भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११४
आदित्यस्नापनयोगवर्णनम्
ब्रह्मोवाच
स्थापितां प्रतिमां भानोः सम्यक्सम्पूज्य मानवः ।
यं यं प्रार्थयते कामं तं तं प्राप्नोत्यसंशयम् । । १
यः स्नापयति देवस्य घृतेन प्रतिमां रवेः ।
प्रस्थेप्रस्थे द्विजाग्र्याणां स ददाति गवां शतम् । । २
गवां शतस्य विप्रेभ्यो यद्वत्तस्य भवेत्फलम् ।
घृतप्रस्थेन तद्भानोर्भवेत्स्नातकयोगिनाम् । । ३
भूरिद्युम्नेन सम्प्राप्ता सप्तद्वीपा वसुन्धरा ।
घटोदकेन मार्तण्डप्रतिमा स्नापिता किल । ।४
प्रतिमामसिताष्टम्यां घृतेन जगतीपतेः ।
स्नापयित्वा समस्तेभ्यः पापेभ्यः कृष्ण मुच्यते । । ५
सप्तम्यामथ षष्ठ्यां वा गव्येन हविषा रवेः ।
स्नपनं तु भवेच्छ्रेष्ठं महापातकनाशनम् । । ६
ज्ञानतोऽज्ञानतो वापि यत्पापं कुरुते नरः ।
तत्क्षालयति सन्ध्यायां घृतेन स्नपनं रवेः । । ७
सर्वयज्ञमयो भानुर्हव्यानां परमं घृतम् ।
तयोरशेषपापानां क्षालकः सङ्गमो भवेत् । । ८
येषु क्षीरवहा नद्यो ह्रदाः पायसकर्दमाः ।
मोदते तेषु लोकेषु क्षीरस्नानकरो रवेः । । ९
आह्लादं निर्वृतिस्थानमारोग्यं चारुरूपताम् ।
सप्तजन्मान्यवाप्नोति क्षीरवानपरो रवेः । । 1.114.१०
दध्यादीनां विकाराणां क्षीरतः सम्भवो यथा ।
यथा च विमलं क्षीरं यथा निर्वृतिकारकम् । ।
तथा च निर्मलं ज्ञानं भवत्यपि न संशयः । । ११
ग्रहानुकूलतां पुष्टिं प्रियत्यमखिले जने ।
करोति भगवान्भानुः क्षीरस्नपनतोषितः । । १२
सर्वस्य स्निग्धतामेति दृष्टमात्रे प्रसीदति ।
घृतक्षीरेण देवेश स्नापिते तिमिरापहे । । १३
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्नापनयोगवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः । ११४ ।