भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः ११९

दीपदानवर्णनम्

ब्रह्मोवाच
अन्धे तमसि दुष्पारे नरके पतितात्किल ।
संक्रोशमानान्संक्षुब्धानुवाच यमकिङ्करः । । १
विलापैरलमत्रेति किं वो विलपिते फलम् ।
यत्प्रमादादिभिः पूर्वमात्मायं समुपेक्षितः । । २
पूर्वमालोचितं नैतत्कथमन्ते भविष्यति ।
इदानीं यातनां भुङ्ध्वं किं विलापं करिष्यथ । । ३
देहो दिनानि स्वल्पानि विषयाश्चातिदुर्बलाः ।
एतत्को न विजानाति येन यूयं प्रमादिनः । । ४
जन्तुर्जन्मसहस्रेभ्य एकस्मिन्मानुषो यदि ।
स तत्राप्यतिमूढात्मा किं भोगानभिधावति । । ५
पुत्रदारगृहक्षेत्रहिताय सततोद्यताः ।
न जानन्ति ततो मूढाः स्वल्पमप्यात्मनो हितम् । । ६
वञ्चितोऽहं मया लब्धमिदमस्मादुपागतम् ।
न वेत्ति मोहितः कश्चित्प्रक्रान्तनरको नरः । । ७
न वेत्ति सूर्यचन्द्रादीन्कालमात्मानमेव च ।
साक्षिभूतानशेषस्य शुभस्येहाशुभस्य च । । ८
जन्मान्यन्यानि जायन्ते पुत्रदारादिदेहिनाम् ।
यदर्थं यत्कृतं कर्म तस्य जन्मशतानि तु । । ९
अहो मोहस्य माहात्म्यं ममत्वं नरकेष्वपि ।
क्रन्दते मातरं तातं पीड्यमानोऽपि यत्स्वयम् । । 1.119.१०
एवमाकृष्टचित्तानां विषयैः स्वादुतर्पणैः ।
नृणां न जायते बुद्धिः परमार्थविलोकिनी । । ११
तथा च विषयासङ्गे करोत्यविरतं मनः ।
को हि भारो रवेर्नाम्नि जिह्वायाः परिकीर्तने । । १२
वर्तितैलेऽल्पमूल्ये च यद्वर्त्तिर्लभ्यते सुधा ।
अतो वै कतरो लाभः का तश्चिन्ता भवेत्तदा । । १३
येनायतेषु हस्तेषु स्वातंत्र्ये सति दीपकः ।
महाफलो भानुगृहे न दत्तो नरकापहाः । । १४
नरो विलपते किञ्चिदिदानीं दृश्यते फलम् ।
अस्वातंत्र्ये विलपतां स्वातंत्र्ये सति मानिनाम् । । १५
अवश्यं पातिनः प्राणा भोक्ता जीवोऽप्यहर्निशम् ।
दत्तं च लभते भोक्तं कामयन्विषयानपि । । १६
एतत्स्थानं दुष्कृतैर्वा युक्तं चाद्य मयेक्षितम् ।
इदानीं किं विलापेन सहध्वं यदुपागतम् । । १७
यद्येतदनभीष्टं वो यद्दुःखं समुपस्थितम् ।
तदद्भुतमतिः पापे न कर्तव्या कदाचन । । १८
कृतेऽपि पापके कर्मण्यज्ञानादघनाशनम् ।
कर्तव्यमनवच्छिन्नं पूजनं सवितुः सदा । । १९
ब्रह्मोवाच
नारकास्तद्वचः श्रुत्वा तमूचुरतिदुःखिताः ।
क्षुत्क्षामकण्ठास्तृट्तापविसंस्फुटिततालुकाः । । 1.119.२०
भो भोः साधो कृतं कर्म यदस्माभिस्तदुच्यताम् ।
नरकस्थैर्विपाकोऽयं भुज्यते यत्सुदारुणः । । २१
किङ्कर उवाच
युष्माभियौंवनोन्मादान्मुदितैरविवेकिभिः ।
घृतलोभेन मार्तण्डगृहाद्दीपः पुरा हृतः । । २२
तेनास्मिन्नरके घोरे क्षुत्तृष्णापरिपीडिताः ।
भवन्तः पतितास्तीव्रे शीतवातविदारिताः । । २३
ब्रह्मोवाच
एतत्ते दीपदानस्य प्रदीपहरणस्य च ।
पुण्यं पापं च कथितं भास्करायतनेऽच्युत । । २४
सर्वत्रैव हि दीपस्य प्रदानं कृष्ण शस्यते ।
विशेषेण जगद्धातुर्भास्करस्य निवेशने । । २५
येऽन्धा मूका बधिरा निर्विवेका हीनास्तैस्तैर्दानसाधनैर्वृष्णिवीर ।
तैस्तैर्दीपाः साधुलोकप्रदत्ता देवागारादन्यतः कृष्ण नीताः । । २६

इति श्री भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे दीपदानमाहात्म्यवर्णनं नामैकोनविंशत्यधिकशततमोऽध्यायः । ११९ ।