आदित्यालयमाहात्म्यवर्णनम्

ब्रह्मोवाच
त्रिभिः प्रदक्षिणां कृत्वा यो नमस्कुरुते रविम् ।
भूमौ गतेन शिरसा स याति परमां गतिम् । । १
सोपानत्को देवगृहमारोहेद्यस्तु मानवः ।
स याति नरकं घोरं तामिस्रं नाम नामतः । । २
श्लेष्ममूत्रपुरीषाणि समुत्सृजति यस्तु वै ।
देवस्यायतने भानोः स गच्छेन्नरकं क्रमात् । । ३
घृतं मधु पयस्तोयं तथेक्षुरसमुत्तमम् ।
स्नपनार्थं तु देवस्य ये ददतीह मानवाः । ।
सर्वकामानवाप्येह ते यान्ति हेलिमण्डलम् । । ४
स्नाप्यमानं रविं भक्त्या ये पश्यन्ति वृषध्वज ।
तेऽश्वमेधफलं प्राप्य लयं यान्ति वृषध्वजे । । ५
स्नपनं ये च कुर्वंति भानोर्भक्तिसमन्विताः ।
लभन्ते तत्फलं भीम राजसूयाश्वमेधयोः । । ६
यथा न लङ्घयेत्कश्चित्स्नपनं भास्करस्य तु ।
तथा कार्यं प्रयत्नेन लङ्घितं ह्यसुखावहम् । । ७
तामिस्रं नरकं याति लङ्घयेच्च स रौरवान् ।
तस्मात्सर्वप्रयत्नेन कार्यं स्नपनमादितः । । ८
घृतेन स्नापयेद्देवं कञ्जमाप्नोति मानवः ।
मधुना प्रियमायाति तोयेनापि घृतौकसम् । । ९
इक्षुरसेन संस्नाप्य पयसा कञ्जशध्वजम् ।
एवमेभिः स्नापयेद्वै रविमीहितमाप्नुयात् । । 1.95.१०

इति श्रीभविष्ये महापुराणे ब्राह्मेपर्वणि सप्तमीकल्पे आदित्यालयमाहात्म्यवर्णनं नाम पञ्चनवतितमोऽध्यायः । ९५ ।