ब्राह्मणविवेकवर्णनम्

ब्रह्मोवाच
वेदाध्ययनमप्येतद्ब्राह्मण्यं प्रतिपद्यते ।
विप्रवद्वैश्यराजन्यौ राक्षसा रावणादयः । । १
श्वादचाण्डालदासाश्च लुब्धकाभीरधीवराः ।
येन्येऽपि वृषलाः केचित्तेऽपि वेदानधीयते । । २
यदा देशान्तरं गत्वा ब्राह्मण्यं क्षत्रियं श्रिताः ।
व्यापाराकारभावाद्यैर्विप्रतुल्यैः प्रकल्पितैः । । ३
वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ।
प्रोद्वहन्ति शुभां कन्यां शुद्धब्राह्मणजा नराः । ।४
अथवाधीत्य वेदांस्तु क्षत्रवैश्यैस्तु१ वा नराः ।
गौडपूर्वां कृतामेयुर्जातिं वा दाक्षिणात्यजाम् । । ५
अपरिज्ञातशूद्रत्वाद्ब्राह्मण्यं यान्ति कामतः ।
तस्मान्न ज्ञायते भेदो वेदाध्यायक्रियाकृतः । । ६
शास्त्रकारैस्तथा चोक्तं न्यायमार्गानुसारिभिः ।
ते साधु मतमाकर्ण्य सन्तः सन्ति विमत्सराः । । ७
आचारहीनान्न पुनंति वेदा यद्यप्यधीताः सह षद्भिरङ्गैः२ ।
शिल्पं हि वेदाध्ययनं द्विजानां वृत्तं स्मृतं ब्राह्मणलक्षणं तु । । ८
अधीत्य चतुरो वेदान्यदि वृत्ते न तिष्ठति ।
न तेन क्रियते कार्यं स्त्रीरत्नेनेव षण्ढकः । । ९
शिखाप्रणवसंस्कारसन्ध्योपासनमेखलाः ।
दण्डाजिनपवित्राद्याः शूद्रेष्वपि निरङ्कुशाः । । 1.41.१०
प्रसङ्गोऽपि हि शूद्राणां न शक्यो विनिवारितुम् ।
देवोत्तमत्रयेणापि निवर्तन्ते नराः स्वयम् । । ११
तस्मान्नैतेऽपि लक्ष्यन्ते विलक्षणतया१ नृणाम् ।
यज्ञोपवीतसंस्कारमेखलाचूलिकादयः । । १२
आभिचारिकमन्त्राद्यैर्दुर्लभत्वादिभाषणैः ।
ब्राह्मणस्यैव शक्तिश्चेत्केनास्य विनिहन्यते । । १३
तपः सत्यादिमाहात्म्याद्देवतासमयस्मृतिः ।
मन्त्रशक्तिर्नृणामेषां सर्वेषामपि विद्यते । । १४
वञ्चनं दुर्वचस्यापि क्रियते सर्वमानवैः ।
शूद्रब्राह्मणयोस्तस्मान्नास्ति भेदः कथञ्चन । । १५
शापानुग्रहकारित्वं शक्तिभेदो न विद्यते ।
चौरचाटादिराजन्यदुर्जनाभिहते नृणाम् । । १६
आत्मादुःखोदयापायं स्वेषु जन्तुषु रक्षणम् ।
कर्तुं न प्रभवेच्छूद्रो ब्राह्मणस्तद्वदेव हि । । १७
मा भूद्युगे कलावेतद्देशे चाकार्यकृद्द्विजे ।
स्यादन्यदेशकालादौ द्विजानामतिशायिनाम् । । १८
शापानुग्रहसामर्थ्यमन्यद्वाध्यात्मगोचरम् ।
ब्रह्मसाधनमेतद्धि लिङ्गं केचित्प्रचक्षते । । १९
संसारारक्तचेतस्का मोहान्धतमसावृताः ।
पतन्त्युन्मार्गगर्तेषु प्रत्यग्नि शलभा यथा । । 1.41.२०
जातिधर्मः स्वयं किञ्जिद्विशेषः श्रुतिसङ्गमात् ।
असिद्धः शूद्रजातीनां प्रसिद्धो विप्रजातिषु । । २१
संस्कारो योनिसाध्यो वा सामग्री प्रभवोऽथ वा ।
शूद्रेभ्योऽतिशयं धत्ते यः साधारणतागुणः । । २२
विप्राणां पञ्चधा भेदः कल्पनीयस्तु पण्डितैः ।
न जातिजस्त्रयीजो वा विशेषो युक्तिबाधकात् । ।
क्रमाक्रमक्रियाः सन्ति न सनातनवस्तुनः । । २३
नित्यो न हेतुर्विगतक्रियत्वाद्धेतुर्भवेद्वेदविशेषतः सः ।
स तत्समस्तत्प्रतिसन्निधानात्कालात्ययेक्षित्वमयुक्तमेव । । २४
स्वान्तः शरीरवृत्तिस्थः श्रुतियोगादुदेति यः ।
सोऽनन्यवेदविज्ञातस्वभावोऽन्यैर्न गम्यते । २५
विशिष्टाधीतिधर्मत्वे कृत्रिमा ब्रह्मसङ्गतिः ।
यस्यास्यतिशयस्तस्य नान्यो नाश्रयते यदि । । २६
दृश्यस्वभावं किमभीष्टमेतद्ब्राह्मण्यमाहोस्विददृष्टरूपम् ।
सर्वैः प्रतीयेत हि दृश्यरूपं ततोऽन्यथावद्गतिरेव न स्यात् । । २७
सामग्र्यभावात्परमं विशेषं भूदेवगात्रस्थमभूमिदेवाः ।
स्मरन्ति तेनात्मनि पुण्यपापं यथा तथेत्येतदयुक्तमुक्तम् । । २८
सामग्र्यनुष्ठानगुणैः समग्राः शूद्रा यतः सन्ति समा द्विजानाम् ।
तस्माद्विशेषो द्विजशूद्रनाम्नोर्नाध्यात्मिको बाह्यनिमित्तको वा । । २९
संस्कारतः सोऽतिशयो यदि स्यात्सर्वस्य पुंसोऽस्त्यतिसंस्कृतस्य ।
यः संस्कृतो विप्रगणप्रधानो व्यासादिकैस्तेन न तस्य साम्यम्१ । । 1.41.३०
हेतुत्वं घटते१ नैषां जात्यादीनामसम्भवात् ।
जातेरकृतकत्वाच्च अधीते न विशेषतः । । ३१
संस्कारातिशयाभावादन्तरस्यागते परैः ।
भौतिकत्वाच्छरीरस्य समस्तानामसंहतैः । । ३२
किं चान्यनास्तिकम्लेच्छ यवनादिजनेष्वलम्२ । । ३३
वेदोदितबहिर्दुष्टचरितेषु दुरात्मसु ।
धर्मादतिशयो३ दृष्टः क्रूरसाहसिकादिषु । ।
तस्माद्विप्रेषु जात्यादिसामग्रीप्रभवो न सः । । ३४
तस्मान्न च विभेदोऽस्ति न बहिर्नान्तरात्मनि ।
सुखादौ न चैश्वर्ये नाज्ञायां नाभयेष्वपि । ।३ ५
न वीर्ये नाकृतौ नाक्षे न व्यापारे न चायुषि ।
नाङ्गे पुष्टे न दौर्बल्ये न स्थैर्ये नापि चापले । । ३६
न प्रज्ञायां न वैराग्ये न धर्मे न पराक्रमे ।
न त्रिवर्गे न नैपुण्ये न रूपादौ न भेषजे । । ३७
न स्त्रीगर्भे न गमने न देहमलसम्प्लवे ।
नास्थिरन्ध्रे न च प्रेम्णि न प्रमाणेषु लोमसु । । ३८
शूद्रब्राह्मण्योर्भेदो मृग्यमाणोऽपि यत्नतः ।
नेक्ष्यते सर्वधर्मेषु संहतैस्त्रिदशैरपि । । ३९
उक्तमात्रा विसम्भूतिर्विचारक्रमकारिभिः ।
वृद्धवृन्दारकाधीशैरप्रधृष्यमिदं वचः । । 1.41.४०
न ब्राह्मणाश्चन्द्रमरीचिशुभ्रा न क्षत्रियाः किंशुकपुष्पवर्णाः ।
न चेह वैश्या हरितालतुल्याः शूद्रा न चाङ्गारसमानवर्णाः । । ४१
पादप्रचारैस्तनुवर्णकेशैः सुखेन दुःखेन च शोणितेन ।
त्वङ्मांसमेदोस्थिरसैः१ समानाश्चतुष्प्रभेदा हि कथं भवन्ति ।।४२
वर्णप्रमाणाकृतिगर्भवासवाग्बुद्धिकर्मेन्द्रियजीवितेषु ।
बलत्रिवर्गामयभेषजेषु न विद्यते जातिकृतो विशेषः ।।४३
स एक एवात्र पतिः प्रजानां कथं पुनर्जातिकृतः प्रभेदः ।
प्रमाणदृष्टान्तनयप्रवादैः परीक्ष्यमाणो विघटत्वमेति ।।४४
चत्वार एकस्य पितुः सुताश्च तेषां सुतानां खलु जातिरेका ।
एवं प्रजानां हि पितैक एवं पित्रैकभावान्न च जातिभेदः ।।४५
फलान्यथोदुम्बरवृक्षजातेर्यथाग्रमध्यान्तभवानि यानि ।
वर्णाकृतिस्पर्शरसैः समानि तथैकतो जातिरतिप्रचिन्त्या ।।४६
ये कौशिकाः काश्यपगौतमाश्च कौंडिन्यमाण्डव्यवशिष्ठगोत्राः ।
आत्रेयकौत्साङ्गिरसः सगर्गा मौद्गल्यकात्यायनभार्गवाश्च ।।४७
गोत्राणि नानाविधजातयश्च भ्रातृस्नुषामैथुनपुत्रभावाः ।
वैवाहिकं कर्म न वर्णभेदः सर्वाणि शिल्पानि भवन्ति तेषाम् ।।४८
ये चान्ये२ पण्डिताः प्राहुर्देहब्राह्मणतां नराः ।
तेषां दुर्दृष्टितिमिरमपनीयानुकम्प्य च ।।४९
न्यायाञ्जनौषधैर्दिव्यैः परिणामसुखावहैः ।
उपनीतः प्रयत्नेन सुदृष्टिं संविदद्महे ।।1.41.५०
मृतिमत्त्वाच्च नाशित्वं नाशित्वाच्छेषभूतवत्१ ।
देहाधारनिविष्टानां ब्राह्मण्यं न प्रकल्प्यते । ।५ १
एकैकोवयवस्तेषां न ब्राह्मण्यं समश्नुते ।
न चानेकसमूहेऽपि सर्वथातिप्रसङ्गतः । ।५२
पृथिव्युदकवाय्यग्निपरिणामविशेषतः ।
देहतः सर्वभूतानां ब्राह्मणत्वप्रसङ्गतः । ।५३
देहस्य ब्राह्मणत्वं यैरतत्त्वज्ञैः प्रकल्प्यते ।
संस्कर्तॄणां शरीरस्य तेषां न ब्रह्मता भवेत् । ।५४
मृग्यमाणे प्रयत्नेन देहे तन्नोपलभ्यते ।
तस्मान्न देहे ब्राह्मण्यं नापि देहात्मकं भवेत् । ।५५
वर्णापसदचांडालश्वादादीनां३ प्रसज्यते ।
यदि देहस्य विप्रत्वं भवद्भिरुपगम्यते । ।५६
देहशक्तिगुणैः क्षीणैः कायभस्मादिरूपवत् ।
तस्माद्देहात्मकेनैतद्ब्राह्मण्यं नापि कर्मजम् । । ५७

इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे ब्राह्मण्यविवेकवर्णनं नामैकचत्वारिंशोऽध्यायः ।४ १ ।