भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११७

उपलेपनस्नापनमाहात्म्यवर्णनम्

अरुण उवाच
किमर्थं भोजकस्तुभ्यं प्रियो देवेश कथ्यताम् ।
नान्ये विप्रादयो वर्णा देवतायतनेषु वै । । १
कश्चायं भोजको देव कस्य पुत्रः किमात्मकः ।
वर्णतश्चास्य मे ब्रूहि कर्म चास्य समन्ततः । । २
आदित्य उवाच
साधु पृष्टोऽस्मि भद्रं ते वैनतेय महामते ।
शृणुष्वैकमनाः सर्वं गदतो मम खेचर । । ३
विप्रादयस्तु ये त्वन्ये वर्णाः कश्यपनन्दन ।
ते पूजयन्ति मां नित्यं भक्तिश्रद्धासमन्विताः । ।४
देवालयेषु ये विप्राः प्रीत्या मां पूजयन्ति हि ।
अन्याश्च देवतावृत्त्या ते स्युर्देवलकाः खग । ।
एतस्मात्कारणान्मह्यं भोजको दयितः सदा । । ५
वर्णतो ब्राह्मणश्चायं स्वानुष्ठानपरो यदि ।
अनुष्ठानविहीनो हि नरकं यात्यसंशयम् । । ६
न त्याज्यं भोजकैस्तस्मात्स्वकं कर्म कदाचन ।
मयासौ निर्मितः पूर्वं तेजसा स्वेन वै खग । । ७
पूजार्थमात्मनो नूनं कर्म चास्य प्रकीर्तितम् ।
प्रियव्रतसुतो राजा शाकद्वीपे महामतिः । । ८
तेन मे कारितं दिव्यं विमानप्रतिमं गृहम् ।
तस्मिन्द्वीपे तदात्मीये दिव्यं शिलामयं महत् । । ९
स मदर्चां कारयित्वा काञ्चनीं लक्षणान्विताम् ।
प्रतिष्ठापनाय वै तस्याश्चिन्तयामास सुव्रतः । । 1.117.१०
कृतमायतनं श्रेष्ठं तेनेयं प्रतिमा कृता ।
को वै प्रतिष्ठापयिता देवमर्कं शुभालये । । ११
एवं सञ्चिन्तयित्वा तु जगाम शरणं मम ।
भक्तिं तस्य च सञ्चिन्त्य खगाहं पार्थिवस्य तु । । १२
गतोऽहं दर्शनं तस्य उक्तञ्चापि मया खग ।
किं चिन्तयसि राजेन्द्र कुतश्चिंता समागता । । १३
ब्रूहि यत्ते हृदि प्रौढं चिन्ताकारणमागतम् ।
संपादयिष्ये तत्सर्वं विमना भव मा नृप । । १४
अत्यर्थं दुष्करमपि करिष्ये नात्र संशयः ।
इत्युक्तः स मया राजा इदं वचनमब्रवीत् । । १५
द्वीपेऽस्मिन्देवदेवस्य कृतमायतनं तव ।
मया भक्त्या जगन्नाथ तथेयं प्रतिमा कृता । । १६
प्रतिष्ठां कारयेद्यस्तु तव देवालये खग ।
यत्र सन्ति त्रयो वर्णा द्वीपेस्मिन्क्षत्रियादयः । । १७
ते मयोक्ता न कुर्वन्ति प्रतिष्ठां तव कृत्स्नशः ।
न चाप्यर्चां जगन्नाथ ब्राह्मणश्चात्र विद्यते । । १८
तेनेयमागता चिन्ता हृदि शल्यं तयार्पितम् ।
ततो मयोक्तो राजाऽसौ वैनतेय वचः शुभम् । । १९
एवमेतन्न संदेहो यथात्थ त्वं नराधिपः ।
क्षत्रियादित्रयो वर्णा द्वीपेऽस्मिन्नात्र संशयः । । 1.117.२०
ते च नार्हन्ति मे पूजां न प्रतिष्ठां कदाचन ।
तस्मात्ते श्रेयसे राजन्प्रतिष्ठामात्मनस्तथा । । २१
सृजामि प्रथमं वर्णं भग(मग?)संज्ञमनौपमम् ।
इत्युक्त्वा तमहं वीर राजानं खगसत्तम । । २२
जगाम परमां चिन्तां तस्य कार्यस्य सिद्धये ।
अथ मे चिन्तयानस्य१ स्वशरीराद्विनिःसृताः । । २३
शशिकुन्देन्दुसंकाशाः संख्ययाष्टौ महाबलाः ।
पठन्ति चतुरो वेदान्सांगोपनिषदः खग । । २४
काषायवाससः सर्वे करण्डाम्बुजधारिणः ।
ललाटफलकाद्द्वौ तु द्वौ चान्यौ वक्षसस्तथा । । २५
चरणाभ्यां तथा द्वौ तु पादाभ्यां द्वौ तथा खग ।
अथ ते च महात्मानः सर्वे प्रणतकन्धराः । । २६
पितरं मन्यमाना मामिदं वचनमब्रुवन् ।
तात तात महादेव लोकनाथ जगत्पते । । २७
किमर्थं भवता सृष्टा वयं देवस्य देहतः ।
ब्रूहि सर्वं करिष्याम आदेशं भवतोऽखिलम् । । २८
पितास्माकं भवान्देवो वयं पुत्रा न संशयः ।
इत्युक्तवन्तस्ते सर्वे मयोक्ता देवसम्भवाः । । २९
प्रियव्रतसुतो योयमस्य वाक्यं करिष्यथ ।
स चाप्युक्तो मया राजा शाकद्वीपाधिपः खग । । 1.117.३०
य एते मत्सुता राजन्नर्घ्या ब्राह्मणसत्तमाः ।
कारयन्तु प्रतिष्ठां मे सर्वैरेभिर्महीपते । । ३१.
कारयित्वा प्रतिष्ठां तु ममार्चायां नराधिप ।
पश्चादायतनं सर्वमेषामर्पय पूजने । । ३२
एते मत्पूजने योग्याः प्रतिष्ठासु च सर्वशः ।
समाप्य न प्रहर्तव्यं भोजकेभ्यः कदाचन । । ३३
सर्वमायतनार्थं तु गृहक्षेत्रादिकं च यत् ।
धनधान्यादिकं राजन्यन्ममायतने भवेत् । । ३४
तत्सर्वं भोजकेभ्यस्तु दातव्यं नात्र संशयः ।
धनधान्यसुवर्णादि गृहक्षेत्रादिकं च यत् । ।
यन्मदीयं भवेत्किञ्जिद्ग्रामे वा नगरे क्वचित् । । ३५
तस्य सर्वस्य राजेन्द्र मदीयस्य समन्ततः ।
अधिपा भोजकाः सर्वे नान्ये विप्रादयो नृप । । ३६
यथाधिकारी पुत्रस्तु पितृद्रव्यस्य वै भवेत् ।
तथा मदीयवित्तस्य भोजकाः स्युर्न संशयः । । ३७
इत्युक्तेन मया राज्ञा तथा सर्वं प्रवर्तितम् ।
कारयित्वा प्रतिष्ठां तु दत्त्वा सर्वस्वमेव हि । ।
भोजकेभ्यः खगश्रेष्ठ ततो हर्षमवाप्तवान् । । ३८
एवमेते मया सृष्टा भोजका गरुडाग्रज ।
अहमात्मा ततो ह्येषां सर्वे सुमनसस्तथा । । ३९
मत्पुत्रेण समा ज्ञेयास्तथा मम हिताः सदा ।
तस्मात्तेभ्यः प्रदातव्यं न हर्तव्यं कदाचन । । 1.117.४०
भोजकस्य हरेद्यस्तु लोभाद्द्वेषात्तथापि वा ।
स याति नरकं घोरं तामिस्रं शाश्वतीः समाः । । ४१
तस्माद्ग्रामादिकं द्रव्यं यत्किञ्चिन्मम विद्यते ।
तत्सर्वं भोजकस्वं हि पितृपर्यागतं मम । । ४२
भोजकश्च भवेद्यादृक्तत्ते वच्मि खगेश्वर ।
ममाज्ञां पालेयद्यस्तु स्वानुष्ठानपरः सदा । । ४३
वेदाधिगमनं पूर्वं दारसंग्रहणं तथा ।
अभ्यङ्गधारणं नित्यं तथा त्रिषवणं स्मृतम् । । ४४
पञ्चकृत्वः सदा पूज्यो ह्यहं रात्रौ दिने तथा ।
देवब्राह्मणवेदानां निन्दा कार्या न वै क्वचित् । । ४५
नान्यादेवप्रतिष्ठा तु कार्या वै भोजकेन तु ।
ममापि च न कर्तव्या तेन एकाकिना क्वचित् । । ४६
सर्वमेव निवेद्यान्नं नाश्नीयाद्भोजकः सदा ।
न भुञ्जीत गृहं गत्वा शूद्रस्य गरुडाग्रज । । ४७
शूद्रोच्छिष्टं प्रयत्नेन सदा त्याज्यं हि भोजकैः ।
येऽश्नन्ति भोजका नित्यं शूद्रान्नं शूद्रवेश्मनि । । ४८
ते वै पूजाफलं चात्र कथं प्राप्स्यन्ति खेचर ।
गत्वा गृहं तु शूद्रस्य न भोक्तव्यं कदाचन । । ४९
गृहागतं च शूद्रान्नं तच्च त्याज्यं तथैव च ।
आध्मातव्योम्बुजो नित्यं भोजकेनाग्रतो मम । । 1.117.५०
सकृत्प्रवादिते शंखे मम प्रीतिर्हि जायते ।
षण्मासान्नात्र सन्देहः पुराणश्रवणं तथा । । ५१
तस्माच्छंखः सदा वाद्यो भोजकेन प्रयत्नतः ।
तस्येयं परमा वृत्तिर्नैवेद्यं यन्मदीयकम् । । ५२
नाभोज्यं भुञ्जते यस्मात्तेनैते भोजका मताः ।
मगं ध्यायन्ति ते यस्मात्तेन ते मगधाः स्मृताः । । ५३
भोजयन्ति च मां नित्यं तेन ते भोजका स्मृताः ।
अभ्यङ्गं च प्रयत्नेन प्रायं शुद्धिकरं परम् । । ५४
अभ्यङ्गहीनो ह्यशुचिर्भोजकः स्यान्न संशयः ।
यस्तु मां पूजयेद्वीर अभ्यङ्गेन विना खग । । ५५
न तस्य सन्ततिः स्याद्वै न चाहं प्रीतिमान्भवे१ ।
मुण्डनं शिरसा कार्यं शिखा धार्या प्रयत्नतः । । ५६
नक्तं चादित्यदिवसे तथा षष्ठ्यां प्रवर्तयेत् ।
सप्तम्यामुपवासस्तु मम संक्रमणे तथा । । ५७
कर्तव्यो भोजकेनैव मत्प्रीत्यै गरुडाग्रज ।
त्रिकालं चापि गायत्रीं जपेद्वाचा पुरो मम । । ५८
मुखमावृत्य यत्नेन पूजनीयोऽहमादरात् ।
मौनं चास्य प्रयत्नेन त्यक्त्वा क्रोधं च दूरतः । । ५९
शूद्रेभ्यो यस्तु वैश्येभ्यो लोभात्कामात्प्रयच्छति ।
निर्माल्यं मम वै वत्स स याति नरकं ध्रुवम् । । 1.117.६०
लोभाद्वै भोजको यस्तु मत्पुष्पाणि खगाधिप ।
यच्छतेन्यस्य दुष्टात्मा मय्यनारोप्य खेचर । । ६१
स ज्ञेयो मे परः शत्रुः स मामर्हो न चार्चितुम् ।
निर्माल्यं मम देयं स्याद्ब्राह्मणादिषु वै नृषु । । ६२
नैवेद्यं यन्मदीयं तु तदश्नीयात्सदैव हि ।
तेनासौ शुद्ध्यते नित्यं हविष्यान्नसमं तथा । । ६३
तत्क्षणादुत्क्षिपेद्यस्तु ममांगात्पुष्पमेव हि ।
नान्यस्य देयं नैवेद्यं मदीयमुदके२ क्षिपेत् । । ६४
पञ्चगव्यसमं तस्य मन्मतं नात्र संशयः ।
ममाङ्गलग्नं यत्किञ्चिद्गन्धं पुष्पमथापि वा । । ६५
दातव्यं न च वैश्याय न शूद्राय कदाचन ।
आत्मना तद्ग्रहीतव्यं न विक्रेयं कथञ्चन । । ६६
यस्तु नारोप्य पुष्पाणि अव्यङ्गानि ममोपरि ।
यः कश्चिदाहरेल्लोके स याति नरकं ध्रुवम् । । ६७
स्नपनं मम निर्माल्यं पावकं यस्तु लङ्घयेत् ।
स नरो नरकं याति सरौद्रं रौरवं खग । । ६८
भोजकेन सदा कार्यं स्नपनं मे प्रयत्नतः ।
यथा न लङ्घयेत्कश्चिद्यथा श्वा नापि भक्षयेत् । । ६९
यद्ययत्नपरः कुर्याद्भोजकः स्नपनं मम ।
यथा वै लङ्घितमतिर्भक्ष्यतां च खगाधिप । । 1.117.७०
स याति नरकं रौद्रं तामिश्रं नाम नामतः ।
एकभक्तं सदा कार्यं स्नानं त्रैकालमेव हि । । ७१
त्रिचैलं परिवर्तेत भवितव्यं दिनेदिने ।
पूजाकालेऽर्घकाले च क्रोधस्त्याज्यः प्रयत्नतः । । ७२
अमांगल्यं न वक्तव्यं वक्तव्यं च शुभं तदा ।
ईदृग्भूतो भोजको मे प्रेयान् पूजाकरः सदा । । ७३
सन्मान्यः पूजनीयश्च विप्रादीनां यथास्म्यहम् ।
यः करोत्यवमानं तु वृत्तिरूपं तु भोजके । । ७४
तस्याहं रोषमेत्याशु कुलं हन्मि समन्ततः ।
प्रियो मे भोजको नित्यं यथा त्वं विनतासुत । । ७५
उपलेपनकर्ता च सम्मार्जनपरश्च यः । ।
परावसुरुवाच
इत्युक्त्वा भगवान्भानुर्बभ्राम रथमास्थितः । । ७६
अरुणोऽपि तथा श्रुत्वा मुदया परया नृपः ।
पूज्यस्तस्मान्महाराज भोजकस्तु महीपते । । ७७
तस्माद्देवं वाचकाय द्वितीयमशनं नरैः । । ७८
ब्रह्मोवाच
इत्थं श्रुत्वा स राजा तु कर्मणः फलमात्मनः ।
पुरातनं महाबाहुर्मुदमाप महीपतिः । ।७९
यद्यदायतनं भानोः पृथिव्यां पश्यते नृपः ।
तस्मिंस्तस्मिन्कारयति उपलेपनमादरात् । । 1.117.८०
भार्या तस्यापि सुश्रोणि पुण्यश्रवणमादरात् ।
वाचके वेतनं दत्त्वा भानोर्देवस्य मन्दिरे । । ८१
इत्थं राजा सपत्नीकः पूज्य भक्त्या दिवाकरम् ।
प्राप्तावुभौ परां प्रीतिं गतिं चानुत्तमां तथा । । ८२

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उपलेपनस्नापनमाहात्म्यवर्णनं नाम सप्तदशाधिकशततमोऽध्यायः । ११७ ।

सत्राजितोपाख्यानं समाप्तम्