आदित्यमाहात्म्यवर्णनम्

ब्रह्मोवाच
अतः परं प्रवक्ष्यामि रहस्यां नाम सप्तमीम् ।
सप्तमी कृतमात्रेयं नरांस्तारयते भवात् । । १
सप्तापरान्सप्त पूर्वान्पितॄंश्चापि न संशयः ।
रोगांश्छिनत्ति दुश्छेद्यान्दुर्जयाञ्जयते ह्यरीन् । । २
अर्थान्प्राप्नोति दुष्प्रापान्यः कुर्यान्नाम सप्तमीम् ।
कन्यार्थी लभते कन्यां धनार्थी लभते धनम् । । ३
पुत्रार्थी लभते पुत्रान्धर्मार्थी धर्ममाप्नुयात् ।
समयान्पालयन्सर्वान्कुर्याच्चेमां विचक्षणः । ।४
समयाञ्छृणु भूतेश श्रेयसे गदतो मम ।
आदित्यभक्तः पुरुषः सप्तम्यां गणनायक । । ५
मैत्रीं सर्वत्र वै कुर्याद्भास्करं वापि चिंतयेत् ।
सप्तम्यां न स्पृशेत्तैलं नीलं वस्त्रं न धारयेत् । ।
न चाप्यामालकैः स्नानं न कुर्यात्कलहं क्वचित् । । ६
दिण्डिरुवाच
किमर्थं न स्पशेत्तैलं सप्तम्यां पद्मसंभव । । ७
कश्च दोषो भवेद्देव नीलवस्त्रस्य धारणात् ।
ब्रह्मोवाच
शृणु दिण्डे महाबाहो नीलवस्त्रस्य धारणे । । ८
दूषणं गणशार्दूल गदतो मम कृत्स्नशः ।
पालनं विक्रयश्चैव सद्वृत्तिरुपजीवनम् । । ९
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छैर्विशुद्ध्यति ।
नीलीरक्तेन वस्त्रेण यत्कर्म कुरुते द्विजः । । 1.65.१०
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।
वृथा तस्य महायज्ञा नीलसूत्रस्य धारणात् । । ११
नीलीरक्तं यदा वस्त्रं विप्रस्त्वङ्गेषु धारयेत् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । । १२
रोमकूपे यदा गच्छेद्रक्तं नीलस्य१ कस्यचित् ।
पतितस्तु भवेद्विप्रस्त्रिभिः कृच्छ्रैर्विशुद्ध्यति । । १३
नीलीमध्यं यदा गच्छेत्प्रमादाद्ब्राह्मणः क्वचित् ।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति । । १४
नीलीदारु यदा भिंद्याद्ब्राह्मणानां शरीरके ।
शोणितं दृश्यते यत्र द्विजश्चान्द्रायणं चरेत् । । १५
कुर्यादज्ञानतो यस्तु नीलेर्वा दन्तधावनम् ।
कृत्वा कृच्छ्रद्वयं दिण्डे विशुद्धः स्यान्न संशयः । । १६
वापयेद्यत्र नीलीं तु भवेत्तत्राशुचिर्मही ।
प्रमाणद्वादशाब्दानि तत ऊर्ध्वं शुचिर्भवेत्३ । । १७
सप्तम्यां स्पृशतस्तैलमिष्टा भार्या विनश्यति ।
इत्येष नीलीतैलस्य दोषस्ते कथितो मया । । १८
न चैव खादेन्मांसानि मद्यानि न पिबेद्बुधः ।
न द्रोहं कस्यचित्कुर्यान्न पारुष्यं समाचरेत् । । १९
नावभाषेत चाण्डालं स्त्रियं नैव रजस्वलाम् ।
न वापि संस्पृशेद्धीनं मृतकं नावलोकयेत् । । 1.65.२०
नास्फोटयेन्नातिहसेद्गायेच्चापि न गीतकम् ।
न नृत्येदतिरागेण न च वाद्यानि वादयेत् । । २१
न शयीत स्त्रिया सार्धं न सेवेत दुरोदरम् ।
न रुद्यादश्रुपातेन न च वाच्यं च शौकिकम् । । २२
आकृषेन्न शिरोयूका न वृथावादमाचरेत् ।
परस्यानिष्टकथनमतिशोकं च वर्जयेत् । । २३
न कञ्चित्ताडयेज्जन्तुं न कुर्यादतिभोजनम् ।
न चैव हि दिवा स्वप्नं दम्भं शाठ्यं च वर्जयेत् । । २४
रथ्यायामटनं वापि यत्नतः परिवर्जयेत् ।
अथापरो विधिश्चात्र श्रूयतां त्रिपुरान्तक । । २५
चैत्रात्प्रभृति कर्तव्या सर्वदा नाम सप्तमी ।
धातेति चैत्रमासे तु पूजनीयो दिवाकरः । । २६
अर्यमेति च वैशाखे ज्येष्ठे मित्रः प्रकीर्तितः ।
आषाढे वरुणो ज्ञेय इन्द्रो नभसि कथ्यते । । २७
विवस्वांश्च नभस्येऽथ पर्जन्योश्वयुजि स्मृतः ।
पूषा कार्त्तिकमासे तु मार्गशीर्षेषुरुच्यते । । २८
भगः पौषे भवेत्पूज्यस्त्वष्टा माघे तु शस्यते ।
विष्णुश्च फाल्गुने मासि पूज्यो वन्द्यश्च भास्करः । । २९
सप्तम्यां चैव सप्तम्यां भोजयेद्भोजकान्बुधः१ ।
सघृतं भोजनं देयं भोजयित्वा विधानतः । । 1.65.३०
भोजकायैव विप्राय दक्षिणां स्वर्णमाषकम् ।
सघृतं भोजनं देयं रक्तवस्त्राणि चैव हि । । ३१
अभावे भोजकानां तु दक्षिणीया द्विजोत्तमाः ।
तथैव भोजनीयाश्च श्रद्धया परया विभो । । ३२
विशेषतो वाचकश्च बाह्मणः कल्पवित्सदा ।
इत्येषा कथिता तुभ्यं सप्तमी गणनायक । । ३३
श्रुता सती पापहरा सूर्यलोकप्रदायिनी । । ३४

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि ब्रह्मदिण्डिसंवादे सप्तमीकल्पे आदित्यमहात्म्यवर्णने सप्तमीवर्णनं नाम पञ्चषष्टितमोऽध्यायः । ६५ ।