भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०५१

← अध्यायः ०५० भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)
अध्यायः ०५१
अज्ञातलेखकः
अध्यायः ०५२ →

महासप्तमीव्रतवर्णनम्

वासुदेव उवाच
माघस्य शुक्लपक्षे तु पञ्चम्यां मत्कुलोद्वह ।
एकभक्तं सदाख्यातं षष्ट्यां नक्तमुदाहृतम् । । १
सप्तम्यामुपवासं तु केचिदिच्छन्ति सुव्रत ।
षष्ठ्यां केचिद्वदन्तीह सप्तम्यां पारणं किल । । २
कृतोपवासः षष्ठ्यां तु पूजयेद्भास्करं बुधः ।
रक्तचन्दनमिश्रैस्तु करवीरैश्च सुव्रत । । ३
गुग्गुलेन महाबाहो संयावेन च सुव्रत ।
पूजयेद्देवदेवेशं शङ्करं २ भास्करं रविम् । । ४
एवं हि चतुरो मासान्माघादीन्पूजयेद्रविम् ।
आत्मनश्चापि शुध्यर्थं प्राशनं गोमयस्य च । । ५
स्नानं च गोमयेनेह कर्तव्यं चात्मशुद्धये ।
ब्राह्मणान्दिव्यभौमांश्च भोजयेच्चापि शक्तितः । । ६
ज्येष्ठादिष्वथ मासेषु श्वेतचन्दनमुच्यते ।
श्वेतानि चापि पुष्पाणि शुभगन्धान्वितानि वै । । ७
कृष्णागरुस्तथा धूपो नैवेद्यं पायसं स्मृतम् ।
तेनैव ब्राह्मणांस्तुष्टान्भोजयेच्च महामते । । ८
प्राशयेत्पञ्चगव्यं तु स्नानं तेनैव पुत्रक ।
कार्तिकादिषु मासेषु अगस्तिकुसुमैः स्मृतम् । । ९
पूजयेन्नरशार्दूल धूपैश्चैवापराजितैः ।
नैवेद्यं गुडपूपास्तु तथा चेक्षुरसं स्मृतम् । । 1.51.१०
तेनैव ब्राह्मणांस्तात भोजयस्व स्वशक्तितः ।
कुशोदकं प्राशयेथाः स्नानं च कुरु शुद्धये । । ११
तृतीये पारणास्यान्ते माघे मासि महामते ।
भोजनं तत्र दानं च द्विगुणं समुदाहृतम् । । १२
देवदेवस्य पूजा च कर्तव्या शक्तितो बुधैः ।
रथस्य चापि दानं तु रथयात्रा तु सुव्रत । । १३
व्रतस्य प्राप्तिहेतोर्वै कर्तव्या विभवे सति ।
दानं स्वर्णरथस्येह यथोक्तं विभवे सति । ।
इत्येषा कथिता पुत्र रथाह्वा सप्तमी शुभा । । १४
महासप्तमी विख्याता महापुण्या महोदया ।
यामुपोष्य धनं पुत्रान्कीर्तिं विद्यामवाप्नुयात् । । १५
तथाखिलं कुवलयं चन्द्रेण च समोर्चिषा । । १६

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे महासप्तमीव्रतवर्णनं नामैकपञ्चाशत्तमोऽध्यायः । ५१ ।