भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८८

विजयवारविधिवर्णनम्

ब्रह्मोवाच
शुक्लपक्षस्य सप्तम्यां प्राजापत्यर्क्षसंयुतः ।
स ज्ञेयो विजयो नाम सर्वपापभयापहः । । १
तत्र कोटिगुणं सर्वफलं पुण्यस्य कर्मणः ।
ददाति भगवान्देवः पूजितश्चन्दनाधिपः । । २
स्नानं दानं जपो होमः पितृदेवादिपूजनम् ।
नक्तं चाप्युपवासस्तु सर्वमत्र दिवाकरः । । ३
कुर्यात्कोटिगुणं सर्वं पूजितो ह्यत्र गोपतिः ।
तस्मादत्र सदा देवं पूजयेद्भक्तिमान्नरः । । ४
सर्वेशं सप्तद्वीपेशं सप्तसैन्धववाहनम् ।
सप्तम्यां तु समाराध्य सप्तप्रकृतिसम्भवम् । ।५
सप्तलोकाधिपत्यं तु प्राप्नुते सप्तरश्मिभिः । । ६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे विजयवारविधिवर्णनं नामाष्टाशीतितमोऽध्यायः । ८८ ।