कामदासप्तमीव्रतनिरूपणम्

ब्रह्मोवाच
फाल्गुनामलपक्षस्य सप्तम्यां क्ष्माधराव्यय ।
उपोषितो नरो नारी समभ्यर्च्य तमोऽपहम् । । १
सूर्यनाम जपन्भक्त्या मितभोक्ता जितेन्द्रियः ।
उत्तिष्ठन्प्रस्वपंश्चैव सूर्यमेवाभिकीर्तयेत् । । २
ततोऽन्यदिवसे प्राप्ते त्वष्टम्यां प्रयतो रविम् ।
स्नात्वा देवं समभ्यर्च्य दद्याद्विप्राय दक्षिणाम् । । ३
रविमुद्दिश्य वै चाग्नौ घृतहोमकृतक्रियः ।
प्रणिपत्य जगन्नाथमिति वाणीमुदीरयेत् । । ४
यमाराध्य पुरा देवी सावित्री कामनाय वै ।
स मे ददातु देवेशः सर्वान्कामान्विभावसुः । । ५
समभ्यर्च्य इति प्राप्तान्कृत्स्नान्कामान्यथेप्सितान् ।
स ददात्यखिलान्कामान्प्रसन्नो मे दिवस्पतिः । । ६
भ्रष्टराज्यश्च देवेन्द्रो यमभ्यर्च्य दिवस्पतिः ।
कामान्सम्प्राप्तवान्राज्यं स मे कामं प्रयच्छतु । । ७
एवमभ्यर्च्य पूजां च निष्पाद्येह विवस्वतः ।
भुञ्जीत प्रयतः सम्यग्घविष्यं पतगध्वज । । ८
फाल्गुने चैत्रवैशाखज्येष्ठे यस्य समापनम् ।
चतुर्भिः पारणं मासैरेभिर्निष्पादितं भवेत् । । ९
करवीरैश्चतुरो मासान्भक्त्या सम्पूजयेद्रविम् ।
कृष्णागुरुं दहेद्धूपं प्राश्यं गोशृङ्गजं जलम् । । 1.105.१०
नैवेद्यं खण्डवेष्टांस्तु दद्याद्विप्रेभ्य एव च ।
ततश्च श्रूयतामन्या ह्याषाढादिषु या क्रिया ।। ११
जातीपुष्पाणि शस्तानि धूपो गौग्गुल उच्यते ।
कूपोदकं समश्नीयान्नैवेद्यं पायसं मतम् । । १२
स्वयं तदेव चाश्नीयाच्छेषं पूर्ववदाचरेत् ।
कार्त्तिकादिषु मासेषु गोमूत्रं कायशोधनम् । । १३
महाङ्गो धूप उद्दिष्टः पूजा रक्तोत्पलैस्तथा ।
कासारं चात्र नैवेद्यं निवेद्यं भास्कराय वै । । १४
प्रतिमासं च विप्राय दातव्या दक्षिणा तथा ।
कर्पूरं चन्दनं मुस्तामगरुं तगरं तथा । । १५
ऊषणं शर्करा कृष्ण सुगन्धं सिह्लकं तथा ।
महाङ्गोऽयं स्मृतो धूपः प्रियो देवस्य सर्वदा । । १६
प्रीणनं चेष्टया भानोः पारणेपारणे गते ।
यथाशक्ति यथायोगं वित्तशाठ्यं विवर्जयेत् । । १७
सद्भावेनैव सप्ताश्वः पूजितः प्रीयते यतः ।
पारणान्ते यथाशक्त्या पूजितः स्नापितो रविः । । १८
प्रीणितश्चेप्सितान्कामान्दद्यादव्याहतं हरे ।
एषा पुण्या पापहरा सप्तमी सर्वकामदा । । १९
यथाभिलषितान्कामाँल्लभते गरुडध्वज ।
उपोष्यैतां त्रिभुवनं प्राप्तमिन्द्रेण वै पुरा । । 1.105.२०
पुत्रं प्रापच्च सावित्री पुत्रांस्तु अदितिस्तथा ।
यदवः कामनां प्राप्ता धौम्यो वेदमवाप्तवान् । । २१
त्वयाप्ता भार्गवी कृष्ण शङ्करः शुद्धिमाप्तवान् ।
पितामहत्वं प्राप्तोऽहं तत्प्रसादाज्जनार्दन । । २२
अन्यैश्चाधिगताः कामास्तमाराध्य न संशयः ।
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्योषिद्भिरेव च । । २३
यं यं काममभिध्यायेत्तंतं प्राप्नोत्युपोषणात् ।
जनः प्राप्नोत्यसंदिग्धं भानोराराधनाद्यतः । । २४
अपुत्रः पुत्रमाप्नोति रोगतश्चापि मोदते ।
रोगाभिभूत आरोग्यं कन्या विन्दति सत्पतिम् । । २५
समागत्य प्रवसित उपोष्यैतदवाप्नुयात् ।
सर्वान्कामानवाप्नोति गोगतश्चापि मोदते । । २६
नापुत्रो नाधनो वापि न वानिष्टो न निर्घृणः ।
उपोष्यैतद्व्रतं मर्त्यः स्त्रीजनो वापि जायते । । २७
गोहेलिलोकमासाद्य मोदते शाश्वतीः समाः ।
गौरिकं यानमारूढस्तेजसा रविसन्निभः । । २८
पुनरेत्य महीं कृष्ण घनाघनसमो नृपः ।
क्ष्मातले स्यान्न संदेहः प्रसादाद्गोपतेर्नरः । । २९
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे कामदासप्तमीव्रतनिरूपणं
नाम पञ्चाधिकशततमोऽध्यायः । १०५ ।