भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२०
आदित्यपूजावर्णनम्
विष्णुरुवाच
भगवन्प्राणिनः सर्वे विषरोगाद्युपद्रवैः ।
दुष्टग्रहोपघातैश्च सर्वकालमुपद्रुताः । । १
आभिचारिककृत्याभिः स्पर्शरोगैश्च दारुणैः ।
सदा सम्पीड्यमानास्तु तिष्ठन्त्यम्बुजसम्भव । । २
येन कर्मविपाकेन विषरोगाद्युपद्रवाः ।
प्रभवन्ति नृणां तन्मे यथावद्वक्तुमर्हसि । । ३
ब्रह्मोवाच
व्रतोपवासैर्यैर्भानुर्नान्यजन्मनि तोषितः ।
ते नरा देवशार्दूल ग्रहरोगादिभागिनः । । ४
यैर्न तत्प्रवणं चित्तं सर्वदैव नरैः कृतम् ।
विषग्रहज्वराणां ते मनुष्याः कृष्ण भागिनः । । ५
आरोग्यं परमां वृद्धिं मनसा यद्यदिच्छति ।
तत्तदाप्नोत्यसंदिग्धं परत्रादित्यतोषणात् । । ६
नाधीन्प्राप्नोति न व्याधीन्न विषयग्रहबन्धनम् ।
कृत्यास्पर्शभयं वापि तोषिते तिमिरापहे । । ७
सर्वे दुष्टाः समास्तस्य सौम्यास्तस्य सदा ग्रहाः ।
देवानामपि पूज्योऽसौ तुष्टो यस्य दिवाकरः । । ८
यः समः सर्वभूतेषु यथात्मनि तथा हिते ।
उपवासादिना येन तोष्यते तिमिरापहः । । ९
तोषितेऽस्मिन्प्रजानाथे नराः पूर्णमनोरथाः ।
अरोगाः सुखिनो नित्यं बहुधर्मसुखान्विताः । । 1.120.१०
न तेषां शत्रवो नैव शरीराद्यभिचारकम् ।
ग्रहरोगादिकं चापि पापकार्युपजायते । । ११
अव्याहतानि देवस्य धनजालानि तं नरम् ।
रक्षन्ति सकलापत्सु येन श्वेताधिपोऽर्चितः । । १२
विष्णुरुवाच
अनाराधितमार्तण्डा ये नराः दुःखभागिनः ।
ते कथं नीरुजः सन्तु विज्वरा गतकल्मषाः ।। १३
ब्रह्मोवाच
आराधयन्तु देवेशं पुष्पेणैवमनौपमम् ।
भास्करं तु जगन्नाथं सर्वदेवगुरुं परम् ।। १४
विष्णुरुवाच
दोषाभिभूतदेहैस्तु कथमाराधनं रवेः ।
कर्त्तव्यं वद देवेश भक्त्या श्रेयोऽर्थमात्मनः ।। १५
अनुग्राह्योऽस्मि यदि ते ममायं भक्तिमानिति ।
तन्मयोपदिश त्वं च महदाराधनं रवेः ।। १६
अनन्तमजरं देवं दुष्टसन्देहनाशनम् ।
आराधयितुमिच्छामि भगवन्तस्त्वदनुज्ञया । ।
येनाहं त्वत्प्रसादेन भवेयमतिविक्रमः ।। १७
ब्रह्मोवाच
अनुग्राह्योऽसि देवस्य नूनमव्यक्तजन्मनः ।
आराधनाय ते विष्णो यदेतत्प्रवणं मनः ।। १८
यदि देवपतिं भानुमाराधयितुमिच्छसि ।
भगवन्तमनाद्यं च भव वैवस्वतोऽच्युत ।। १९
न ह्यवैवस्वतैर्भानुर्ज्ञातुं स्तोतुं च शक्यते ।
द्रष्टुं वा शक्यते मूढैः प्रवेष्टुं कुत एव तु ।।1.120.२ ०
तद्भक्तिप्रार्थिताः पूता नरास्तद्भक्तिचेतसः ।
वैवस्वता भवन्त्येवं विवस्वन्तं विशन्ति च ।।२ १
अनेकजन्मसंसारचिते पापसमुच्चये ।
नाक्षीणे जायते पुंसां मार्तण्डाभिमुखी मतिः । । २२
प्रद्वेषं याति मार्तण्डे द्विजान्वेदांश्च निन्दति ।
यो नरस्तं विजानीयादसुरांशसमुद्भवम् । । २३
पाषण्डेषु रतिः पुंसां हेतुवादानुकूलता ।
जायते दम्भमायाम्भः पतितानां दुरात्मनाम् । । २४
यदा पापक्षयः पुंसां तदा वेदद्विजातिषु ।
भानौ च यज्ञपुरुषे श्रद्धा भवति नैष्ठिकी । । २५
यदा स्वल्पावशेषस्तु नराणां पापसञ्चयः ।
तदा भोजकविप्रेषु भानौ पूजां प्रकुर्वते । । २६
भ्रमतामत्र संसारे नराणां कर्मदुर्गमे ।
करावलम्बनो ह्येको भक्तिप्रीतो दिवाकरः । । २७
स त्वं वैवस्वतो भूत्या सर्वपापहरं हरिम् ।
आराधय समं भक्त्या प्रीतिमभ्येति भास्करः । । २८
विष्णुरुवाच
किं लक्षणा भवन्त्येते नरा वैवस्वता गुणैः ।
यच्च वैवस्वतं कार्यं तन्मे कथय कञ्जज । । २९
ब्रह्मोवाच
कर्मणा मनसा वाचा प्राणिनां यो न हिंसकः ।
भावभक्तश्च मार्तण्ड कृष्ण वैवस्वतो हि सः । । 1.120.३०
यो भोजकद्विजान्देवान्नित्यमेव नमस्यति ।
न च भोक्ता परस्वादेर्विष्णो वैवस्वतो हि सः । । ३१
सर्वान्देवान्रविं वेत्ति सर्वांल्लोकांश्च भास्करम् ।
तेभ्यश्चानन्यमात्मानं कृष्ण वैवस्वतो हि सः । । ३२
देवं मनुष्यमन्यं वा पशुपक्षिपिपीलिकम् ।
तरुपाषाणकाष्ठादिभूम्यम्भोधिं दिवं तथा । । ३३
आत्मानं चापि देवशाद्व्यतिरिक्तं दिवाकरात् ।
यो न जानाति तं विद्यात्कृष्ण वैवस्वतं नरम् । । ३४
सर्वो वैवस्वतो भागो यद्भूतं यद्व्यवस्थितम् ।
इति वै यो विजानाति स तु वैवस्वतो नरः । । ३५
भवभीतिं हरत्येष भक्तिभावेन भावितः ।
विवस्वानिति भावो यः स तु वैवस्वतो नरः । । ३६
भावं न कुरुते यस्तु सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा स च वैवस्वतो नरः । । ३७
बाह्यार्थनिरपेक्षो यः क्रियां भक्त्या विवस्वतः ।
भावेन निष्पादयति ज्ञेयो वैवस्वतो हि सः । । ३८
नारयो यस्य न स्निग्धा न भेदाधीनवृत्तयः ।
वीक्षते सर्वमेवेदं भानुं वैवस्वतो हि सः । । ३९
सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ।
तां गतिं न नरा यन्ति यां तु वैवस्वतो गतः । ।1.120.४ ०
येन सर्वात्मना भानौ भक्त्या भावो निवेशितः ।
देवश्रेष्ठ कृतार्थत्वाच्छ्लाघ्यो वैवस्वतो हि सः । । ४१
अपि नः स कुले धन्यो जायेत कुलपावनः ।
भास्करं भक्तिभावेन यस्तु वै पूजयिष्यति । ।४२
यः कारयति देवार्चां हदयालम्बिनीं रवेः ।
स नरोऽर्कमवाप्नोति धर्मध्वजमनौपमम् । ।४ ३
यश्च देवालयं भक्त्या भानोः कारयते स्थिरम् ।
स सप्त पुरुषाँल्लोकान्भानोर्नयति मानवः । ।४४
यावन्तोब्दान्हि देवार्चा रवेस्तिष्ठति मंदिरे ।
तावद्वर्षसहस्राणि पुष्पोत्तरगृहे वसेत् । । ४५
देवार्चालक्षणोपेतो यद्गृहे सन्ततो विधिः ।
निष्कामं च मनो यस्य स यात्यक्षरसाम्यताम् । । ४६
पुष्पाण्यतिसुगंधीनि मनोज्ञानि च यः पुमान् ।
प्रयच्छति जगन्नाथे सप्ताश्वे ज्योतिषां पतौ । ।
स याति परमं स्थानं यत्र ज्योतिः सनातनम् । ।४७
यस्य यस्य विहीनो यो देशो यद्वर्जितं च यत् ।
धूपांश्च विविधांस्तांस्तान्गंधाढ्यं सुविलेपनम् । ।४८
दीपवर्त्युपहारांश्च यच्चाभीष्टमथात्मनः ।
नरः सोनुदिनं यज्ञान्करोत्याराधनाद्रवेः । ।४ ९
यज्ञेशो भगवान्भानुर्मखैरपि स तोष्यते ।
बहूपकरणा यज्ञा नानासंभारविस्तराः । ।
संप्राप्यन्ते धनयुतैर्मनुष्यैर्नाल्पसंचयैः । । 1.120.५०
भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ।
रवेर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम् । । ५१
यानि पुष्पाणि हृद्यानि धूपगन्धानुलेपनम् ।
दयितं भूषणं यच्च तथा रक्ते च वाससी । । ५२
यानि चाभ्यवहार्याणि भक्ष्याणि च फलानि च ।
प्रयच्छ तानि मार्तण्ड भवेथाश्चैव तन्मनाः । । ५३
आद्यं तं यज्ञपुरुषं यथा भक्त्या प्रसादय ।
आराध्य याति तं देवं यत्तद्ब्रह्म परं स्मृतम् । । ५४
पुण्यैस्तीर्थोदकैः पुष्पैर्मधुना सर्पिषा तथा ।
क्षीरेण स्नापयेद्देवमच्युतं जगतां पतिम् । । ५५
दधिक्षीरह्रदान्पुण्यांस्ततो लोकान्मधुच्युतः ।
प्रयास्यसि यदुश्रेष्ठ निर्वृतिं चापि ऐश्वरीम् । । ५६
स्तोत्रैर्हद्यैर्यथा वाद्यैर्ब्राह्मणानां च तर्पणैः ।
मनसश्चैकतायोगादाराधय दिवाकरम् । । ५७
आराध्यं तं महादेवो महच्छब्दमवाप्तवान् । । ५८
अहं चापि समस्तानां लोकानां सृष्टिकारकः ।
तमाराध्य विवस्वन्तं तत्प्रसादाज्जनार्दन । । ५९
त्वमप्येतं हृषीकेश तत्प्रसादान्न संशयः ।
समर्थो देवशत्रूणां दैत्यानां नाशने सदा । । 1.120.६०
दक्षिणः किरणस्तस्य यो देवस्य विवस्वतः ।
अहं तस्मात्समुत्पन्नो वेदवेदाङ्गसम्मितः । । ६१
वामो यः किरणः कृष्ण रश्मिमालाकुलः सदा ।
तस्मादीशः समुत्पन्नः पार्वतीदयितोऽच्युत । । ६२
वक्षसस्त्वं समुत्पन्नः शंखचक्रगदाधरः ।
तथाम्बुजकरा देवी अम्बुजाननवल्लभा । । ६३
समाराध्य बलं कीर्तिं श्रियं चावाप्तवानहम् ।
तथा त्त्वमपि राजेन्द्र तमाराध्य दिवाकरम् । ।
यान्यानिच्छसि कामांस्त्वं तांस्तान्सर्वानवाप्स्यसि । । ६४
य इदं शृणुयान्नित्यं संवादं विधिकृष्णयोः ।
सोऽपि कामानवाप्याग्र्यांस्ततो लोकमवाप्नुयात् । । ६५
गैरिकं यानमारूढो युक्तं कुञ्जरवाजिभिः ।
तेजसाम्बुजसंकाशः प्रभयाण्डज सन्निभः । । ६६
कान्त्या चंद्रसमो राजन्वृन्दारकगणैर्वृतः ।
गन्धर्वैर्गीयमानस्तु तथा चाप्सरसां गणैः । । ६७
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यपूजावर्णनं नाम विंशत्यधिकशततमोऽध्यायः । १२० ।