आदित्यस्तववर्णनम्

शतानीक उवाच
तस्मिन्काले समारूढो लिख्यमानो दिवस्पतिः ।
ब्रह्मादिभिः स्तुतो देवैर्यथा वै तद्वदस्व मे । । १
सुमन्तुरुवाच
शृणुष्वैकमना राजन्यथा देवो दिवस्पतिः ।
ब्रह्मादिभिः स्तुतो देवैर्ऋषिभिश्च पुराऽनघ । । २
प्रयत्नतः प्रणतहितानुकम्पिने स्वरूपतो लोकविभाविने नमः ।
दिवस्पते कमलकुलावबोधिने नमस्तमः पटसपटावपायिने । । ३
पावनातिशयपुण्यकर्मणे नैककामविभवप्रदायिने ।
भासुरामलमयूखमालिने सर्वलोकहितकारिणे नमः । । ४
अजाय लोकत्रयभावनाय भूतात्मने गोपतये प्रियाय ।
नमो महाकारुणिकोत्तमाय सूर्याय लोकत्रयभावनाय । । ५
विवस्वते ज्ञानकृतान्तरात्मने जगत्प्रतिष्ठाय जगद्धितैषिणे ।
स्वयम्भुवे लोकसमस्तचक्षुषे सुरोत्तमायामिततेजसे नमः । । ६
निजोदयाय सुरगणमौलिमणे जगता त्वं महितस्त्वमुरुमयूखसहस्रतपाः ।
जगति विभो वतमसतुद वनतिमिरासवपावन मदाद्भवति विलोहितविग्रहतातिमिरविनाशिनमुग्रं सुतरां त्रिभुवनभाप्रकरैः । । ७
रथामारुह्य१ समामयं भ्रमसि सदा जगतो हितदः । । ८
इत्येवं संस्तुतो देवो भास्करो वेधसा पुरा ।
दैवतैश्च महाबाहो शिवविष्ण्वादिभिर्नृप । । ९

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे आदित्यस्तवो नाम द्वाविंशत्यधिकशततमोऽध्यायः । १२२ ।