भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १११

सप्तमीकल्पेऽभ्यङ्गसप्तमीवर्णनम्

ब्रह्मोवाच
श्रावणे मासि देवाग्र्यं सप्तम्यां सप्तवाहनम् ।
शुक्लपक्षे समभ्यर्च्य पुष्पधूपादिभिः शुचिः । । १
पाखण्डादिभिरालापमकुर्वन्नियतात्मवान् ।
विप्राय दक्षिणां दत्त्वा नक्तं भुञ्जीत वाग्यतः । । २
अभ्यङ्गं देवदेवस्य वर्षे वर्षे नियोजयेत् ।
सप्तम्यामन्नमेवाग्र्यं शुभं शुक्लं नवं तथा । । ३
विभवेषु तथान्येषु वादित्राण्येव वै विदुः ।
तथा देवस्य मासेऽस्मिन्नभ्यङ्गः परिगीयते । ।४
यस्तु चाराधयेद्भक्त्या भास्करस्य नरोऽच्युत ।
अभ्यङ्गं विधिवच्छक्त्या कृत्वा ब्राह्मणभोजनम् । । ५
शङ्खतूर्यनिनादैश्च ब्रह्मघोषैश्च पुष्कलैः ।
स दिव्यं यानमारूढो लोकमायाति हेलिनः । । ६
अनेनैव विधानेन मासान्द्वादश वै क्रमात् ।
उपोष्य पारणे पूर्णे दद्याद्विप्राय दक्षिणाम् । । ७
व्रतं यः पुरुषः कुर्यादादित्याराधनं शुचिः ।
स गच्छेत्परमं लोकं दिव्यं वै वनमालिनः । । ८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पेऽभ्यङ्गसप्तमीवर्णनम् नामैकादशाधिकशततमोऽध्यायः । १११ ।