भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०८९

आदित्याभिमुखविधिवर्णनम्

ब्रह्मोवाच
कृष्णपक्षस्य सप्तम्यां माघमासे भवेत्तु यः ।
सादित्याभिमुखो१ ज्ञेयः शृणु चास्य विधिं परम् । । १
कृत्वैकभक्तं कृष्णस्य वारे त्रिपुरसूदन२ ।
प्रातः कृत्वा ततः स्नानं पूजयित्वा दिवाकरम् । । २
आदित्याभिमुखस्तिष्ठेद्यावदस्तमनं रवेः ।
जपमानो महाश्वेतां लाभमाश्रित्य सुव्रत । । ३
चतुर्हस्तमृजं श्लक्ष्णमव्रणं सुसमं दृढम् ।
रक्तचन्दनवृक्षस्य स्तम्भं कृत्वा गणाधिप । । ४
तमाश्रित्य महाभक्त्या देवदेवं दिवाकरम् ।
पश्यमानो जपञ्श्वेतां तिष्ठेदस्तमनाद्रवेः । । ५
गन्धपुष्पोपहारैस्तु पूजयित्वा दिवाकरम् ।
ब्राह्मणे दक्षिणां दत्त्वा ततो भुञ्जीत वाग्यतः । । ६
इत्थमेतं तु यः कुर्यादादित्यप्रीतये नरः ।
भानुमांस्तस्य प्रीतः स्यात्सर्वं प्रीतो ददादि हि । । ७
धनं धान्यं तथा पुत्रमारोग्यं भार्गवो यशः ।
तस्मात्सम्पूजयेदत्र गीर्वाणाधिपतिं हर । । ८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यवारकल्पे आदित्याभिमुखविधिवर्णनं नाम नवाशीतितमोऽध्यायः । ८९ ।