काललक्षणम्

कश्यप उवाच
अतः परं प्रवक्ष्यामि कालदष्टस्य लक्षणम् ।
शृणु गौतम तत्त्वेन यादृशो भवते नरः । । १
जिह्राभङ्गोऽथ हृच्छूलं चक्षुर्भ्यां च न पश्यति ।
दंशं च दग्धसंकाशं पक्वजम्बूफलोपमम् । । २
वैवर्ण्यं चैव दन्तानां श्यावो भवति वर्णतः ।
सर्वेष्वङ्गेषु शैथिल्यं पुरीषस्य च भेदनम् । । ३
भग्नस्कन्धकटिग्रीव ऊर्ध्वदृष्टिरधोमुखः ।
दह्यते वेपते चैव स्वपते च मुहुर्मुहुः । । ४
शस्त्रेण च्छिद्यमानस्य रुधिरं न प्रवर्तते ।
दण्डेन ताड्यमानस्य दण्डराजी न जायते । । ५
दंशे काकपदं सुनीलमसकृज्जम्बूफलाभं घनमुच्छूनं रुधिरार्द्रसेकबहुलं कृच्छ्रान्निरोधो भवेत् ।
हिक्काश्वासगलग्रहश्च सुमहान्पाण्डुस्त्वचा दृश्यते शुष्काङ्गः प्रवदन्ति शास्त्रनिपुणास्तत्कालदष्टं विदुः । । ६
दंशे यस्याथ शोथः प्रचलितवलितं मण्डलं वा सुनीलं प्रस्वेदो गात्र भेदः स्रवति च रुधिरं सानुनासं च जल्पेत् ।
दन्तोष्ठाभ्यां वियोगो भ्रमति च हृदयं सन्निरोधश्च तीव्रो दिव्यानामेष दंशः स्थलविपुलमयो विद्धि तं कालदष्टम् । । ७
दन्तैर्दन्तान्स्पृशति बहुशो दृष्टिरायासखिन्ना स्थूलो दंशः स्रवति रुधिरं केकरं चक्षुरेकम् । ।
प्रत्यादिष्टः श्वसिति सततं सानुनासं च भाषेत्पापं ब्रूते सकलगदितं कालदण्डं तमाहुः । । ८
वेपते वेदना तीव्रा रक्तनेत्रश्च जायते ।
ग्रीवाभङ्गश्चला नाभिः कालदष्टं विनिर्दिशेत् । । ९
दर्पणे सलिले वापि आत्मच्छायां न पश्यति ।
मन्दरश्मिं तथा तीव्रं तेजोहीनं दिवाकरम्१ । । 1.34.१०
वेपते वेदनात्रस्तो रक्तनेत्रश्च जायते ।
स याति निधनं जन्तुः कालदण्डं विनिर्दिशेत् । । ११
अष्टम्यां च नवम्यां च कृष्णपक्षे चतुर्दशीम् ।
नागपञ्चमीदष्टानां जीवितस्य च संशयः । । १२
आर्द्राश्लेषामघाभरणीकृत्तिकासु विशेषतः ।
विशाखां त्रिषु पूर्वासु मूलस्वातीशतात्मके । ।
सर्पदष्टा न जीवन्ति विषं पीतं च यैस्तथा । । १३
शून्यागारे श्मशाने च शुष्कवृक्षे तथैव च ।
न जीवन्ति नरा दष्टा नक्षत्रे तिथिसंयुते । । १४
अष्टोत्तरं मर्म शतं प्राणिनां समुदाहृतम् ।
तेषां मध्ये तु मर्माणि दश द्वे चापि कीर्तिते । । १५
शङ्खे नेत्रे भ्रुवोर्मध्ये बस्तिभ्यां वृषणोत्तरे ।
कक्षे स्कन्धे हदि मध्ये तालुके चिबुके गुदे । । १६
एषु द्वादशमर्मेषु२ दंशैः शस्त्रेण वा हतः ।
न जीवति नरो लोके कालदण्डं विनिर्दिशेत् । । १७
अकचटतपयशां वदन्ति प्रोक्ता जीवन्ति न तत्र हि ।
गतं ब्रूयाद्यदि स्खलति शिरस्तस्य सम्प्राप्तकालः । । १८
भवति च यदि दूतो ह्युत्तमस्याधमो वा यदि भवति च दूत उत्तमो वाधमस्य ।
आदौ दष्टस्य नाम यदि वदति क्वचिद्वक्ति तस्याथ पश्चात्तं वर्णभेदो यदि भवति समः प्राप्त कालस्य दूतः । । १९
दूतो वा दण्डहस्तो भवति च युगलं पाशहस्तस्तथा वा रक्तवस्त्रं च कृष्णं मुखशिरसि गतमेकवस्त्रश्च दूतः । ।
तैलाभ्यक्तश्च तद्वद्यदि त्वरितगतिर्मुक्तकेशश्च याति यः कुर्याद्घोरशब्दं करचरणयुगैः प्राप्तकालस्य दूतः । । 1.34.२०
नागोदयं प्रवक्ष्यामि ईशानेन तु भाषितम् ।
ब्रह्मणा तु पुरा सृष्टा ग्रहा नागास्त्वनेकशः । । २१
अनन्तं भास्करं विद्यात्सोमं विद्यात्तु वासुकिम् ।
तक्षकं भूमिपुत्रं तु कर्कोटं च बुधं विदुः । । २२
पद्मं बृहस्पतिं विद्यान्महापद्मं च भार्गवम् ।
कुलिकः शंखपालश्च द्वावेतौ तु शनैश्चरः । । २३
पूर्वपादः शंखपालो द्वितीयः कुलिकस्तथा ।
नित्यं भागे यथोद्दिष्टे दिनरात्री तथैव च । । २४
शुक्रसोमौ च मध्याह्ने उदये तु क्षमासुतः ।
शनिः प्रागष्टमे भागे दिवारात्रे त्विहोच्यते । । २५
ग्रहाश्च भुञ्जते चैव शेषं भागस्य लक्षणम् ।
रविवारे सदा ज्ञेयौ पादौ दश चतुर्दश । । २६
अष्ट द्वादश वै चन्द्रे दश षष्ठे कुजे तथा ।
बुधस्य नवमे पादे राहौ च दिवसस्य च । । २७
गुरोर्द्वितीयः षष्ठश्च षोडशस्य तु वर्जयेत् ।
भास्करस्य दिने प्रोक्ते चतुर्थे दशमेष्टमे । । २८
शनैश्चरदिने पादं त्यजेच्चैव सुदारुणम् ।
द्वितीयं द्वादशं चैव षोडशस्य तु वर्जयेत् । । २९
मुहूर्तघटिकादूर्द्ध्वं घटिका चतुर्थं भागं विंशतिश्च ।
कुहूसुतं बुद्बुदं निमेषमेतत्कालस्य लक्षणम् । । 1.34.३०

इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे दंशदष्टकदूतलक्षणं नाम चतुस्त्रिंशोऽध्यायः । ३४ ।