।। गौतम उवाच।। ।।
कीदृशं सर्पदष्टस्य सर्पिण्याः कीदृशं भवेत् ।।
कुमारदष्टः कीदृक्स्यात्सूतिकादंशितस्य च ।। १ ।।
रूपं नपुंसकेनेह व्यंतरेण च कीदृशम् ।।
एतदाख्याहि मे सर्वमेभिर्दष्टस्य लक्षणम् ।। २ ।। ।।
।। कश्यप उवाच ।। ।।
अतः परं प्रवक्ष्यामि नागानां रूपलक्षणम् ।।
सर्पदष्टस्य च तथा समासाद्द्विजपुंगव ।। ३ ।।
अथ सर्पेण दष्टस्य ऊर्ध्व दृष्टिः प्रजायते ।।
सर्पीदष्टस्य च तथा अधोदृष्टिः प्रजायते ।। ४ ।।
कन्यादष्टस्य वामा स्यादृष्टिर्द्विजवरोत्तम ।।
कुमारेणापि दष्टस्य दक्षिणा एव जायते ।।५।।
गर्भिण्या वाथ दष्टस्य तथा स्वेदश्च जायते ।।
रोमांचः सूतिकायास्तु वेपथुश्चापि जायते ।।
नपुंसकेन दष्टस्य अंगमर्दः प्रजायते ।। ।।६।।
पन्नग्यः प्रभवो रात्रौ दिवा सर्पो विषाधिकः।।
नपुंसकस्तु संध्यायां कश्यपेन तु भाषितम्।।७।।
अंधकारे तु दष्टो य उदके गहने वने ।।
सुप्तो वा चेत्प्रमत्तो वा यदि सर्पं न पश्यति ।।
दष्टरूपाण्यजानन्वै कथं वैद्यचिकित्सितम्।।८।।
चतुर्विधा इह प्रोक्ताः पन्नगास्तु महात्मना ।।
दर्वीकरा मंडलिनो राजिला व्यंतरास्तथा ।। ९ ।।
दर्वीकरा वातविषा मंडला पैत्तिकाः स्मृताः ।।
श्लेष्मला राजिल्रा ज्ञेया व्यंतराः सान्निपातिकाः ।। 1.36.१० ।।
रक्तं परीक्षयेदेषां सर्पाणां तु पृथक्पृथक् ।।
कृष्णं दर्वीकराणां तु जायते नाल्पमुल्बणम् ।। ११ ।।
रक्तं घनं च बहुशः शोणितं मंडली कृतम् ।।
पिच्छिलं राजिले स्वल्पं तद्वद्व्यंतरके तथा ।। १२ ।।
सर्पा ज्ञेयास्तु चत्वारः पंचमो नोपलभ्यते ।।
ब्राह्मणः क्षत्रियो वैश्यः शूद्र श्चैव चतुर्थकः ।। १३ ।।
ब्राह्मणे मधुरं दद्यात्तिक्तं दद्यात्तथोत्तरे ।।
वैश्ये कर्षफलं दद्याच्छूद्रे त्रिस्थूणमेव च ।। १४ ।।
ब्राह्मणेन तु दष्टस्य दाहो गात्रेषु जायते ।।
मूर्च्छा च प्रबला स्याद्वै नात्मानमभिजानते ।। १५ ।।
श्यामवर्णं मुखं च स्यान्मज्जास्तंभश्च जायते ।।
तस्य कुर्यात्प्रतीकारं येन संपद्यते सुखम् ।। १६ ।।
अश्वगंधाप्यपामार्गः सिंदुवारं सुरामयम् ।।
एतत्सर्पिः समायुक्तं पाने नस्ये च दापयेत् ।।
एतेनैवोपचारेण सुखी भवति मानवः ।। १७ ।।
क्षत्रियेण तु दष्टस्य कंपो गात्रेषु जायते ।।
मूर्छा मोहस्तथा स्याद्वै नात्मानमभिवेत्ति सः ।। १८ ।।
जायते वेदना तस्य ऊर्ध्वं चैव निरीक्षते ।।
तस्य कुर्यात्प्रतीकारं येन संपद्यते सुखम् ।। १९ ।।
अर्कमूलमपामार्गं प्रियंगुमिन्द्रवारुणीम् ।।
एतत्सर्पिः समायुक्तं पानं नस्यं च दापयेत् ।।
एतेनैवोपचारेण सुखी भवति मानवः ।। 1.36.२० ।।
वैश्येनापि हि दष्टस्य शृणु रूपाणि यानि तु ।।
श्लेष्मप्रकोपो लाला च न चोद्वहति चेतनाम् ।। २१ ।।
मूर्छा च प्रबला यस्य आत्मानं नाभिनंदति ।।
तस्य कुर्यात्प्रतीकारं येन संपद्यते सुखम् ।। २२ ।।
अश्वगंधा सगोमूत्रा गृह धूमं सगुग्गुलम् ।।
शिरीषार्कपलाशेन श्वेता च गिरिकर्णिका ।। २३ ।।
गोमूत्रेण समायुक्तं पानं नस्यं च दापयेत् ।।
एष वैश्येन दष्टानामगदः परिकीर्त्तितः ।। २४ ।।
शूद्रेणापि हि दष्टस्य शृणु तत्त्वेन गौतम ।।
कुथ्यते वेपते चैव ज्वरः शीतं च जायते ।। २५ ।।
अंगानि चुलुचुलायंते शूद्रदष्टस्य लक्षणम् ।।
तत्रागदं प्रवक्ष्यामि येन संपद्यते सुखम् ।। २६ ।।
पद्मं च लोध्रकं चैव क्षौद्रं पद्मस्य केसरम् ।।
मधूकसारं मधु च श्वेतां च गिरिकर्णिकाम् ।। २७ ।।
एतानि समभागानि पेषयेच्छीतवारिणा ।।
पानलेपांजनैर्नस्यैः सुखी भवति मानवः ।। २८ ।।
पूर्वाह्णे चरते विप्रो मध्याह्ने क्षत्रियश्चरेत् ।।
अपराह्ने चरेद्वैश्यः शूद्रः संध्याचरो भवेत् ।।२९।।
आहारो वायुपुष्पाणि ब्राह्मणानां विदुर्बुधाः ।।
मूषिका क्षत्रि याणां च आहारो द्विजसत्तम ।।
वैश्या मंडूकभक्षाश्च शूद्राः सर्वाशिनस्तथा ।।1.36.३०।।
अग्रतो दशते विप्रः क्षत्रियो दक्षिणेन तु ।।
वामपार्श्वे सदा वैश्यः पश्चाद्वै शूद्र आदशेत् ।। ३१ ।।
मदकाले तु संप्राप्ते पीड्यमाना महाविषाः ।।
अवेलायां दशंते वै मैथुनार्ता भुजंगमाः ।। ३२ ।।
पुष्पगंधाः स्मृता विप्राः क्षत्रियाश्चंदनावहाः ।।
वैश्याश्च घृतगंधा वै शूद्राः स्युर्मत्स्यगंधिनः ।। ३३ ।।
वासं तेषां प्रवक्ष्यामि यथावदनुपूर्वशः ।।
वापीकूपतडागेषु गिरिप्रस्रवणेषु च ।।
वसंति ब्राह्मणाः सर्पा ग्रामद्वारे चतुष्पथे ।।३४।।
आरामेषु पवित्रेषु शुचिष्वायतनेषु च ।।
वसन्ति क्षत्रिया नित्यं तोरणेषु सरःसु च ।।३५।।
श्मशाने भस्मशालासु पलालेषु तटेषु च ।।
गोष्ठेषु पथि वृक्षेषु विप्र वैश्या वसंति च ।।३६।।
अविविक्तेषु स्थानेषु निर्जनेषु वनेषु च ।।
शून्यागारे श्मशाने च शूद्रा विप्र वसंति च ।। ३७ ।।
श्वेताश्च कपिलाश्चैव ये सर्पास्त्वनलप्रभाः ।।
मनस्विनः सात्त्विकाश्च ब्राह्मणास्ते बुधैः स्मृताः ।।३८।।
रक्तवर्णाः सुवर्णाभाः प्रवालमणिसंनिभाः ।।
सूर्यप्रभास्तथा विप्र क्षत्रियास्ते भुजंगमाः।।३९।।
नानाविचित्रराजीभिरतसीवर्णसन्निभाः।।
बाण पुष्पसवर्णाभा वैश्यास्ते वै भुजंगमाः ।। 1.36.४० ।।
काकोदरनिभाः केचिद्ये च अंजनसन्निभाः ।।
काकवर्णा धूम्रवर्णास्ते शूद्राः परिकीर्तिताः ।।४१।।
यस्य सर्पेण दष्टस्य दंशमंगुष्ठमंतरम् ।।
बालदष्टं विजानीयात्कश्यपस्य वचो यथा।। ४२ ।।
यस्य सर्पेण दष्टस्य दंशं द्व्यंगुलमंतरम् ।।
यौवनस्थेन दष्टस्य एतद्भवति लक्षणम् ।। ४३ ।।
यस्य सर्पेण दष्टस्य सार्धं द्व्यंगुलमzतरम् ।।
वृद्धदष्टं विजानीयात्कश्यपस्य वचो यथा ।। ४४ ।।
अनंतः प्रेक्षते पूर्वं वामपार्श्वे तु वासुकिः ।।
तक्षको दक्षिणेनेह कर्कोटः पृष्ठतस्तथा ।। ४५ ।।
चलते भ्रमते पद्मो महापद्मो निमज्जति ।।
विसंज्ञस्तिष्ठते चैव शंखपालो मुहुर्मुहुः ।। ४६ ।।
सर्वेषां कुरुते रूपं कुलिकः पन्नगोत्तमः ।।
अनंतस्य दिशा पूर्वा वासुकेस्तु हुताशनी ।।४७।।
दक्षिणा तक्षकस्योक्ता कर्को टस्य तु नैर्ऋती ।।
पश्चिमा पद्मनाभस्य महापद्मस्य वायुजा ।।
उत्तरा शंखपालस्य ऐशानी कंबलस्य तु।।४८।।
अनंतस्य भवेत्पद्मं वासुकेः स्यात्तथोत्पलम् ।।
स्वस्तिकं तक्षकस्योक्तं कर्कोटस्य तु पंकजम् ।। ४९ ।।
पद्मस्य तु भवेत्पद्मं शूलं पद्मेतरस्य तु ।।
शंखपाले भवेच्छत्रं कुलिकस्या र्धचन्द्रकम् ।। 1.36.५० ।।
अनंतकपिलौ विप्रौ क्षत्रियौ शंखवासुकी ।।
महापद्मस्तक्षकश्च वैश्यौ विप्र प्रकीर्तितौ ।।
पद्मकर्कोटकौ शूद्रौ सदा ज्ञेयौ मनीषिभिः ।। ५१ ।।
अनंतकुलिकौ वर्णतो ब्रह्मसंभवौ ।।
वासुकिः शंखपालश्च रक्तौ ह्यग्निसमुद्भवौ ।। ५२ ।।
तक्षकश्च महापद्म ईषत्पीतौ बभू वतुः ।।
पद्मकर्कोटकौ विप्र सर्पौ कृष्णौ बभूवतुः ।। ५३ ।।
हयं यानं वृषं छत्रं राजानमथ पावकम् ।।
धरणीमुत्पाद्य धृतानेतान्सिद्धिकरान्विदुः ।। ।।५४।।
पूर्णकुम्भः पाताका च कांचनं मणयस्तथा ।।
शिरीषं माणिकं कण्ठे जीवजीवेति सुव्रत ।।
एतेषां दर्शनं श्रेष्ठं कन्या चैकप्रसूयिका ।।५५।।
चतुःषष्टिः समाख्याता भोगिनो ये तु पन्नगाः ।
अदृश्यास्तेषु षट्त्रिंशद्दृश्यास्त्रिंशन्महीचराः ॥ ५६ ॥
विंशच्च स्रग्विणः प्रोक्ताः सप्त मंडलिनस्तथा ।
राजीवन्तो दश प्रोक्ता दर्व्यः षोडश पंच च ॥ ५७ ॥
दुंदुभो डुंडुभश्चैव चेटभश्चेंद्रवाहनः ॥
नागपुष्पसवर्णाख्या निर्विषा ये च पन्नगाः॥
एवमेव तु सर्पाणां शतद्विनवति स्मृतम् ॥५८॥
वराहकर्णीं गजपिप्पलीं च गांधारिकां पिप्पलदेवदारु ॥
मधूकसारं सहसिंदुवारं हिंगुं च पिष्ट्वा गुटिका च कार्या ॥५९॥
॥ सुमंतुरुवाच ॥ ॥
 इत्युक्तवान्पुरा वीर गौतमस्य प्रजापतिः॥
लक्षणं सर्वैनागानां रूपवर्णौ विषं तथा ॥ 1.36.६० ॥
तस्मात्संपूजयेन्नागान्सदा भक्त्या समन्वितः ॥
विशेषतस्तु पंचम्यां पयसा पायसेन च ॥६१॥
श्रावणे मासि पंचम्यां शुक्लपक्षे नरा धिप ।
द्वारस्योभयतो लेख्या गोमयेन विषोल्बणाः ॥ ६२ ।
पूजयेद्विधिवद्द्वारं दधिदूर्वाक्षतैः कुशैः ।
गंधपुष्पोपहारैश्च ब्राह्मणानां च तर्पणैः॥ ६३।।
ये त्वस्यां पूजंतीह नागान्भक्तिपुरःसराः।।
न तेषां सर्वपतो वीर भयं भवति कर्हिचित्।६४।।
इति श्रीभविष्ये महापुराणे शतार्द्ध साहस्र्यां संहितायां ब्राह्मे पर्वणि पञ्चमीकल्पे श्रावणिकनागपञ्चमीव्रतवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥ ॥ छ ॥