यः फलसंज्ञायां कथितः पद्मया सह ।
तदत्र कौतुकं मह्यं सुमहज्जायते द्विज । । 1.20.३०
सुमन्तुरुवाच
एवमेतन्न सन्देहो तथा वदसि भारत ।
अश्विनोर्वै तिथिरियं किं तु वाक्यं निबोध मे । । ३१
अशून्यशयना दत्ता १विष्णोरमिततेजसः ।
अश्विभ्यां कुरु शार्दूल प्रीतये मुञ्जकेशिनः । । ३२
तावेव कुरुशार्दूल पूज्येतेऽत्र महीपते ।
नासत्यौ भगवान्विष्णुर्दत्तश्च श्रीर्विभाव्यते । । ३३

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि द्वितीयाकल्पसमाप्तौ विंशोऽध्यायः । २० ।