नारदोपसङ्गमनवर्णनम्

शतानीक उवाच
कथं साम्बः प्रपन्नोऽर्कं केन वा प्रतिपादितः ।
उग्रं शापं च तं प्राप्य पितरं स किमुक्तवान् । । १
सुमन्तुरुवाच
उक्तमेव पुरा वीर यथा शप्तः स यादवः ।
पित्रा साम्बो महाराज हरिणाम्बुजधारिणा । । २
अथ शापाभिभूतस्तु साम्बः पितरमब्रवीत् ।
१ विनयावनतो भूत्वा प्राञ्जलिः शिरसा गतः । । ३
किं मयापकृतं देव येन शप्तोस्म्यहं त्वया ।
अहं त्वदाज्ञया देव त्वरमाणोत्र आगतः । । ४
कस्मान्निपातितः शापो मयि तेऽनपकारिणि ।
न वै जानाम्यहं किञ्चित्प्रसीद जगतः पते । । ५
शापं नियच्छ मे देव प्रसादं कुरु मे प्रभो ।
कश्मलेनाभिभूतोऽहं येन मुच्येय किल्बिषात् । । ६
तमुवाच ततः कृष्णः साम्बं बुद्ध्वा ह्यनागसम् ।
नाहं पुत्र पुनः शक्तो रोगस्यास्य व्यपोहने । । ७
अस्यायं जगतो नाथो द्वादशात्मा दिवाकरः३ ।
सहस्ररश्मिरादित्यः शक्तः पुत्र व्यपोहितुम् । । ८
ज्ञातं मयाधुना चैव यथा त्वं नारदेन तु ।
रोषाद्विसर्जितः पुत्र मत्सकाशं महात्मना । । ९
तस्मात्तमेव पृच्छ त्वं प्रसाद्य ऋषिसत्तमम् ।
आख्यास्यति स ते देवं शापं यस्तेऽपनेष्यति । । 1.75.१०
अथैतत्स पितुर्वाक्यं श्रुत्वा जाम्बवतीसुतः ।
दीनः १शोकपरीतात्मा ततः सञ्चिन्त्य भारत । । ११
द्वारवत्यां स्थितं विष्णुं कदाचिद्द्रष्टुमागतम् ।
विनयादुपसङ्गम्य साम्बः पप्रच्छ नारदम् । । १२
भगवन्वेधसः पुत्र सर्वलोकज्ञ सुव्रत ।
प्रसादं कुरु मे विप्र प्रणतस्य महामते । । १३
ये मे नीरुजं कायं कश्मलं च प्रणश्यति ।
तं योगं इहि मे विप्र प्रणतस्यास्य सुव्रत । । १४
नारद उवाच
यः स्तुत्यः सर्वदेवानां नमस्यः पूज्य एव च ।
पूजयित्वाशु तं देवं ततो व्याधिं प्रहास्यसि । । १५
साम्ब उवाच
कः स्तुत्यः सर्वदेवानां नमस्यः पूज्य एव च ।
कः सर्वगश्च सर्वत्र शरणं यं वज्राम्यहम् । । १६
पितृशापानलेनाहं दह्यमानो महामुने ।
शान्त्यर्थमस्य कं देवं शरणं च व्रजाम्यहम् । । १७
एतच्छ्रुत्वा तु साम्बस्य वचनं करुणावहम् ।
हित्वा तु ४कामजं वीर नारदो वाक्यमब्रवीत् । । १८
स्तुत्यो वन्द्यश्च पूज्यश्च नमस्य ईड्य एव च ।
भास्करो यदुशार्दूल ब्रह्मादीनां सदानघ । । १९

इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि साम्बोपाख्याने साम्बं प्रति कृष्णशापे साम्बस्य नारदोपसंगमनवर्णनं नाम पञ्चसप्ततितमोऽध्यायः । ७५ ।