सूर्यदिण्डीसंवादम्

सुमन्तुरुवाच
अथान्यं सरहस्यं तु संवादं वच्मि तेऽखिलम् ।
सूर्यस्य दिण्डिना सार्धं सर्वपापप्रणाशनम् । । १
ब्रह्महत्याभिभूतस्तु परा दिंडिर्महातपाः ।
आराधनाय देवस्य स्तोत्रं चक्रे महात्मनः । । २
श्रुत्वा तस्यार्थतः स्तोत्रं तुतोष भगवान्रविः ।
उवाच देवदेवस्तं दिण्डिनं गणनायकम् । । ३
आदित्य उवाच
हंत दिण्डे प्रसन्नोऽस्मि भक्त्या स्तोत्रेण तेऽनघ१ ।
वरं वृणीष्व धर्मज्ञ यत्ते मनसि वर्तते । । ४
दिण्डिरुवाच
एष एव वरः श्लाघ्यो यत्प्राप्तोऽसि ममान्तिकम् ।
त्वद्दर्शनमपुण्यानां स्वप्नेष्वपि च दुर्लभम् । । ५
यथैषा ब्रह्महत्या मे आगता लोकगर्हिता ।
भवाञ्जानाति सर्वेशो हदिस्थः सर्वदेहिनाम् । । ६
त्वत्प्रसादान्ममेशान३ नाशमाशु प्रयातु वै ।
तथा च दुरितं सर्वं यच्चान्यल्लोकगर्हितम् । । ७
यद्यदिच्छाम्यहं तत्तत्सर्वमस्तु दिवस्पते ।
एतेनैवानुमानेन प्रसन्नो भगवन्निति । । ८
ज्ञातं मया हि मार्तण्डे नाप्रसन्ने विभूतयः ।
एवं सर्वसुखाह्लादमध्यस्थोऽपि हि भानुमान् । । ९
त्वं मामगाधे संसारे मग्नमुद्धर्तुमर्हसि ।
सुखानि तानि चैवान्ते तेषां दुःखं न तत्सुखम् । । 1.62.१०
यदा तु दुःखमागामि किं४ वा कस्यैव भक्षणात् ।
तत्प्रसादं कुरु विभो जगतां त्वं जगत्पते । । ११
ज्ञानदानेन येनैवमुत्तरेयं भवार्णवम् ।
इत्युक्तस्तेन मार्तण्डः कथयामास योगवित् । । १२
योगं निर्बीजमत्यन्तं दुःखसंयोगभेषजम् ।
श्रुत्वा योगं तु तं दिण्डिर्निर्बीजं निष्कलं बभौ । । १३
प्रणिपत्य महातेजा इदं वचनमब्रवीत् ।
देवदेव त्वया योगो यः प्रोक्तो ध्वान्तनाशन । ।
नैष प्राप्यो मया नान्यैर्मानवैरजितेन्द्रियैः । । १४
विषया दुर्जयाः पुंभिरिन्द्रियाकर्षिणः सदा ।
इन्द्रियाणां जयो युक्तः कः शक्तानां करिष्यति । । १५
अहंममेतिविख्यातिर्दुर्जयं चञ्चलं मनः ।
रागादयस्तथा त्यक्तुं शक्या जन्मान्तरैर्यदि२ । । १६
सोऽहमिच्छामि देवेश त्वत्प्रसादादनिर्जितैः ।
रागादिभिरमर्त्यत्वं प्रापुः प्रक्षीणकल्मषाः । । १७
आदित्य उवाच
यद्येवं मुक्तिकामस्त्वं गणनाथ शृणुष्व तम् ।
क्रियायोगं समस्तानां क्लेशानां हानिकारकम्३ ।। १८.
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः । । १९
मद्भावना मद्यजना मद्भक्ता मत्परायणाः ।
मम पूजाकराश्चैव मयि यान्ति लयं नराः । । 1.62.२०
सर्वभूतेषु मां पश्यन्ममवस्थितमीश्वरम्४ ।
कर्त्तासि केन चैव त्वमेवं दोषान्प्रहास्यसि५ । । २१
जङ्गमाजङ्गमे ज्ञाते मय्यासक्ते समन्ततः ।
रागलोभादिनाशेन भवित्री कृतकृत्यता । । २२
भक्त्यातिप्रणयस्यापि चञ्चलत्वान्मनो यदि ।
मय्यावेशं दधद् भूयः कुरु मद्रूपिणीं तनुम् । । २३
सुवर्णरजताद्यैस्त्वं शैलमृद्दारुलेखनम् ।
पूजोपहारैर्विविधैः सम्पूजय त्रिलोचनम् । । २४
तस्याश्रितं समाविश्य सर्वभावेन सर्वदा ।
पूजिता सैव ते भक्त्या ध्याता चैवोपकारिणी । । २५
गच्छंस्तिष्ठन्स्वपन्भुञ्जस्तामेवाग्रे च पृष्ठतः ।
उपर्यधस्तथा पार्श्वे चिन्तयंस्तन्मयश्च वै । । २६
स्नानैस्तीर्थोदकैर्हद्यैः १पुष्पैर्गन्धानुलेपनैः ।
वासोभिर्भूषणैर्भक्ष्यैर्गीतवाद्यैर्मनोरमैः । । २७
यच्च यच्च तवेष्टं वै किञ्चिद्भोज्यादिकं तव ।
भक्तिनम्रो गणश्रेष्ठ प्रीणयस्व कृतिं२ मम । । २८
रागेणाकृष्यते तात गन्धर्वाभिमुखं यदि ।
मयि बुद्धिं समावेश्य गायेथा याः कथा मम । । २९
कथया रमते चेतो यदि तद्भवतो मम ।
श्रोतव्याः प्रीतियोगेन मत्स्वरूपोदयाः कथाः । । 1.62.३०
एवं समर्पितमनाश्चेतसो येऽथ आश्रयाः ।
हेयास्तान्निखिलान्दिण्डे परित्यज्य सुखी भव । । ३१
अक्षीणरागद्वेषोऽपि मत्प्रियः परमः परम् ।
पदमाप्नोषि मा भैषीर्मय्यर्पितमना भव । । ३२
मयि संन्यस्य सर्वं त्वमात्मानं यत्नवान्भव ।
मदर्थं कुरु कर्माणि मा च धर्मव्यतिक्रमम् । । ३३
एवं व्यपोह्य हत्यास्त्वं ब्रह्मण मोक्ष्यसे भवात् ।
एतेनैवोपदेशेन व्याख्यातमखिलं तव । । ३४
क्रियायोगं समास्थाय मदर्पितमना भव । । ३५
दिण्डिरुवाच
मद्धिताय जगन्नाथ क्रियायोगामृतं मम ।
विस्तरेण समाख्याहि प्रसन्नस्त्वं हि दुःखहा । । ३६
त्वामृते न हि तद्वक्तुं समर्थोऽन्यो१ जगद्गुरो ।
गुह्यमेतत्पवित्रं च तदाचक्ष्व प्रसीद मे । । ३७
आदित्य उवाच
आख्यास्यते तदखिलं निर्विकल्पं गणाधिप ।
इत्युक्त्वान्तर्दधे देवः सर्वलोकप्रदीपकः । । ३८
स च दिण्डिर्महातेजा जगामाशु नभोगतिम् । । ३९

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि दिण्ड्यादित्यसंवादवर्णनं नाम द्विषष्टितमोऽध्याय । ६२ ।