वर्णव्यवस्थावर्णनम्

ब्रह्मोवाच
किं चान्यदपरं यूयं वेदमन्त्रविदो जनाः ।
प्रष्टव्याः कस्य संस्कारे विशेषमुपगच्छत । । १
किं देहस्योत येनासौ निसर्गमलिनः स्थितः ।
शुक्रशोणितसम्भूतः शमलोद्भवकीटवत् । । २
निषेकादिश्मशानान्तैर्विविधैर्विधिविस्तरैः ।
देहिनोऽतिशयं केचिदुपगच्छन्ति मानवाः । । ३
तेषां गूढमनः कायवाग्विदुष्टैः सुचेष्टितैः ।
असंयतमनुष्याणां पक्षोऽयं दूष्यते मया । । ४
वैदिकाखिलसंस्कारसारभूता द्विजातयः ।
सर्वकार्यकरान्सर्वान्वृषलानतिशेरते । । ५
चण्डकर्मा विकर्मस्थो ब्रह्महा गुरुतल्पगः ।
स्तेनो गोघ्नः सुरापाणः परस्त्रीरमणप्रियः । । ६
मिथ्यावादी मदोन्मत्तो नास्तिको वेदनिन्दकः ।
ग्रामयाजकनिर्ग्रन्थौ बहुदोषो दुरासदः । । ७
नि१षिद्धाचारसंसेवी चोरश्चाटो मदोद्धतः ।
धूर्तो नटः शठः पापी सर्वाशी सर्वविक्रयी । । ८
वाङ्मनः कायजैर्दुष्टैर्हता ये ब्राह्मणाधमाः ।
ते न शुद्धिं व्रजन्तीह अपि यज्ञशतैरपि२ । । ९
शूद्राणां यान्यनिष्टानि सम्पद्यन्ते स्वभावतः ।
विप्राणामपि तान्येव निर्विघ्नानि भवन्ति न । । 1.43.१०
तस्मान्मन्त्रोग्निहोत्रं वा वेद्यां पशुवधोऽपि वा ।
हेतवो न हि विप्रत्वे शूद्रैः शक्या क्रिया यथा । । ११
ये चापि कर्मबन्धेन बद्धाः सीदन्ति जन्तवः ।
संसारानलसन्तापविक्लवीकृतमानसाः । । १२
ते जन्ममरणाटव्यां सुखामृतपिपासवः ।
कृपणस्याश्रयेऽटन्तो लभन्ते नैव निर्वृतिम् । । १३
चतुर्वर्णा नरा ये तु तत्तद्वीर्ये नराधमाः ।
तेषां सर्वात्मना सर्वैर्धर्मैः साङ्कर्यमीक्ष्यते ।। १४
शूद्रविप्रादयो योनौ न भिद्यन्ते परस्परम् ।
सर्वधर्मसमानत्वात्संस्कारादि निरर्थकम् ।। १५
तदनुष्ठानवैधर्म्यवियोगमरणादिभिः ।
असेव्यसेवनैरन्यैः शूद्रविप्रादयः समाः ।। १६
बुद्ध्या शक्त्या स्वभावेन धर्मैर्जात्या१दिभिः श्रिया ।
कर्तव्यैः पुण्यपापाभ्यां शनैः२ सर्वशरीरगैः ।। १७
बन्धनै रोधनैर्नानायातनोपायपीडनैः ।
दण्डैरदण्डकरणैर्विषादपरिवेदनैः ।। १८
सात्त्विकः प्रतिधर्माद्यै राजसैश्चित्रवेष्टितैः ।
तामसैस्तापमोहाद्यैर्दूयमानाः पुनः१ पुनः ।। १९
श्लेश्ममारुतपित्ताद्यैर्महाबीभत्सदर्शनैः ।
क्वचिद्वृत्तिनिवृत्तिभ्याममृतानृतहिताहितैः ।।1.43.२०
अलङ्कारोपयोगेन मन्मथाद्यैर्विचेष्टितैः ।
धनलाभाशयानैकजन्तुसङ्घातपातनैः ।।२ १
अधिसिद्धिगतिं याति नानाविधमनोरथैः ।
आत्मस्नेहपरद्वेषस्वीकृतद्रवरक्षणैः ।।२२
अतिक्षीबत्वसंक्षोभक्षुतक्षामक्षमामयैः ।
यातनोपायपैशुन्यशून्यत्वोपशमैस्तथा ।।२३
अप्रशस्तैरनुष्ठानैः समीपस्थापदः समाः ।
हिंसकाः प्राणिनः पापवितथालापभाषिणः ।।२४
साधूनांभाषकाः स्तेना निर्दयाः पारदारिकाः ।
नीचकर्मसमाचाराः सर्वभक्षाः पिशाचवत् ।।२५
दुष्कुलीना दुराचारा नृपाणामुपजीविनः ।
विप्रकार्या विकर्मस्था धनिनो दुष्टचेतसः ।।२६
लुब्धका हरिणान्हत्वा वासं कृत्वा यथा वने ।
तथा खादन्ति पिशुना बहवश्च३ क्रियावशात् ।।२७
वेदवादमधीयानाः१ प्राणिघाताभिशंसिनः ।
पुष्णन्ति कपटैरर्थान्वेदविक्रयिणोऽधमाः । । २८
मायिनो मत्सरग्रस्ता लुब्धा मुग्धा मदोद्धताः ।
चाटाः कार्पटिकाः कूराः कदर्याः कलहप्रियाः । । २९
वाचाटदुष्टकुलटा अटन्तो भाटकैः सह ।
भण्डमान्या भटाटोपैः संक्रुद्धाः सुविलुण्ठकाः । । 1.43.३०
पर्यटा भाटका जीवाः कण्ठकश्लोकभाषिणः ।
विक्रीणते ह्यविक्रेयमभक्ष्यद्रव्यभक्षिणः । । ३१
शूद्रकर्मानुतिष्ठन्तो निस्तपास्ते नराधमाः ।
सेवाध्यापनवाणिज्यकृष्याद्यारम्भलम्भिताः । ।
गृह्णन्तः सम्पदो बाहयाद्द्रव्यधान्यधनादिकाः । । ३२
क्रोधादाभ्यन्तरान्दोषांस्तथा दुष्टमनोरथान् ।
अत्यजन्तो विशिष्टानां श्रेष्ठास्ते कचमर्दिनः । । ३३
नोपदेयानि वस्त्राणि नित्यमाददते द्विजाः ।
हापयन्ति न हेयानि कथं ते गुरवः क्षितौ । । ३४
दन्तिका दिण्डिका भण्डाश्चण्डाश्चण्डालचेष्टिता ।
वैतण्डकास्ते निघ्नन्ति यथा सिंहो मृगान्पशून् । । ३५
निर्ग्रन्थं मुनिमालोक्य मन्यमानाः समुन्नतम् ।
परिभूयावतिष्ठन्ते धिक्तान्रिक्तान्सवैरिणः । । ३६
तस्मात्संसारिकाः सत्त्वाश्चित्तक्लेशकलङ्किताः ।
दौःशील्यदौर्मनस्याद्यैस्तुल्यजातीयबन्धनात् । । ३७
शूद्रां प्ररोचते विप्रो रागिणीं मैथुनं प्रति ।
सा कामदुःखविगमे गर्भं धत्ते समागमे ।।३८
कामकामातुराभ्यस्तु रोचन्ते शूद्रमानवाः ।
मैथुनं प्रति ब्राह्मण्ये तेऽपि तासां सुखावहाः ।।३९
ये तु जात्यादिभिर्भिन्ना गवाश्वोष्ट्मतङ्गजाः ।
ते विजातिषु नो गर्भं कुर्वतेऽपि सुखार्थिनः ।।1.43.४०
अनड्वानेव गोरेव कामं पुष्णाति सङ्गमे ।
घोटकाश्च रतिं सम्यक्कुर्वते वडवासु च ।।४१
पतिं करभमेवाप्य करभी रमते मुदा ।
गजमेव पतिं लब्ध्वा सुखं तिष्ठति हस्तिनी ।।४२
तिर्यग्जातिः स्त्रिया साकं कुर्वाणाऽपि हि मैथुनम् ।
न तस्याः कुरुते गर्भं नरो नापि सुखासिकाम् ।।४३
तिरश्चा सह कुर्वाणा मैथुनं मनुजाङ्गना ।
नाधत्ते तत्कृतं गर्भं न युक्तं मैथुनं तयोः ।।४४
नैवं कश्चिद्विभागोस्ति मैथुने स्त्रीमनुष्ययोः ।
येन संक्षीयते भेदः प्रस्फुटं द्विजशूद्रयोः ।।४५
वेदपाठच्छलेनायं न क्रियाभिः प्रपद्यते ।
बहुभिर्जडसङ्घातैरविशिष्टे पदेऽहनि ।।४६
देहे देहिनि चामुष्मिन्नशुचावनवस्थिते ।
रागद्वेषादिभिर्दोषैरधिकं परिपीडिते ।।४७
कुलालचक्रवद्भ्रान्तमानसे विषयार्णवे ।
घोरदुःखभयाक्रान्ते समाजेऽनीश्वरात्मनि ।।४८
जन्ममृत्युजराशोकानिष्टयोगाग्निपीडिते ।
हीनसत्त्वशरीरादौ न विशेषो विभाव्यते ।।४९
तस्मान्मनुष्यभेदोऽयं सङ्केतबलनिर्मितः ।
ब्राह्मण्यं ब्राह्मणासङ्गाद्ब्राह्मणी चोपसेवते ।।1.43.५०
पतिं त्यक्त्वा मुखस्वादलालसैर्मदलालसैः ।
आसेव्यते विटं गत्वा बन्धकी चेटकैरपि । । ५१
ब्राह्मण्यात्प्रच्यवन्तेऽन्ये महापातकसेविताः ।
व्यलीककल्पनैवैषा तस्माज्जात्यादिकल्पना । । ५२

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णव्यवस्थावर्णनं नाम त्रिचत्वारिंशोऽध्यायः । ४३ ।