दुर्वासाशापविसर्जनवर्णनम्

सुमन्तुरुवाच
इत्थं ब्रह्मवचो योगी श्रुत्वा राजन्दिवाकरम् ।
व्योमरूपं समाराध्य गतः सूर्यसलोकताम् । । १
तथा त्वमपि राजेन्द्र पूजयित्वा विभावसुम् ।
गमिष्यसि परं स्थानं देवानामपि दुर्लभम् । । २
शतानीक उवाच
आद्यं स्थानं रवेः कुत्र जम्बूद्वीपे महामुने ।
यत्र पूजां विधानोक्तां प्रतिगृह्णात्यसौ रविः । । ३
सुमन्तुरुवाच
स्थानानि त्रीणि देवस्य द्वीपेऽस्मिन्भास्करस्य१ तु ।
पूर्वमिन्द्रवनं नाम तथा मुण्डीरमुच्यते । । ४
कालप्रियं३ तृतीयं तु त्रिषु लोकेषु विश्रुतम् ।
तथान्यदपि ते वच्मि यत्पुरा ब्रह्मणोदितम् । । ५
चन्द्रभागातटे नाम्ना पुरं यत्साम्बसंज्ञितम्४ ।
द्वीपेस्मिञ्छाश्वतं स्थानं यत्र सूर्यस्य नित्यता । । ६
प्रीत्या साम्बस्य तत्रर्को जनस्यानुग्रहाय च ।
तत्र द्वादशभागेन मित्रो मैत्रेण चक्षुषा । । ७
अवलोकञ्जगत्सर्वं श्रेयोऽर्थं तिष्ठते सदा ।
प्रयुक्तां विधिवत्पूजां गृह्णाति भगवान्स्वयम् । । ८
शतानीक उवाच
कोऽयं साम्बः सुतः कस्य कस्य प्रीतो दिवाकर ।
यस्य चायं सहस्रांशुर्वरदः पुण्यकर्मणः७ । । ९
सुमन्तुरुवाच
य एते द्वादशादित्या विराजन्ते महाबलाः ।
तेषां यो विष्णुसंज्ञस्तु सर्वलोकेषु विश्रुतः । । 1.72.१०
इहासौ वासुदेवत्वमवाप भगवान्विभुः ।
तस्मात्साम्बः सुतो जज्ञे जाम्बवत्यां महाबलः । । ११
स तु पित्रा भृशं शप्तः कुष्ठरोगमवाप्तवान् ।
तेनायं स्थापितः सूर्यः स्वानाम्ना च पुरं कृतम् । । १२
शतानीक उवाच
शस्तः कस्मिन्निमित्तेऽसौ पित्रा चैवात्मसम्भवः८ ।
नाल्पं हि कारणं विप्र येनासौ शप्तवान्सुतम् । । १३
सुमन्तुरुवाच
शृणुष्वावहितो राजंस्तस्य यच्छापकारणम् ।
दुर्वासा नाम भगवान्रुद्रस्यांशसमुद्भवः । । १४
अटमानः स भगवांस्त्रील्लोकान्प्रचचार ह ।
अथ प्राप्तो द्वारवतीं मधुसंज्ञोचितां पुरा । । १५
तमागतमृषिं दृष्ट्वा साम्बो रूपेण गर्वितः ।
पिङ्गाक्षं१ क्षुधितं रूक्षं विरूपं सुकृशं तथा । । १६
अनुकारास्पदं चक्रे दर्शने गमने तथा ।
दृष्ट्वा तस्य मुखं साम्बो वक्र चक्रे तथात्मनः । । १७
मुखं कुरुकुलश्रेष्ठ गर्वितो यौवनेन तु ।
अथ क्रुद्धो महातेजा दुर्वासा ऋषिसत्तमः । । १८
साम्बं चोवाच भगवान्विधुन्वन्मुखमात्मनः ।
यस्माद्विरूपं मां दृष्ट्वा स्वात्मरूपेण गर्वितः । । १९
गमने दर्शने मह्यमनुकारं समाचरः ।
तस्मात्तु कुष्ठरोगित्वमचिरात्त्वं गमिष्यसि । । 1.72.२०

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बाय दुर्वाससा शापविसर्जनं नाम द्विसत्ततितमोऽध्यायः । ७२ ।