भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९१

रोगहरविधिवर्णनम्

ब्रह्मोवाच
पूष्णो भवेद्यदा ऋक्षं भवेच्च भगदैवतम् ।
वासरः स महान्प्रोक्तः सर्वरोगभयापहः । । १
योऽत्र पूजयते भानुं शुभगन्धविलेपनैः ।
सर्वरोगविनिर्मुक्तो याति भानुसलोकताम् । । २
अर्कपत्रपुटे कृत्या पुष्पाण्यर्कस्य सुव्रत ।
देवस्य पुरतो रात्रौ भक्त्या यः स्थापयेद्बुधः । । ३
पूजयित्वार्कपुष्पैस्तु अर्कमर्कप्रियं सदा ।
प्राशयित्वार्कपुष्पं१ तु दत्त्वा विप्राय दक्षिणाम् । । ४
भक्त्या च पायसं वीर रात्रौ स्वपिति भूतले ।
अनेन विधिना यस्तु पूजयेदत्र वै रविम् । । ५
स मुक्तः सर्वरोगैस्तु३ गच्छेद्दिनकरालयम्४ ।
तस्मादपि व्रजेल्लोकं फुंकाररवहेतिनः । । ६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वण्यादित्यकल्पे रोगहरविधिवर्णनं नामैकनवतितमोऽध्यायः । ९१ ।