भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ०९४

पुण्यश्रवणमाहात्म्यवर्णनम्

ब्रह्मोवाच
अत्राख्यानमुशन्तीह संवादं गणपुङ्गव ।
पितामहकुमाराभ्यां पुण्यं पापहरं शिवम् । । १
स्रष्टारं सर्वलोकानां सुखासीनं पितामहम् ।
प्रणम्य शिरसा देवं श्रद्धाभक्तिसमन्वितः । । २
कुमारो देवशार्दूल इदं वचनमब्रवीत् ।
गतोऽहमद्य भगवन्द्रष्टुं देवं दिवाकरम् । । ३
कृत्वा प्रदक्षिणं देवः स मया पूजितो रविः ।
प्रणम्य शिरसा भक्त्या परया श्रद्धया विभो । । ४
अनुज्ञातस्ततस्तेन सुखासीनो ह्यहं स्थितः ।
आसीनेन मया तत्र दृष्टमाश्चर्यमद्भुतम् । । ५
काञ्चनेन विमानेन किङ्किणीजालमालिना ।
मणिमुक्ताविचित्रेण वैदूर्यवरवेदिना । । ६
आगतं पुरुषं तत्र दृष्ट्वा देवो दिवाकरः१ ।
ससम्भ्रमं समुत्थाय आसनादेव सत्तम । । ७
गृहीत्वा१ दक्षिणे पाणौ पुरतः प्राप्य तं नरम् ।
शिरस्याघ्राय देवेश पूजयामास वै रविः । । ८
उपविष्टं तु तं भानुरिदं वचनमब्रवीत् ।
सुस्वागतं भद्र सुखकृता प्रीतास्त्वया वयम् । । ९
समीपे मम तिष्ठ त्वं यावदाभूतसंप्लवम् ।
पुनर्यास्यसि तत्स्थानं यत्र ब्रह्मा स्वयं स्थितः । । 1.94.१०
एतस्मिन्नंतरे चान्यो विमानवरमास्थितः ।
आगतः पुरुषो देवो यत्र तिष्ठति भास्करः । । ११
स चाप्येवं नरो देव पूजितो भानुना तदा ।
सामपूर्वं तथोक्तस्तु प्रश्रयावनतः स्थितः । । १२
तत्र मे कौतुकं जातं दृष्ट्वा पूजां कृतां तयोः ।
भानुना देवशार्दूल पृष्टो भानुर्मया ततः । । १३
किमनेन कृतं देव योऽयं पूर्वमिहागतः ।
नरस्तत्र सकाशं वै यस्य तुष्टो भवादृशाम् । । १४
यदस्य भवता पूजा कृता हि स्वयमेव तु ।
अत्र मे कौतुकं जातं विस्मयश्च विशेषतः । । १५
तथैवास्य कृता पूजा द्वितीयस्य नरस्य च ।
सर्वथा पुण्यकर्माणाविमौ नरवरोत्तमौ । । १६
ब्रह्मविष्णुशिवाद्यैस्तु पूज्यते भगवान्सदा ।
यस्त्वमाभ्यां परं पूजां कृतवान्देवसत्तम । । १७
कथ्यतां मम देवेश किमेतौ कर्म चक्रतुः ।
यस्येदृक्परमं पुण्यं फलं दिव्यमवापतुः । ।
श्रुत्वा तद्वचनं देव इदं वचनमब्रवीत् । । १८
सूर्य उवाच
साधु पृष्टोऽस्मि भवता कर्मणो निर्णयं परम् । । १९
यदनेन कृतं कर्म नरेण मुनिसत्तम ।
योऽसौ सूर्यमिहायातस्तच्छृणुष्व महामते । । 1.94.२०
येयं मदंशसम्भूतैः पार्थिवैः पालिता सदा ।
अयोध्या नाम नगरी प्रख्याता पृथिवीतले । । २१
तत्रासौ वैश्यजातीयो धनपाल इति स्मृतः ।
तस्याः पुर्यां द्विजश्रेष्ठ दिव्यमायतनं व्यधात्१ । । २२
तस्मिन्नायतने दिव्ये ह्याम्नायार्थं तथाश्रितः ।
ब्राह्मणानां विशिष्टानां पूजयित्या कदम्बकम् । । २३
इतिहासपुराणाभ्यां वाचकं च विशेषतः ।
पूजयित्वा द्विजश्रेष्ठं मुनश्रेष्ठं महामुनिम् । । २४
पुस्तकं चापि सम्पूज्य गन्धपुष्पोपहारतः ।
तस्य विप्रकदम्बस्य व्यासस्य च यथाग्रतः । । २५
प्रकल्प्योक्तो द्विजोऽनेन पाठको२ वाचकोत्तमः ।
एष तिष्ठति देवेशः सहस्रकिरणो रविः । । २६
चातुर्वर्ण्यमिदं वापि श्रोतुकामं कदम्बकम् ।
तिष्ठ चेह द्विजश्रेष्ठ कुरु पुस्तकवाचनम् । । २७
येन मे वरदो भानुः३ सप्त जन्मानि वै भवेत् ।
यावत्संवत्सरं विप्र प्रगृह्य वृत्तिमुत्तमाम् । । २८
स्वर्णनिष्कशतं विप्र ततो दास्ये तथापरम् ।
पूर्णे वर्षे द्विजश्रेष्ठ श्रेयोऽर्थमहमात्मनः । । २९
एवं प्रवर्तिते तस्मिन्पुण्ये पुस्तकवाचने ।
षण्मासागतमात्रे तु काले सुरवरोत्तम । ।
तथैवान्तरतश्चायं कालधर्ममुपेयिवान् । । 1.94.३०
मया चास्य विमानं तु प्रेषितं कुर्वतो व्रतम् ।
इत्येषा कर्मणस्तुष्टिः पुण्याख्यानकजार्चिता । । ३१
गन्धपुष्पोपहारैस्तु न तथा जायते मम ।
प्रीतिर्देववर श्रेष्ठ पुराणश्रवणे यथा । । ३२
गोसुवर्णहिरण्यानां वस्त्राणां चापि कृत्स्नशः ।
ग्रामाणां नगराणां च दानं प्रीतिकरं मम । । ३३
न तथा स्यात्सुरश्रेष्ठ यथा प्रीतिकरं गुह ।
इतिहासपुराणाभ्यां श्रवणं सुरसैन्यप ।। ३४
श्राद्धं कुर्वन्ति ये मह्यं भक्ष्यभोज्यैरनेकशः ।
न करोति तथा प्रीतिर्यथा पुस्तकवाचनम् । । ३५
कर्णश्राद्धे यथा प्रीतिर्मम स्यात्सुरसत्तम ।
न तथा जायते प्रीतिर्भोज्यश्राद्धे तथैव च । । ३६
अथ किं बहुनोक्तेन नान्यत्प्रीतिकरं मम ।
पुण्याख्यानादृते देव गुह्यमेतत्प्रकीतितम् । । ३७
यश्चायमपरो विप्र इहायतो नरोत्तमः ।
अयमासीद्दिवजश्रेष्ठस्तस्मिन्नेव पुरोत्तमे । । ३८
एकदा तु गतश्चायं धर्मश्रवणमुत्तमम् ।
श्रोतुं भक्त्या द्द्विजश्रेष्ठ श्रद्धया परया वृतः । । ३९
श्रुत्वा तत्र ततो भक्त्या पुण्याख्यानमनुत्तमम् ।
कृत्वा प्रदक्षिणं तस्य वाचकस्य महात्मनः । ।
एष विप्रोऽमरश्रेष्ठ दत्तवान्स्वर्णमाषकम् । । 1.94.४०
दत्त्वा तु दक्षिणां तस्मै वाचकायामितौजसे १ ।
आनन्दमगमद्विप्रः प्राप्तवान्काञ्चनं यथा ।४ १
एतद्धि सफलं चास्य न चान्यत्कृतवानयम् ।
यदनेन कृता पूजा वाचकस्य महात्मनः । ।
फलं हि कर्मणस्तस्य यन्मया पूजितः स्वयम् । । ४२
वाचकं पूजयेद्यस्तु श्रद्धाभक्तिसमन्वितः ।
तेनाहं पूजितः स्यां वै को विष्णुः शङ्करस्तथा । । ४३
वाचकं भोजयेद्यस्तु भक्त्या भोज्येरनुत्तमैः ।
तेनाहं पूजितः स्यां वै दश वर्षाणि पञ्च च ।।४४
न यमो न यमी चापि न मन्दो न मनुस्तथा ।
तपती न तथान्विष्टा यथेष्टो वाचको मम ।।४५
वाचके सत्कृते देव भोजिते सुरसैन्यप ।
तृप्तिर्भवति मे देव संवत्सरशतद्वयम् ।।४६
न केवलं मम प्रीतिर्वाचके भोजिते भवेत् ।
कृत्स्नशो देवतानां च इन्द्रादीनां तथा भवेत् ।।४७
ब्रह्मविष्णुशिवादीनां स चेष्ठो वाचको मम ।
प्रीते तस्मिन्देवताः स्युः सर्वाः प्रीता न संशयः ।।४८
इत्येतत्कथितं सर्वमाभ्यां कर्म महाबल ।।४९
न चान्यच्चक्रतुः कर्म किमन्यच्छ्रोतुमिच्छसि ।
एतद्दृष्ट्वाहमाश्चर्यं तवाभ्याशमिहागतः ।।
किमत्र तथ्यं देवेश कथ्यतां कौतुकं मम ।।1.94.५०
श्रुत्वा कुमारवचनं सर्वलोकपितामहः ।।५१
ब्रह्मोवाच
हन्त भोः साधु पुण्योऽसि नास्ति तुल्यस्त्वयापरः ।
यद्दृष्टौ भवता तौ हि सुपुण्यौ पुण्यकारिणौ ।।५२
यदुक्तं भानुना वत्स तत्तथा नान्यथा भवेत् ।
यदासीन्मे मुखं पुत्र प्रथमं लोकपूजितम् ।।५३
तस्मादेतानि सर्वाणि निर्गतानि समन्ततः ।
इतिहासपुराणानि लोकानां हितकाम्यया ।।५४
यथैतानि ममेष्टानि पुराणानि महामते ।
न तथा वै चतुर्वेदी न चाङ्गिनि महामते ।।५५
शृण्वन्त्येतानि ये भक्त्या नित्यं श्रद्धासमन्विताः ।
दत्त्वा तु वाचके वृत्तिं ते गच्छन्ति परं पदम् ।।५६
धर्मार्थकाममोक्षाणां स्पष्टीकरणमुत्तमम् ।
इतिहासपुराणानि मया सृष्टानि सुव्रत । । ५७
चत्वारो य इमे वेदा गूढार्थाः सततं स्मृताः ।
अतस्त्वेतानि सृष्टानि बोधायैषां महामते । । ५८
यस्तु कारयते नित्यं धर्मश्रवणमुत्तमम् ।
आदित्याद्भास्करं प्राप्य याति तत्परमं पदम् । । ५९
दत्त्वा तु दक्षिणां तत्र आदित्यस्य पुरं व्रजेत् ।
किमाश्चर्यं सुरश्रेष्ठ दानपात्रं हि तत्परम् । । 1.94.६०
यथा देववरो लेखो यथा हेतिः परं पविः ।
ब्राह्मणानां तथा श्रेष्ठो वाचको नात्र संशयः । । ६१
हेतिर्यथा तेजसां तु सरसां सागरो यथा ।
तथा सर्वद्विजेभ्यस्तु वाचकः प्रवरः स्मृतः । । ६२
वाचकं पूजयेद्यस्तु नरो भक्तिपुरः सरम् ।
पूजितं सकलं तेन जगत्यान्नात्र संशयः । । ६३
सत्यमुक्तं न सन्देहो भानुना मत्कुलोद्वह ।
वाचकेन समं पात्रं न जात्वन्यद्भवेत्क्वचित् । । ६४
तच्छ्रुत्वा ब्रह्मणो वाक्यं कुमारो वाक्यमब्रवीत् । । ६५
अहो हि धन्यता तस्य पुण्यश्रवणकारिणः ।
दानं च ददतोऽत्यर्थं पुण्यता वाचकाय वै । । ६६
ब्रह्मोवाच
इत्थं दिण्डे सदा यस्तु देवदेवस्य मन्दिरे ।
कुर्यात्तु धर्मश्रवणं स याति परमां गतिम् । । ६७

इति श्रीभविष्यमहापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे पुण्यश्रवणमाहात्म्य वर्णनं नाम चतुर्नवतितमोऽध्यायः । ९४ ।