भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०४४

वर्णविभागविवेकवर्णनम्

ब्रह्मोवाच
हेयोपादेयतत्त्वज्ञास्त्यक्तान्यायपथागमाः ।
जितेन्द्रियमनोवाचः सदाचारपरायणाः । । १
नियमाचारवृत्तस्था हितान्वेषणतत्पराः ।
संसाररक्षणोपायक्रियायुक्तमनोरथाः । । २
सम्यग्दर्शनसम्पन्नाः समाधिस्था हतक्रुधः ।
स्वाध्यायभक्तहृदयास्त्यक्तसङ्गा विमत्सराः । । ३
विशोका विमदाः शान्ता सर्वप्राणिहितैषिणः ।
सुखदुःखसमालोका विविक्तस्थानवासिनः । । ४
व्रतोपयुक्तसर्वाङ्गा धार्मिकाः पापभीरवः ।
निर्ममा निरहङ्कारा दानशूरा दयापराः । । ५
सत्यब्रह्मविदः शान्ता सर्वशास्त्रेषु निष्ठिताः ।
सर्वलोकहितोपायप्रवृत्तेन स्वयंभुवा । । ६
वागीश्वरेण देवेन नाभेयेन भवच्छिदा ।
ब्रह्मणा कृतमर्यादास्त एवं ब्राह्मणाः स्मृताः । । ७
महातपोधनैरार्यैः सर्वसत्त्वाभयप्रदैः ।
सर्वलोकहितार्थाय निपुणं सुप्रतिष्ठितम् । । ८
वृहत्त्वाद्भगवान्ब्रह्मा नाभेयस्तस्य ये जनाः ।
भक्त्यासक्ताः प्रपन्नाश्च ब्राह्मणास्ते प्रकीर्तिताः । । ९
क्षत्रियास्तु क्षतत्राणाद्वैश्या वार्ताप्रवेशनात् ।
ये तु श्रुतेर्द्रुतिं प्राप्ताः शूद्रास्तेनेह कीर्तिताः । । 1.44.१०
ये चाचाररताः प्राहुर्ब्राह्मण्यं ब्रह्मवादिनः ।
ते तु फलं प्रशंसन्ति यत्सदा मनसेप्सितम् । । ११
क्षमा दमो दया दानं सत्यं शौचं धृतिर्घृणा ।
मार्दवार्जवसन्तोषानहङ्कारतपःशमाः. । । १२
धर्मो ज्ञानमपैशुन्यं ब्रह्मचर्यममूढता ।
ध्यानमास्तिक्यमद्वेषो वैराग्यं च शमात्मता । । १३
पापभीरुत्वमस्तेयममात्सर्यमतृष्णता ।
नैःसङ्ग्यं गुरुशुश्रूषा मनोवाक्काय संयमः । । १४
य एवम्भूतमाचारमनुतिष्ठन्ति मानवाः ।
ब्राह्मण्यं पुष्कलं तेषां नित्यमेव प्रवर्धते । । १५
ते स्वमतास्वादलब्धवर्णाचारा महौजसः ।
सर्वशास्त्राविरोधेन पवित्रीकृतमानसाः । । १६
सज्जनाभिमताः प्राज्ञाः पुराणागमपण्डिताः ।
गीतगीतागमाचाराः स्मृतिकाराः पठन्ति च । । १७
मन्वन्तरेषु सर्वेषु चतुर्युगविभागशः ।
वर्णाश्रमाचारकृतं कर्म सिद्ध्यत्यनुत्तमम् । । १८
संसिद्धायां तु वार्तायां ततस्तेषां स्वयं प्रभुः ।
मर्यादां स्थापयामास यथारब्धं परस्परम् । । १९
ये वै परिगृहीतारस्तेषां सत्त्वबलाधिकाः ।
इतरेषां क्षतत्राणान्स्थापयामास क्षत्रियान् । । 1.44.२०
उपतिष्ठन्ति ये तान्वै याचन्तो नर्मदाः सदा ।
सत्यब्रह्म सदाभूतं वदन्तो ब्राह्मणास्तु ते । । २१
ये चान्येप्यबलास्तेषां वैश्यकर्मणि संस्थिताः ।
कीलानि नाशयन्ति स्म पृथिव्यां प्रागतन्द्रिताः । ।
वैश्यानेव तु तानाह कीनाशान्वृत्तिमाश्रितान् । । २२
शोचन्तश्व द्रवन्तश्च परिचर्यासु ये नराः ।
निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीत्तु सः । । २३
ब्राह्मणक्षत्रियविशां शूद्राणां च परस्परम् ।
कर्माणि प्रविभक्तानि स्यभावप्रभवैर्गुणैः । । २४
शमस्तपो दमः शौचं क्षांतिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् । । २५
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् । । २६
कृषिगोरक्षवाणिज्यं वैश्यकर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् । । २७
योगस्तपो दया दानं सत्यं धर्मश्रुतिर्घृणा ।
ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् । । २८
शिखा ज्ञानमयी यस्य पवित्रं च तपोमयम् ।
ब्राह्मण्यं पुष्कलं तस्य मनुः स्वायम्भुवोऽब्रवीत् । । २९
यत्र वा तत्र वा वर्णे उत्तमाधममध्यमाः ।
निवृत्तः पापकर्मेभ्यो ब्राह्मणः स विधीयते । । 1.44.३०
शूद्रोऽपि शीलसम्पन्नो ब्राह्मणादधिको भवेत् ।
ब्राह्मणो विगताचारः शूद्राद्धीनतरो भवेत् । । ३१
न सुरां सन्धयेद्यस्तु आपणेषु गृहेषु च ।
न विक्रीणाति च तथा सच्छूद्रो हि स उच्यते । । ३२
यद्येका स्फुटमेव जातिरपरा कृत्यात्परं भेदिनी ।
यद्वा व्याहृतिरेकतामधिगता यच्चान्यधर्मं ययौ । ।
एकैकाखिलभावभेदनिधनोत्पत्तिस्थितिव्यापिनी ।
किं नासौ प्रतिपत्तिगोचरपथं यायाद्विभक्त्या नृणाम् । । ३३

इति श्री भविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि षष्ठीकल्पे वर्णविभागविवेकवर्णनं नाम चतुश्चत्वारिंशोऽध्यायः । ४४ ।