कार्तिकेयवर्णनम्

शतानीक उवाच
अहो व्रतं महत्कष्टं संशयो हृदि वर्तते ।
कार्तिकेयस्य माहात्म्यं श्रुत्वा जन्म तथा द्विज । । १
अनेकजनितस्येह कार्त्तिकेयस्य सुव्रत ।
माहात्म्यं सुमहद्विप्र कथमेतद्विभाव्यते । । २
जातिः श्रेष्ठा भवेद्वीर उत कर्म भवेद्वरम् ।
संशयस्तु महानत्र दृष्ट्वा मे कृत्तिकासुतम् । । ३
एतद्वद विनिश्चित्य न यथा संशयो भवेत् ।
जन्मतः कर्मणश्चैव यज्ज्वायस्तद् ब्रवीहि मे । । ४
सुमन्तुरुवाच
इममर्थं पुरा पृष्टो ब्रह्मा शिष्यैर्मनीषिभिः ।
यदुक्तं तेन तेषां च तत्ते वच्मि निबोध मे । । ५
सुरज्येष्ठं सुखासीनमभिगम्य महर्षयः ।
प्रणम्य च महाबाहो विश्वामित्रस्य विप्रताम् । । ६
दृष्ट्वा विस्मयमागत्य कौतूहलसमन्विताः ।
भक्तिं श्रद्धां पुरोधाय प्रणम्यानतकन्धराः । । ७
ऋषय ऊचुः
भो ब्रह्मन्नादकल्पे हि ब्राह्मण्यं ब्रूहि किं भवेत् ।
जात्यध्ययनदेहात्मसंस्काराचारकर्मणाम्१ । । ८
बाह्याभ्यन्तरसामान्यविशेषा यदि कृत्रिमाः ।
मनोवाक्कर्मशारीरजातिद्रव्यगुणात्मकाः । । ९
सन्त्यक्तव्याः प्रसिद्धा ये जातिभेदविधायिनः ।
वस्तुभूताः परोक्षैर्वा प्रमाणैर्न विनिश्चिताः । । 1.40.१०
अव्यक्तागमसिद्धश्चेज्जातिभेदविधिर्नृणाम् ।
विकल्पोऽयं न पुष्णाति भवतः शेमुषीबलम् । । ११
ब्रह्मोवाच
एवमेतन्न सन्देहो यथा यूयं वदन्ति१ ह ।
शृणुध्वं योगिनो वाक्यं सतर्कं शिष्यश्रेयसे । । १२
योगेश्वर उवाच
प्रमाणे हि प्रसिद्धे तु भिन्नार्थविषये यतः ।
स्पष्टयोग्यार्थविषयं प्रत्यक्षं तावदीक्षते । । १३
समान्यातीन्द्रियग्राही सिद्धान्तोऽभ्युपगम्यते ।
स एव भगवानेकं प्रमाणमिति चेन्न तत् । । १४
यस्माद्विविधमे तत्ते सङ्कटं भद्र वर्तते ।
वेदस्य पौरुषेयत्वं नित्यजातिसमर्थकम् । । १५
कार्या विशेषा वेदोक्ता न युक्तमकृतं वचः ।
ताल्वादिकरणानां च व्यापारानन्तरं श्रुतेः । । १६
व्यापारात्परतस्तस्य प्रागभावविशेषतः ।
तद्भावानुविधायित्वमन्वयव्यतिरकेतः । । १७
तस्माद्धूमाग्निवद्वार्थफलभावोऽवतिष्ठते ।
न च व्यापारवचसोरन्यथानुपपत्तितः । । १८
पुरुषानुगता जातिर्ब्राह्मणत्वादिकास्ति चेत् ।
द्विवर्णजातिभेदेन प्रत्याक्षार्थोपलक्षणात् । । १९
गोवर्गमध्यं च गतो यथाश्वो निर्धार्यते ज्ञैः सुविचक्षणत्वात् ।
मनुष्यभावादविशिष्यमाणस्तद्वद्द्विजः शूद्रगणान्न भिन्नः । । 1.40.२०
मनुष्यजातेर्न परो विशेषो यः कल्प्यते सर्वनरानुयायी ।
संस्कारयुक्ता हि क्रियाविशिष्टा द्विजन्मनां शूद्रविवेकहेतुः । । २१
जीवोऽपि ब्राह्मणः प्रोक्तो यैरतत्त्वज्ञमानवैः ।
प्रभ्रष्टब्राह्मणत्वास्ते जायन्ते विप्रसङ्गतः । । २२
जराजन्मान्तरक्लेशदुष्टग्राहकुलाकुलम् ।
नर तिर्यगसच्छूद्र योनिदुःखोर्मिसंकटम् ।। २३
दौस्थित्यरोगशोकार्तिजनावर्तसमन्वितम् ।
श्वानुशूकरचाण्डालकृमिकूर्मादिकायकम् । । २४
संसारसागरं घोरं मग्नः खलु परिप्लवन् ।
भूरिपापभराक्रान्तः स जीवो ब्राह्मणः कथम् । । २५
ब्रह्मोवाच
सप्तव्याधकथा विप्रा मनुना परिकीर्तिताः ।
तं निशम्य यदुश्रेष्ठ नित्यं जातिपदं त्यजेत् । । २६
सप्तव्याधा दशार्णेषु१ मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः सरिद्द्वीपे हंसाः सरसि मानसे । । २७
तेऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः।
प्रस्थिता दीर्घमध्वानं मृयं किमवसीदथ । । २८
तस्मान्न जीवे ब्राह्मण्यं पश्यामो हि कथञ्चन । । २९
शस्त्रादिमद्भार्गवजातियुक्तो गजाश्वगोजोष्ट्रखरादिकानाम् ।
शक्त्या कृतो ह्यङ्गजवर्णधर्मैर्भेदः स्फुटं लक्षणतोऽत्र यद्वत् । । 1.40.३०
तदुत्तरान्नैव विकर्तनीया ब्राह्मण्यजातिनृषु नास्ति काचित् ।
नित्याकृतिर्नानुपभेदरूपा यथा हि भेदः परमोऽत्र सिध्येत् । ।
सिताद्यसाधारणतुल्यरूपाः सनातनोऽङ्गेषु न वर्णभेदः । । ३१
ब्राह्मण्यमध्रुवमिदं किल कृत्रिमत्वादकृत्रिमं भवति सामयिकत्वयोगात् ।
साङ्केतिकं सुकृतलेशविशेषलब्धं वाणिज्यभेषजकृतामिव जातिभेदाः । । ३२
किं ब्राह्मणा ये सुकृतं त्यजन्ति किं क्षत्रिया लोकमपालयन्तः .।
स्वधर्महीना हि तथैव वैश्याः शूद्राः स्वमुख्यक्रियया विहीनाः । । ३३
तस्मान्न गोश्ववत्कश्चिज्जातिभेदोऽस्ति देहिनाम् ।
कार्यशक्तिनिमित्तस्तु सङ्केतः कृत्रिमो भवेत् । । ३४
एवं प्रमाणैः प्रतिषिध्यमानां साङ्केतिकीं याति नरो व्यवस्थाम् ।
स्वकीयसिद्धां स्वमतैर्निषिद्धां न बुध्यते मूढमना वराकः । । ३५
गोमहिष्यजवाज्युष्ट्रवानेयाविगजाधिपाः ।
प्रेष्यवार्धुषिकाकार्यकरणोद्यतमानसाः । । ३६
वणिक्कारुक्रियाविष्टा१ दिव्यास्तेऽपि च ये द्विजाः ।
विनष्टास्ते तु विज्ञेयाः क्रव्यादाश्च कुशीलवाः । । ३७
पलाण्डुलशुनादाश्च मृग्युष्ट्रीक्षीरपायिनः ।
मांससर्वरसक्षीरक्रयविक्रयकारिणः । । ३८
पुनर्भूवृषलीवेश्याचाण्डालस्त्रीनिषेविणः ।
शूद्रान्नरसपुष्टाङ्गाः प्रेतवस्त्रान्नभोजनाः । । ३९
मृतसूतकलब्धान्नपानाद्यभ्यवहारिणः ।
ब्रह्मदेवपितृभूतमनुष्येषु बहिष्कृताः । ।1.40.४०
मात्सर्यमदविद्वेषतृष्णाकामतमोमयाः ।
हीनाचारा१ हि ये केचिदपरे पिशुना द्विजाः । ।
प्रकारैर्बहुभिः सर्वे ते प्रणश्यन्ति नान्यथा । ।४ १
एवं शास्त्रोदितन्यायमार्गभ्रष्टास्तु ये नराः ।
विशिष्टगोत्रसंस्कारकलापसकलात्मकाः । ।४ २
वेदानध्यापयन्तोऽपि तेऽधीयानाः श्रुतिक्रमात् ।
ब्राह्मणत्वाद्विहीयन्ते दुराचारविघायिनः । ।४ ३
तस्मान्न जातिरेकत्र भूतात्मास्त्यनपायिनी ।
नाशित्वादत्र च श्लोकान्मानवाः समधीयते । ।४.
सद्यः पतति मांसेन लाक्षया लवणेन च ।
त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविकयी । ।४५
गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् ।
प्रेष्यान्वार्धुषिकांश्चैव शूद्रास्तान्मनुरब्रवीत् । ।४६
शूद्रो ब्राह्मणतामेति ब्राह्मणश्चैति शूद्रताम् ।
क्षत्रियो याति विप्रत्वं विद्याद्वैश्यं तथैव च । ।४७

इति श्री भविष्ये महापुराण शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे कार्तिकेयवर्णने जातिवर्णनं नाम चत्वारिंशोऽध्यायः ।४ ० ।