भद्राकल्पवर्णनम्

ब्रह्मोवाच
शुक्लपक्षे तु सप्तम्यां नक्षत्रं सवितुर्भवेत् ।
यदा प्रथमता चैव तदा वै भद्रतां व्रजेत् । । १
स्नपनं तत्र देवस्य घृतेन कथितं बुधैः ।
क्षीरेण च तथा वीर पुनरिक्षुरसेन च । । २
स्नापयित्वा तु देवेशं चन्दनेन विलेपयेत् ।
दग्ध्वा तु गुग्गुलं तस्य दद्याद्भद्रं तथाग्रतः । । ३
गोधूमचूर्णं निवपन्विमलं शशिसन्निभम् ।
सवज्रं सगुडं चैव रक्तपुष्पोपशोभितम् । । ४
यदस्य शृङ्गमीशानं तत्र वै मौक्तिकं न्यसेत् ।
यदाग्नेयं तत्र माणिक्यं न्यसेद्वा लोहितं मणिम् । । ५
नैर्ऋत्ये मकरं दद्याद्वायव्ये पद्मरागिणम् ।
गाङ्गेयमन्ततस्तस्य स्वशक्त्या विन्यसेद्बुधः । । ६
चतुर्थ्यामेकभक्तं तु पञ्चम्यां नक्तमादिशेत् ।
षष्ठ्यामयाचितं प्रोक्तं(क्त?) उपवासो ह्यतः परः । । ७
पाषण्डिनो विकर्मस्थान्बैडालव्रतिकान्त्यजान् ।
सप्तम्यां पालयेत्प्राज्ञो दिवा स्वापं विवर्जयेत् । । ८
अनेन विधिना यस्तु कुर्याद्वै भद्रसप्तमीम् ।
तस्मै भद्राणि सर्वाणि यच्छन्ति ऋभवः सदा । । ९
भद्रं ददाति यस्त्वस्यां भद्रस्तस्य सुतो भवेत् ।
भद्रमासाद्य भूतेश सदा भद्रेण तिष्ठति । । 1.101.१०
दिण्डिरुवाच
कोऽयं भद्र इति प्रोक्तः कथं कार्यं प्रभूषणम् ।
दत्त्वा च किं फलं विद्याद्विधिना केन दीयते । । ११
ब्रह्मोवाच
व्योम भद्रमिति प्रोक्तं देवचिह्नमनूपमम् ।
यद्धृत्वेह नरः सूर्यं मुच्यते सर्वकिल्बिषैः । । १२
शालिपिण्डमयं कार्यं चतुष्कोणमनूपमम् ।
गव्येन सर्पिषा युक्तं खण्डशर्करयान्वितम् । । १३
चातुर्जातकपूर्णं तु द्राक्षाभिश्च विशेषतः ।
नालिकेरफलैश्चैव सुगन्धं च गणाधिप । । १४
मध्येन्द्रनीलं भद्रस्य न्यसेत्प्राज्ञः स्वशक्तितः ।
पुष्परागं मरकतं पद्मरागं तथैव च । । १५
अनौपम्यं च माणिक्यं क्रमात्कोणेषु विन्यसेत् ।
वाचकायाथ वा दद्यादथ वा भोजके स्वयम् । । १६
अनेन विधिना यस्तु कृत्वा भद्रं प्रयच्छति ।
स हि भद्राणि सम्प्राप्य गच्छेद्गोपतिमन्दिरम् । । १७
ब्रह्मलोकं ततो गच्छेद्यानारूढो न संशयः ।
तेजसा गोजसंकाशः कांत्या गोजसमस्तथा । । १८
प्रभया गोपतेस्तुल्य ऊर्जसा गोपरस्य च ।
तस्मादेत्य पुनर्भूमौ गोपतिः स्यान्न संशयः । ।
प्रसादाद्गोपतेर्वीर सर्वज्ञाधिपपूजितः । । १९
इत्येषा कथिता भीम भद्रा नामेति सप्तमी ।
यामुपोष्य नरो भीम ब्रह्मलोकमवाप्नुयात् । । 1.101.२०
शृण्वन्ति ये पठन्तीह कुर्वन्ति च गणाधिप ।
ते सर्वे भद्रमासाद्य यान्ति तद्ब्रह्म शाश्वतम् । । २१
सुमन्तुरुवाच
इत्युक्तवान्पुरा ब्रह्मा दिण्डिने सप्तमीव्रतम् ।
मयाप्युक्तं तव विभो यथाज्ञातं यथाश्रुतम् । । २२
गृहीत्वा सप्तमीकल्पं मानवो यस्तु भूतले ।
त्यजेत्कामाद्भयाद्वापि स ज्ञेयः पतितोऽबुधः । । २३
तस्माद्धारय तद्वीर न त्याज्यं सप्तमीव्रतम् ।
त्यजमानो भवेद्वीर आरूढपतितो नरः । । २४
श्रावयेद्यस्तु भक्त्या च सप्तमीकल्पमादितः ।
सोऽश्वमेधफलं प्राप्य ततो याति परं पदम् । । २५

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे भद्राकल्पवर्णनं नामैकाधिकशततमोध्यायः । १०१ ।