भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०३१
शिवाचतुर्थी पूजनम्
सुमन्तुरुवाच
शिवा शान्ता सुखा राजंश्चतुर्थी त्रिविधा स्मृता ।
मासि भाद्रपदे शुक्ला शिवा लोकेषु पूजिता । । १
तस्यां स्नानं तथा दानमुपवासो जपस्तथा ।
क्रियमाणं शतगुणं प्रसादाद्दन्तिनो नृप । । २
गुडलवणघृतानां तु दानं शुभकरं स्मृतम् ।
गुडापूपैस्तथा वीर पुण्यं ब्राह्मणभोजनम् । । ३
यास्तस्यां नरशार्दूल पूजयन्ति सदा स्त्रियः ।
गुडलवणपूपैश्च श्वश्रूं श्वसुरमेव च । ।४
ताः सर्वाः सुभगाः स्युर्वे१ विघ्रेशस्यानुमोदनात् ।
कन्यका तु विशेषेण विधिनानेन पूजयेत् । । ५
( इति शिवाकल्पः)
सुमन्तुरुवाच
माघे मासि तथा शुक्ला या चतुर्थी महीपते ।
सा शान्ता शान्तिदा नित्यं शान्तिं कुर्यात्सदैव हि । । ६
स्नानदानादिकं कर्म सर्वमस्यां कृतं विभो ।
भवेत्सहस्रगुणितं प्रसादात्तस्य२ दन्तिनः । । ७
कृतोपवासो यस्तस्यां पूजयेद्वि घ्ननायकम् ।
तस्य होमादिकं कर्म भवेत्साहस्रिकं नृप । । ८
लवणं च गुडं शाकं गुडपूपांश्च भारत ।
दत्त्वा भक्त्या तु विप्रेभ्यः फलं साहस्रिकं भजेत्३ । । ९
विशेषतः स्त्रियो राजन्पूजयन्तो गुरुं नृप ।
गुडलवणघृतैर्वीर सदा स्युर्भाग्यसंयुताः४ । । 1.31.१०
( इति शान्ताकल्पः)
सुमन्तुरुवाच
सुखावहा च सुसुखा सौभाग्यकरणी परम् । । ११
चतुर्थी कुरुशार्दूल रूपसौभाग्यदा शुभा ।
सुखाव्रतं महापुण्यं रूपदं भाग्यदं तथा । । १२
सुसूक्ष्मं सुकरं धन्यमिह पुण्यसुखावहम् ।
परत्र फलदं वीर दिव्यरूपप्रदायकम् । । १३
हसितं ललितं चोक्तं चेष्टितं च सुखावहम् ।
सविलासभुजक्षेपश्चंक्रमश्चेष्टितं शुभम् । । १४
सुखाव्रतेन सर्वेषां सुखं कुरुकुलोद्वह ।
कृत्येन पूजिते चेशे विघ्रेशे शिवयोः सुते । । १५
यदा शुक्लचतुर्थ्यां तु वारो भौमस्य वै भवेत् ।
तदा सा सुखदा ज्ञेया चतुर्थी वै सुखेति च । । १६
पुरा मैथुनमाश्रित्य स्थिताभ्यां तु हिमाचले ।
भीमोमाभ्यां महाबाहो रक्तबिन्दुश्च्युतः क्षितौ । । १७
मेदिन्यां स प्रयत्नेन सुखे विधृतोऽनया ।
जातोस्याः स कुजो वीर रक्तो रक्तसमुद्भवः । । १८
ममाङ्गतो यथोत्पन्नस्तस्मादङ्गारको ह्ययम् ।
अङ्गदोङ्गोपकारश्च अङ्गानां तु प्रदो नृणाम् । । १९
सौभाग्यादिकरो यस्मात्तस्मादङ्गारको मतः ।
भक्त्या चतुर्थ्यां नक्तेन यो वै श्रद्धासमन्वितः । । 1.31.२०
उपवत्स्यति ना राजन्नारी वा नान्यमानसा ।
पूजयेच्च कुजं भक्तया रक्तपुष्पविलेपनैः । । २१
गणेशं प्रथमं भक्त्या योजयेच्छद्धयान्वितः ।
यस्य तुष्टः प्रयच्छेत्स सौभाग्यं रूपसम्पदम् । । २२
पूर्वं च कृतसङ्कल्पः स्नानं कृत्वा यथाविधि ।
गृहीत्वा मृत्तिकां वन्देन्मन्त्रेणानेन भारत । । २३
इह त्वं वन्दिता पूर्वं कृष्णेनोद्धरता किल ।
तस्मान्मे दह पाप्मानं यन्मया पूर्वसञ्चितम् । । २४
इमं मन्त्रं पठन्वीर आदित्याय प्रदर्शयेत् ।
आदित्यरश्मिसम्पूतां गङ्गाजलकणोक्षिताम् । । २५
दत्त्वा मृदं शिरसि तां सर्वाङ्गेषु च योजयेत् ।
ततः स्नानं प्रकुर्वीत मन्त्रयेत जलं पुनः । । २६
त्वमापो योनिः सर्वेषां दैत्यदानवद्यौकसाम् ।
स्वेदाण्डजोद्भिदां चैव रसानां पतये नमः । । २७
स्नातोऽहं सर्वतीर्थेषु सर्वप्रस्रवणेषु च ।
तडागेषु च सर्वेषु मानसादिसरःसु च । । २८
नदीषु देवखातेषु सुतीर्थेषु ह्रदेषु वै ।
ध्यायन्यठन्निमं मन्त्रं ततः स्नानं समाचरेत् । । २९
ततः स्नात्वा शुचिर्भूत्वा गृहमागत्य वै स्पृशेत् ।
दूर्वाश्वत्थौ शमीं स्पृष्ट्वा गां च मन्त्रेण मन्त्रवित् । । 1.31.३०
दूर्वा नमस्य मन्त्रेण शुचौ भूमौ समुत्थिताम् ।
त्वं दूर्वेऽमृतनामासि सर्वदेवैस्तु वन्दिता । । ३१
वन्दिता दह तत्सर्वं दुरितं यन्मया१ कृतम् । । ३२
शमीमन्त्रं प्रवक्ष्यामि तन्निबोध महीपते ।
पवित्राणां पवित्रां त्वं काश्यपी प्रथिता श्रुतौ । ।
शमी शमय मे पापं नूनं वेत्सि धराधरान् । । ३३
अश्वत्थालम्भने वीर मन्त्रमेतं निबोध मे ।
नेत्रस्पन्दादिजं दुःखं दुःस्वप्नं दुर्विचिन्तनम् । ।
शक्तानां च समुद्योगमश्वत्थ त्वं क्षमस्व मे । । ३४
इमं मन्त्रं पठन्वीर कुर्याद्वै स्पर्शनं बुधः ।
ततो देव्यै तु गां दद्याद्वीरं कृत्वा प्रदक्षिणाम् । ।
समालभ्य तु हस्तेन ततो मन्त्रमुदीरयेत् । । ३५
सर्वदेवमयी देवि मुनिभिस्तु सुपूजिता ।
तस्मात्स्पृशामि वन्दे त्वां वन्दिता पापहा भव । । ३६
इमं मन्त्रं पठन्वीर भक्त्या श्रद्धासमन्वितः ।
प्रदक्षिणं तु यः कुर्यादर्जुनं कुरुनन्दन । ।
प्रदक्षिणीकृता तेन पृथिवी स्यान्न संशयः । । ३७
एवं मौनेन चागत्य ततो वह्निगृहं व्रजेत् ।
प्रक्षाल्य च मृदा पादावाचान्तोग्निगृहं विशेत् । ।
होमं तत्र प्रकुर्वीत एभिर्मन्त्रपदैर्वरैः३ । । ३८
शर्वाय शर्वपुत्राय क्षोण्युत्सङ्गभवाय च ।
कुजाय ललिताङ्गाय लोहिताङ्गाय वै तथा । । ३९
ॐकारपूर्वकैर्मन्त्रैः स्वाहाकारसमन्वितैः ।
अष्टोत्तरशतं वीर अर्धार्धमर्धमेव च । । 1.31.४०
एतैर्मन्त्रपदैर्भक्त्या शक्त्या वा कामतो नृप ।
खादिरैः सुसमिद्भिस्तु चाज्यदुग्धैर्यवैस्तिलैः । । ४१
भक्ष्यैर्नानाविधैश्चान्यैः शक्त्या भक्त्या समन्वितः ।
हुत्वाहुतीस्ततो४ वीर देवं संस्थापयेत्क्षितौ । । ४२
सौवर्णं राजतं वापि शक्त्या दारुमयं नृप ।
देवदारुमयं वापि श्रीखण्डचन्दनैरपि । । ४३
ताम्रे पात्रे रौप्यमये चाज्यकुङ्कुमकेसरैः ।
अन्यैर्वा लोहितैर्वापि पुष्पैः पत्रैः फलैरपि । ।
रक्तैश्च विविधैर्वीर अथ वा शक्तितोऽर्चयेत्१ । । ४४
वरद्विसृजते वित्तं वित्तवान्वीर भक्तितः ।
तावद्विवर्धते पुण्यं दातुं शतसहस्रिकम् । । ४५
अन्ये ताम्रमये पात्रे वंशजे मृन्मयेऽपि वा ।
पूजयन्ति नराः शक्त्या कृत्वा कुङ्कुमकेशरैः । ।
पुरुषाकृतिकृतं पात्र इमं मन्त्रैः समर्चयेत् । । ४६
अग्रिर्मूर्धेति मन्त्रेण गन्धपुष्पादिभिस्तथा ।
धूपैरभ्यर्च्य विधिवद्ब्राह्मणाय प्रदीयते । । ४७
गुडौदनं घृतं क्षीरं गोधूमाञ्छालितण्डुलान् ।।।
अवेक्ष्य शक्तिं दद्याद्वै दरिद्रो वित्तवांस्तथा । । ४८
वित्तशाठ्यं न कर्तव्यं विद्यमाने धने नृप ।
वित्तशाठ्यं हि कुर्वाणो नामुत्र बलभाग्भवेत् । ।४ ९
शतानीक उवाच
अङ्गारकेण संयुक्ता चतुर्थी नक्तभोजनैः ।
उपोष्या कतिमात्रा तु उताहो सकृदेव तु२ । । 1.31.५०
सुमन्तुरुवाच
चतुर्थी सा चतुर्थी सा यदाङ्गारकसंयुता ।
उपोष्या तत्र तत्रैव प्रदेयो विधिवद्गुडः । । ५१
उपोष्य नक्तेन विभो चतस्रः कुजसंयुता ।
चतुर्थ्यां च चतुर्थ्यां च विधानं शृणु यादृशम् । । ५२
सौवर्णं तु कुजं कृत्वा सविनायकमादरात् ।
दशसौवर्णिकं मुख्यं दशार्धमर्धमेव च । ।५ ३
सौवर्णपात्रे रौप्ये वा भक्त्या ताम्रमयेऽपि वा ।
विंशत्पलानि पात्राणि विंशत्यर्धपलानि वा । । ५४
विंशत्कर्षाणि वा वीर विंशदर्धार्धमेव वा ।
रौप्यसङ्ख्यं पलं कार्यं पलार्धमर्धमेव च । । ५५
शक्त्या वित्तैश्च भक्त्या च पात्रे ताम्रमयेऽपि तु ।
प्रतिष्ठाप्य ग्रहेशं वै वस्त्रैः सम्परिवेष्टितम् । ।
विविधैः साधकै रक्तैः पुष्पै रक्तैः समन्वितम् । । ५६
ब्राह्मणाय सदा दद्याद्दक्षिणासहितं नृप ।
वाचकाय महाबाहो गुणिने श्रेयसे नृप । । ५७
इति ते कथिता पुण्या तिथीनामुत्तमा तिथिः ।
यामुपोष्य नरो रूपं दिव्यमाप्नोति भारत । । ५८
कान्त्यात्रेयसमं वीरं तेजसा रविसन्निभम् ।
प्रभया रविकल्पं च समीरबलसंश्रितम् । । ५९
ईदृग्रूपं समाप्येह याति भौमसदो नृप ।
प्रसादाद्विघ्ननाथस्य तथा गणपतेर्नृप । । 1.31.६०
पठतां शृण्वतां राजन्कुर्वतां च विशेषतः ।
ब्रह्महत्यादिपापानि क्षीयन्ते नात्र संशयः । ।
ऋद्धिं वृद्धिं तथा लक्ष्मीं लभते नात्र संशयः । । । ६१
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि चतुर्थीकल्पे सुखावहाङ्गारकचतुर्थीव्रतनिरूपणं नामैकत्रिंशोऽध्यायः । ३१ ।
( समाप्तश्चायं चतुर्थीकल्पः)