नागपञ्चमीपूजनम्

सुमन्तुरुवाच
पञ्चमी दयिता राजन्नागानां नन्दिवर्धिनी ।
पञ्चम्यां किल नागानां भवतीत्युत्सवो महान् । । १
वासुकिस्तक्षकश्चैव कालियो मणिभद्रकः ।
ऐरावतो धृतराष्ट्रः१ कर्कोटकधनञ्जयौ । ।
एते प्रयच्छन्त्यभयं प्राणिनां प्राणजीविताम् । । २
पञ्चम्यां स्नपयन्तीह नागान्क्षीरेण ये नराः ।
तेषां कुले प्रयच्छन्ति तेऽभयप्राणदक्षिणाम् । । ३
शप्ता नागा यदा मात्रा दह्यमाना दिवानिशम् ।
निर्वापयन्ति स्नपनैर्गवां३ क्षीरेण मिश्रितैः । । ४
ये स्नपयन्ति वै नागान्भक्त्या श्रद्धासमन्विता ।
तेषां कुले सर्पभयं न भवेदिति निश्चयः । । ५
शतानीक उवाच
मात्रा शप्ताः कथं नागाः किं समुद्दिश्य कारणम् ।
कथं चानन्दकरणं कस्य वा सम्प्रसादजम् । । ६
सुमन्तुरुवाच
उच्चैःश्रवा अश्वरत्नं श्वेतो जातोऽमृतोद्भवः ।
तं दृष्ट्वा चाब्रवीत्कद्रूर्नागानां जननी स्वसाम् । । ७
अश्वरत्नमिदं श्वेतं सम्प्रेक्षेऽमृतसम्भवम् ।
कृष्णांश्च वीक्षसे बालान्सर्वं श्वेतमुताम्बरे । । ८
विनतोवाच
सर्वश्वेतो हयवरो नास्य कृष्णो न लोहितः ।
कथं पश्यसि कृष्णं त्वं विनतोवाच तां स्वसाम्४ । । ९
कद्रूरुवाच
वीक्षेऽहमेकनयना कृष्णबालसमन्वितम् ।
द्विनेत्रा त्वं तु विनते न पश्यसि पणं कुरु । । 1.32.१०
विनतोवाच
अहं दासी भवित्री ते कृष्णे केशे प्रदर्शिते ।
न चेद्दर्शयसे कद्रु मम दासी भविष्यसि । । ११
एवं ते विपणं कृत्वा गते क्रोधसमन्विते ।
विनता शयने सुप्ता कद्रूर्जिह्ममचिन्तयत् । । १२
आहूय पुत्रान्प्रोवाच बाला भूत्वा हयोत्तमे ।
तिष्ठध्वं विपणे जेष्ये विनतां जयगर्द्धिनीम् । । १३
प्रोचुस्ते जिह्मबुद्धिं तां नागा मातां१ विगृह्य तु ।
अधर्म्यमेतन्मातस्ते न करिष्याम ते वचः । । १४
ताञ्शशाप रुषा कद्रूः पावको वः प्रधक्ष्यति ।
गते बहुतिथे काले पाण्डवो जनमेजयः । । १५
सर्पसत्रं स कर्ता वै भुवि ह्यन्यैः सुदुष्करम् ।
तस्मिन्सत्रे स तिग्मांशुः पावको वः प्रधक्ष्यति । । १६
एवं शप्त्वा रुषा कद्रूः किञ्चिन्नोक्तवती तु सा ।
मात्रा शप्तास्तथा नागाः कर्तव्यं नान्वपत्सत । । १७
वासुकिं दुःखितं ज्ञात्वा ब्रह्मा प्रोवाच सान्त्वयन् ।
मा शुचो वासुकेऽत्यर्थं शृणु मद्वचन परम् । । १८
यायावरकुले जातो जरत्कारूरिति द्विजः ।
भविष्यति महातेजास्तस्मिन्काले तपोनिधिः १। ( १९
भगिनीं च जरत्कारुं तस्मै त्वं प्रतिदास्यसि ।
भविता तस्य पुत्रोऽसावास्तीक इति विश्रुतः । । 1.32.२०
स तत्सत्रं प्रवृद्धं वै नागानां भयदं महत् ।
निषेधेत्सुमतिर्वाग्भिरग्र्याभिस्तं नविष्यति । । २१
तदिमां भगिनीं राजंस्तस्य त्वं प्रतिदास्यसि ।
जरत्कारुं जरत्कारोः प्रदद्या अविचारयन् । । २२
यदासौ प्रार्थतेऽरण्ये यत्किञ्चिद्धि वदिष्यति ।
तत्कर्तव्यमशङ्केन यदीच्छेः श्रेय आत्मनः । । २३
पितामहवचः श्रुत्वा वासुकिः प्रणिपत्य च ।
तथाकरोद्यथा चोक्तं यत्नं च परमास्थितः । । २४
तच्छ्रुत्वा पन्नगाः सर्वे प्रहर्षोत्फुल्ललोचनाः ।
पुनर्जातमिवात्मानं मेनिरे भुजगोत्तमाः । । २५
तत्र सत्रं महाबाहो१ तव पित्रा प्रवर्तितम् ।
ऋत्विग्भिः स हि तेनेह सर्वलोकेषु दुष्करम् । । २६
प्रोक्तं च विष्णुना पूर्वं धर्मपुत्रस्य धीमतः ।
अवश्यं तस्य भविता नागानां भयकारकम्३ । । २७
तस्मात्कालान्तराद्राजन्साग्रे वर्षशते गते ।
तत्सत्रं भविता घोरं नागानां क्षयकारकम् । । २८
यास्यन्त्यधर्मभरिता दन्दशूका विषोल्बणाः ।
कोटिसङ्ख्या महाराज निपतिष्यन्त्यहर्निशम् । । २९
अपूर्वे तु निमग्नानां घोरे रौद्राग्निसागरे ।
आस्तीकस्तत्र भविता तेषां नौर्वह्निसागरे । । 1.32.३०
श्रुत्वा स चाग्निं राजानमृत्विजस्तदनन्तरम् ।
निवर्तयिष्यते यागं नागानां मोहनं परम् । । ३१
पञ्चम्यां तत्र भविता ब्रह्मा प्रोवाच लेलिहान् ।
तस्मादियं महाबाहो पञ्चमी दयिता सदा । ।
नागानामानन्दकरी दत्ता वै ब्रह्मणा पुरा । । ३२
कृत्वा तु भोजनं पूर्वं ब्राह्मणानां तु कामतः ।
विसृज्य नागाः प्रीयन्तां ये केचित्पृथिवीतले । । ३३
ये च हेलिमरीचिस्था येऽन्तरे दिवि संस्थिताः ।
ये नदीषु महानागा ये सरस्वतिगामिनः । ।
ये च वापीतडागेषु तेषु सर्वेषु वै नमः । । ३४
नागान्विप्रांश्च सम्पूज्य विसृज्य च यथार्थतः ।
ततः पश्चात्तु भुञ्जीत सह भृत्यैर्नराधिप । । ३५
पूर्वं मधुरमश्नीयात्ततो भुञ्जीत कामतः ।
एवं नियमयुक्तस्य यत्फलं तन्निबोध मे । । ३६
मृतो नागपुरं याति पूज्यमानोऽप्सरोगणैः ।
विमानवरमारूढो रमते कालमीप्सितम् । । ३७
इह चागत्य राजासावयुतानां१ वरो भवेत् ।
सर्वरत्नसमृद्धः स्याद्वाहनाढ्यश्च जायते । । ३८
पञ्च जन्मान्यसौ राजा द्वापरे द्वापरे भवेत् ।
आधिव्याधिविनिर्मुक्तः पत्नीपुत्रसहायवान् । ।
तस्मात्पूज्याश्च पाल्याश्च२ घृतपायसगुग्गुलैः । । ३९
शतानीक उवाच
दशन्ति ये नरं विप्र नागाः क्रोधसमन्विताः ।
भवेत्किं तस्य दष्टस्य विस्तराद् ब्रूहि मे द्विज । । 1.32.४०
सुमन्तुरुवाच
नागदष्टो नरो राजन्प्राप्य मृत्युं व्रजत्यधः ।
अधो गत्या भवेत्सर्पो निर्विषो नात्र संशयः । ।४ १
शतानीक उवाच
नागदष्टः पिता यस्य भ्राता वा दुहितापि वा ।
माता पुत्रोऽथ वा भार्या किं कर्तव्यं वदस्व मे । । ४२
मोक्षाय तस्य विप्रेन्द्र दानं व्रतमुपोषणम् ।
ब्रूहि तद्द्विजशार्दूल येन तद्वै करोम्यहम् । । ४३
सुमन्तुरुवाच
उपोष्या पञ्चमी राजन्नागानां पुष्टिवर्धिनी ।
त्वमेवमेकं राजेन्द्र विधानं शृणु भारत । । ४४
मासि भाद्रपदे या तु कृष्णपक्षे१ महीपते ।
महापुण्या तु सा प्रोक्ता ग्राह्यापि च महीपते । ।४५
ज्ञेया द्वादश षञ्चम्यो हायने भरतर्षभ ।
चर्तुथ्यां त्वेकभक्तं तु तस्यां नक्तं प्रकीर्तितम् । ।४ ६
भुवि चित्रमयान्नागानथ वा कलधौतकान् ।
कृत्वा दारुमयान्वापि अथ वा मृन्मयान्नृप । ।४७
पञ्चम्यामर्चयेद्भक्त्या नागानां पञ्चकं नृप ।
करवीरैः शतपत्रैर्जातीपुष्पैश्च सुव्रत । । ४८
तथा गन्धैश्च धूपैश्च पूज्य पञ्चकमुत्तमम्३ ।
ब्राह्मणं भोजयेत्पश्चाद् घृतपायसमोदकैः । ।४ ९
अनन्तो वासुकिः शङ्खः पद्मः कम्बल एव च ।
तथा कर्कोटको नागो नागो ह्यश्वतरो नृप । । 1.32.५०
धृतराष्ट्रः शङ्खपालः कालियस्तक्षकस्तथा ।
पिङ्गलश्च तथा नागो मासि मासि प्रकीर्तिताः । । ५१
वत्सरान्ते पारणं स्याद्ब्राह्मणान्भोजयेद्बहून् ।
इतिहासविदे नागं गैरिकेण कृतं नृप । ।
तथार्चना प्रदातव्या वाचकाय महीपते । । ५२
एष वै नागपञ्चम्या५ विधिः प्रोक्ता बुधैर्नृप ।
तव पित्रा कृतश्चैव पितुर्मोक्षाय भारत । । ५३
त्वमेकमेकं वै वीर पञ्चम्यां भरतर्षभ ।
सुवर्णभारनिष्पन्नं नागं दत्त्वा तथा च गाम् । । ५४
व्यासाय कुरुशार्दूल पितुरानृण्यमाप्नुयाः ।
तव पित्रा कृता ह्येवं पञ्चम्युपासना नृप । । ५५
उत्सृज्य नागतां वीर तव पूर्वपितामहः ।
पुष्पोत्तरं सदो गत्वा तथा पुष्पसदो नृप । । ५६
सुनासीरसदो गत्वा तदा भर्गसदो गतः ।
स्वभूसदस्ततो गत्वा कञ्जजस्य सदो गतः । । ५७
अन्येऽपि ये करिष्यन्ति इदं व्रतमनुत्तमम् ।
दष्टको मोक्ष्यते तेषां शुभं स्थानमवाप्स्यति । । ५८
यश्चेदं शृणुयान्नित्यं नरः१ श्रद्धासमन्वितः ।
कुले तस्य न नागेभ्यो भयं भवति कुत्रचित् । । ५९

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे नागपञ्चमीव्रतवर्णनं नाम द्वात्रिंशोऽध्यायः । ३२ ।