साम्बकृतसूर्याराधनवर्णनम्

सुमन्तुरुवाच
एतस्मिन्नेव काले तु नारदो भगवानृषिः ।
ब्रह्मणो मानसः पुत्रस्त्रिषु लोकेषु विश्रुतः । । १
सर्वलोकचरः सोऽथ अटमानः समन्ततः ।
वासुदेवं स वै द्रष्टुं नित्यं द्वारवतीं पुरीम् । । २
आयाति ऋषिभिः सार्धं क्रोधनो मुनिसत्तमः ।
अथागच्छति तस्मिंस्तु सर्वे यदुकुमारकाः । । ३
प्रद्युम्नप्रभृतयो ये प्रह्वाश्चावनताः स्थिताः ।
अभिवाद्यार्घ्यपाद्याभ्यां पूजां चक्रुः समन्ततः । । ४
साम्बस्त्ववश्यभावित्वात्तस्य शापस्य कारणम् ।
अवज्ञां कुरूते नित्यं नारदस्य महात्मनः । । ५
रतः क्रीडासु वै नित्यं रूपयौवनगर्वितः ।
अविनीतं तु तं दृष्ट्वा चिन्तयामास नारदः । । ६
अस्याहमविनीतस्य करिष्ये विनयं शुभम् ।
एवं सञ्चिन्तयित्या तु वासुदेवमथाब्रवीत् .। । ७
इमाः षोडशसाहस्र्यः स्त्रियो यादवसत्तम ।
सर्वासां हि सदा साम्बे भावो देव समाश्रितः । । ८
रूपेणाप्रतिमः साम्बो लोकेस्मिन्सचराचरे ।
सदा हीच्छन्ति १तास्तस्य दर्शनं चापि हि स्त्रियः । । ९
श्रुत्वैवं नारदाद्वाक्यं चिन्तयामास केशवः ।
यदेतन्नारदेनोक्तमन्यदत्र तु किं भवेत् । । 1.73.१०
वचनं श्रूयते लोके चापल्यं स्त्रीषु विद्यते ।
श्लोकौ चेमौ पुरा गीतौ चित्तज्ञैर्योषितां द्विजैः । । ११
पौंश्चल्याच्चलचित्तत्वान्नैःस्नेह्याच्च स्वभावतः ।
रक्षिताः सर्वतो ह्येता विकुर्वन्ति हि भर्तृषु । । १२
नैता रूपं परीक्षन्ते नासां वयसि निश्चयः ।
सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते । । १३
मनसा चिन्तयन्नेव कृष्णो नारदमब्रवीत् ।
न ह्यहं श्रद्दधाम्येतद्यदेतद्भाषितं त्वया । । १४
ब्रुवाणमेवं देवं तु नारदो वाक्यमब्रवीत्१ ।
तथाहं तत्करिष्यामि यथा श्रद्धास्यते भवान् । । १५
एवमुक्त्वा ययौ स्वर्गं नारदस्तु यथागतः ।
ततः कतिपयाहोभिर्द्वारकां पुनरभ्यगात् । । १६
तस्मिन्नहनि देवोऽपि सहान्तःपुरिकैर्जनैः ।
अनुभूय जलक्रीडां पानमासेवते रहः । । १७
३रम्यरैवतकोद्याने नानाद्रुमविभूषिते ।
सर्वर्तुकुसुमैर्नित्यं वासिते सर्वकानने । । १८
नानाजलजफुल्लाभिर्दीर्घिकाभिरलङ्कृते ।
हंससारससंघुष्टे चक्रवाकोपशोभिते । । १९
तस्मिन्स रमते देवः स्त्रीभिः परिवृतस्तदा ।
हारनूपुरकेयूररशनाद्यैर्विभूषणैः । । 1.73.२०
भूषितानां वरस्त्रीणां चार्वङ्गीनां विशेषतः ।
ताभिः सम्पीयते पानं शुभगन्धान्वितं शुभम् । । २१
एतस्मिन्नन्तरे बुद्ध्वा मद्यपानात्ततः स्त्रियः ।
उवाच नारदः साम्बं साम्बोत्तिष्ठ कुमारक । । २२
त्वां समाह्वायते देवो न युक्तं स्थातुमत्र ते ।
तद्वाक्यार्थमबुद्धैव नारदेनाथ चोदितः । । २३
गत्वा तु सत्वरं साम्बः प्रणाममकरोत्प्रभोः४ ।
साष्टाङ्गं च हरेः साम्बो विधिवद्वल्लभस्य च । । २४
एतस्मिन्नन्तरे तत्र यास्तु वै स्वल्पसात्त्विकाः ।
तं दृष्ट्वा सुन्दरं साम्बं सर्वाश्चुक्षुभिरे स्त्रियः । । २५
न स दृष्टः पुरा याभिरन्तःपुरनिवासिभिः ।
मद्यदोषात्ततस्तासां स्मृतिलोपात्तथा नृप । । २६
स्वभावतोल्पसत्त्वानां जघनानि विसुस्रुवुः ।
श्रूयते चाप्ययं श्लोकः पुराणप्रथितः क्षितौ । । २७
ब्रह्मचर्येऽपि वर्तन्त्याः साध्व्या ह्यपि च श्रूयते ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः संक्लिद्यते स्त्रियाः । । २८
लोकेऽपि दृश्यते ह्येतन्मद्यस्यात्यर्थसेवनात् ।
लज्जां मुञ्चन्ति निःशङ्का ह्रीमत्यो ह्यपि हि स्त्रियः । । २९
समांसैर्भोजनैः स्निग्धैः यानैः सीधुसुरासवैः ।
गन्धैर्मनोज्ञैर्वस्त्रैश्च२ कामः स्त्रीषु विजृम्भते । । 1.73.३०
३सीधुप्रयुक्तं शुक्रेण सततं साधु हीच्छता ।
मद्यं .न पेयमत्यर्थ पुरुषेण विपश्चिता । । ३१
नारदोप्यथ तं साम्बं प्रेषयित्वा त्वरान्वितः ।
आजगामाथ तत्रैव साम्बस्यानुपदेन तु । । ३२
आयान्तं ताश्च तं दृष्ट्वा प्रियं सौमनसमृषिम् ।
सहसैवोत्थिताः सर्वाः स्त्रियस्तं मदविह्वलाः । । ३३
तासामथोत्थितानां तु वासुदेवस्य पश्यतः ।
भित्त्वा वासांसि शुभ्राणि पत्रेषु पतितानि तु । । ३४
ता दृष्ट्वा तु हरिः क्रुद्धः सर्वास्ता शप्तवान्स्त्रियः ।
यस्माद्गतानि चेतांसि मां मुक्त्वान्यत्र च स्त्रियः । । ३५
४तस्मात्पतिकृताँल्लोकानायुषोंन्ते न यास्यथ ।
पतिलोकपरिभ्रष्टाः स्वर्गमार्गात्तथैव च । । ३६
भूत्वा चाशरणा यूयं दस्युहस्तं गमिष्यथ । । ३७
सुमन्तुरुवाच
शापदोषात्ततस्तस्मात्ताः स्त्रियः स्वर्गते हरौ ।
हृताः पाञ्जनदैश्चौरैरर्जुनस्य तु पश्यतः । ।
अल्पसत्त्वास्तु यास्त्वासन्गतास्ता दूषणं स्त्रियः । । ३८
रुक्मिणी सत्यभामा च तथा जाम्बवती प्रिया ।
नैता गता दस्युहस्तं स्वेन सत्त्वेन रक्षिताः । । ३९
शप्त्वैव ताः स्त्रियः कृष्णः साम्बमप्यशपत्ततः ।
यस्मादतीव ते कान्तं रूपं दृष्ट्वा इमाः स्त्रियः । । 1.73.४०
क्षुब्धाः सर्वा यतस्तस्मात्कुष्ठरोगमवाप्नुहि ।
तस्य तद्वचनं श्रुत्वा साम्बः कृष्णस्य भारत । । ४१
उवाच प्रहसन्राजन्संस्मरन्नृषिभाषितम् ।
अनिमित्तमहं तात भावदोषविवर्जितः । ।
शप्तो न मेऽत्र वै क्रुद्धो दुर्वासा अन्यथा वदेत् । । ४२
सुमन्तुरुवाच
अस्मिच्छप्तेऽनिमित्तेऽसौ पित्रा जाम्बवतीसुतः ।
प्राप्तवान्कुष्ठरोगित्वं विरूपत्वं च भारत । । ४३
साम्बेन पुनरप्येव दुर्वासाः कोपितो मुनिः ।
तच्छापान्मुसलं जातं कुलं येनास्य घातितम् । । ४४
श्रुत्वा ह्यविनयाद्दोषान्साम्बेनाप्तान्क्षमाधिप ।
नित्यं भाव्यं विनीतेन गुरुदेवद्विजातिषु । । ४५
प्रियं च वाक्यं वक्तव्यं सर्वप्रीतिकरं विभो ।
किं त्वया न श्रुतौ श्लोकौ यावुक्तौ वेधसा पुरा । ।
१शृण्वतो देवदेवस्य व्योमकेशस्य भारत । । ४६
यो धर्मशीलो जितमानरोषो विद्याविनीतो न परोपतापी ।
स्वदारतुष्टः परदारवर्जितो न तस्य लोके भयमस्ति किञ्चित् । । ४७
न तथा शीतलसलिलं न चन्दनरसो न शीतला छाया ।
प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी । । ४८
ततः शापाभिभूतेन सम्यगाराध्य भास्करम् ।
साम्बेनाप्तं तथारोग्यं रूपं१ च परमं पुनः । । ४९
रूपमाप्य तथाऽऽरोग्यं भास्कराद्धरिसूनुना ।
निवेशितो रविर्भक्त्या स्वनाम्ना क्ष्माधिपेश्वर । । 1.73.५०

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि सप्तमीकल्पे साम्बकृतसूर्याराधनवर्णनं नाम त्रिसप्ततितमोऽध्यायः । ७३ ।