भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११३
आदित्यालयवन्दनमार्जनादिवर्णनम्
विष्णुरुवाच
सुरज्येष्ठ पुनर्ब्रूहि यत्पृच्छाम्यहमादितः ।
यत्फलं समवाप्नोति कारयित्वा रवेर्गृहम् । । १
देवार्चां कारयित्वा तु यत्पुण्यं पुरुषोऽश्नुते ।
पूजयित्वा च विधिवदनुलिप्य च यत्फलम् । । २
कानि माल्यानि शस्तानि कानि नार्हति भास्करः ।
के धूपा भानुदयिताः के वर्ज्याश्च जगत्पतेः । । ३
उपचारफलं किं स्यात्किं फलं गीतवादिते ।
घृतक्षीरादिना यत्तु स्नापिते भास्करे फलम् । । ४
यथोपलेपनादौ च फलमभ्युक्षितेन तु ।
दिवाकरगृहे तात तदशेषं वदस्व मे । । ५
ब्रह्मोवाच
साधु वत्स यदेतत्त्वं मार्तण्डस्येह पृच्छसि ।
शुश्रूषणे विधिं पुण्यं तदिहैकमनाः शृणु । । ६
यस्तु देवालयं भानोर्दार्वं शैलमथापि वा ।
कारयेन्मृन्मयं चापि तस्य पुण्यफलं शृणु । । ७
अहन्यहनि यज्ञेन यजतो यन्महत्फलम् ।
प्राप्नोति तत्फलं भानोर्यः कारयति मन्दिरम् । । ८
कुलानां शतमागामि समतीतं कुलं शतम् ।
कारयेद्भगवद्धाम स नयेदर्कलोकताम् । । ९
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।
भानोरालयविन्यासप्रारम्भादेव नश्यति । । 1.113.१०
सप्तलोकमयो भानुस्तस्य यः कुरुते गृहम्१ ।
प्रतिष्ठां समवाप्नोति स नरः साप्तलौकिकीम् । । ११
प्रशस्तदेशभूभागे प्रशस्तं भवनं रवेः ।
कारयेदक्षयाँल्लोकान्स नरः प्रतिपद्यते । । १२
इष्टकाचयविन्यासो यावद्वर्षाणि तिष्ठति ।
तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः । । १३
प्रतिमां लक्षणवतीं यः कारयति मानवः ।
दिवाकरस्य तल्लोकमक्षयं प्रतिपद्यते । । १४
षष्टिर्वर्षसहस्राणां सहस्राणि स मोदते ।
लोके सुमनसां वीर प्रत्येकं मधुसूदन । । १५
प्रतिष्ठाप्य रवेरर्चां सुप्रशस्ते निवेशने ।
पुरुषः कृतकृत्योऽस्ति न दोषफलमश्नुते । । १६
ये भविष्यन्ति येऽतीता आकल्पं पुरुषाः कुले ।
तांस्तारयति संस्थाप्य देवस्य प्रतिमां रवेः । । १७
अनुशिष्टाः किल पुरा यमेन यमकिङ्कराः ।
पाशदण्डकराः कृष्ण प्रजासंयमनोद्यताः । । १८
यम उवाच
विहरन्तु यथान्यायं नियोगो मेऽनुपाल्यताम् ।
नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् । । १९
केवलं ये जगन्मूलं विवस्वन्तमुपाश्रिताः ।
भवद्भिः परिहर्तव्यास्तेषां नैवेह संस्थितिः । । 1.113.२०
ये तु वैवस्वता लोके तच्चित्तास्तत्परायणाः ।
पूजयन्ति सदा भानुं ते च त्याज्या सुदूरतः । । २१
तिष्ठंश्च प्रस्वपन्गच्छन्नुत्तिष्ठन्स्खलिते क्षुते ।
सङ्कीर्तयति देवं यः स नस्त्याज्यः सुदूरतः । । २२
नित्यनैमित्तिकैर्देवं ये यजन्ति तु भास्करम् ।
न चालोक्या भवद्भिस्ते यद्ध्यानं हंति वो गतिम् । । २३
ये पुष्पधूपवासोऽभिर्भूषणैश्चापि वल्लभैः ।
अर्चयन्ति न ते ग्राह्या मत्पितुस्ते परिग्रहाः । । २४
उपलेपनकर्तारः कर्तारो मार्जनस्य ये ।
अर्कालये परित्याज्यं तेषां त्रिपुरुषं कुलम् । । २५
ये वायतनं भानोः कारितं तत्कुलोद्भवः ।
पुमान्न नावलोक्यो वै भवद्भिर्दुष्टचक्षुषा । । २६
येनार्चा भगवद्भक्त्या मत्पितुः कारिता शुभा ।
नराणां तत्कुलं वीराः सदा त्याज्यं सुदूरतः । । २७
भवतां भ्रमतां यत्र भानुसंश्रयमुद्रया ।
न चाज्ञाभङ्गकृत्कश्चिद्भविष्यति नरः क्वचित् । । २८
इत्युक्ताः किङ्करास्तेन यमेन सुमहात्मना ।
अनाश्रित्य वचः कृष्णः सत्राजितमथो गताः । । २९
तस्य ते तेजसा सर्वे भानोर्भक्तस्य सुव्रत ।
मोहिताः पतिता भूमौ यथा च विहगा नगात् । । 1.113.३०
एतां महाफलां योर्चां भानोः कारयते नरः ।
तवाख्यानं महाबाहो गृहं कारयितुश्च यत् । । ३१
यज्ञा नराणां पापौघनाशकाः सर्वकामदाः ।
तथैवेष्टो जगद्भानुः सर्वयज्ञमयो रविः । । ३२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यालयवन्दनमार्जनादिवर्णनं नाम त्रयोदशाधिकशततमोऽध्यायः । ११३ ।