व्योममाहात्म्यवर्णनम्

सुमन्तुरुवाच
आकाशं खं दिशो व्योम अन्तरिक्षं नभोऽम्बरम् ।
पुष्करं गगनं मेरुर्विपुलं च बिलं तथा । । १
आपोछिद्रं तथा शून्यं तमो वै रोदसी तथा ।
नामान्येतानि ते व्योम्नः कीर्तितानि महीपते । । २
लवणक्षीरदध्यम्लघृतमध्विक्षवस्तथा ।
स्वादूदकश्च सप्तैते समुद्राः परिकीर्तिताः । । ३
हिमवान्हेमकूटश्च निषधो नील एव च ।
श्वेतश्च शृङ्गवांश्चैव षडेते वर्षपर्वताः । ।४
मध्यसंस्थस्तथैतेषां महाराजतपर्वतः ।
माहेन्द्री चाप्यथाग्नेयी याम्या च नैर्ऋती तथा । । ५
वारुणी चाथ वायव्या सौम्यैशानी तथैव च ।
एताः पुर्यस्तु देवानां तथोपरि समाश्रिताः । । ६
पृथिव्यां तु स्थितो वीर लोकालोकस्तु पर्वतः ।
ततश्चण्डकपालं तु तस्मात्तत्परतस्तु यः । । ७
ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते ।
ततो महानहङ्कारः प्रकृतिः पुरुषस्ततः । । ८
पुरुषादीश्वरो श्रेय ईश्वरेणाव्रृतं जगत् ।
ईश्वरो भगवन्भानुस्तेनेदं पूरितं जगत् । । ९
सहस्रांशुर्महातेजाश्चतुर्बाहुर्महाबलः ।
ऊर्ध्वमप्यथ लोकास्तु प्राङ्मया ये प्रकीर्तिताः । । 1.126.१०
भूयस्तान्सम्प्रवक्ष्यामि अण्डावरणकारकान् ।
भूर्लोकस्तुभुवर्लोकस्तृतीयः परिकीर्तितः । । ११
महर्जनस्तपः सत्यः सप्तलोकाः प्रकीर्तिताः ।
१ततस्तवंडकपालं तु तस्माच्च परस्तपः । । १२
ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते ।
ततो महान्प्रधानश्च प्रकृतिपुरुषस्ततः । । १३
पुरुषादीश्वरो ज्ञेय ईश्वरेणावृतं जगत् ।
भूमेरधस्तात्सप्तैव लोकानभिमताञ्छृणु । । १४
तलं सुतलपाताले तलातलं तथातलम् ।
वितलं च कुरुश्रेष्ठ सप्तमं च रसातलम् । । १५
ततोऽग्निर्वायुराकाशं ततो भूतादिरुच्यते ।
ततो महान्प्रधानश्च प्रकृतिः पुरुषस्ततः । । १६
पुरुषादीश्वरो ज्ञेय ईश्वरेणावृतं जगत् ।
एवं मेरोः प्रमाणं तु सर्वमेतत्प्रकीर्तितम् । । १७
चतुरस्रश्चतुः शृंगः स मेरुः काञ्चनः शुभः ।
पृथिव्यां संस्थितो मध्ये सिद्धगन्धर्वसेवितः । । १८
चतुर्भिः काञ्चनैः शृंगैर्दिव्यैर्दिवमिवोल्लिखन् ।
योजनानां सहस्राणि चतुराशीतिरुच्छ्रितः । । १९
प्रविष्टः षोडशाधस्तादष्टविंशतिविस्तृतः ।
विस्तारस्त्रिगुणश्चास्य परिणाहस्ततः स्मृतः । । 1.126.२०
तस्य सौमनसं नाम शृंगमेकं तु काञ्चनम् ।
द्वितीयं पद्मरागाभं ज्योतिष्कं नाम नामतः । । २१
तृतीयं नामतश्चित्रं सर्वदेवमयं शुभम् ।
चतुर्थं राजतं शुक्लं चन्द्रौजस्कमिति स्मृतम् । । २२
यत्तु सौमनसं नाम शृंगं गाङ्गेयमुच्यते ।
तदेव चोदयो नाम्ना यत्रोद्यन्दृश्यते रविः । । २३
उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः ।
दृश्यो भवति भूतानां शिखरं च समास्थितः । । २४
काञ्चनस्य च शैलस्य तेजसार्कस्य चाहृते ।
उभे सन्ध्ये प्रकाशेते आताम्रे पूर्वपश्चिमे । । २५
शृंगे सौमनसे सूर्य उत्तिष्ठत्युत्तरायणे ।
ज्योतिषे दक्षिणे चापि विषुवे मध्यतस्तयोः । । २६
ईशेन्द्रोद्रिश्च ऐशान्यां तत्राग्निः पूर्वदक्षिणे ।
नैर्ऋतेऽपि ततो ज्ञेयो वायव्ये मरुतस्तथा । । २७
मध्ये तु कंजजः साक्षाद्ग्रहा ज्योतींषि चैव हि ।
आदित्यस्तेन रूपेण तस्मिन्व्योम्नि प्रतिष्ठितः । । २८
इदं देवमयं व्योम तथा लोकमयं स्मृतम् ।
पूर्वकोणस्थिते शृंगे स्थितः शुक्रो महीपते । । २९
हेलिजश्चापरे ज्ञेयो धननाथस्तथापरे ।
सोमश्चापि चतुर्थे तु स्थितः शृंगे जनाधिप । । 1.126.३०
मध्ये केशास्थितो राजन्हुङ्कारश्च पिनाकिनः ।
शृंगे पूर्वोत्तरे राजन्स्थितो देवो विधुक्षये१ । । ३१
ततः स्थितो महादेवो गोपतिर्लोकपूजितः ।
पूर्वाग्नेयीस्थिते शृंगे स्थितो वै शाण्डिलः सुतः । । ३२
ततः स्थितो महातेजाः कीनाशो हेलिनन्दनः ।
स्थितो वै नैर्ऋते शृंगे विरूपाक्षो महाबलः । । ३३
तस्मादनन्तरो देवः स्थितो वै यादसां पतिः ।
ततः स्थितो महातेजा वीर मित्रो महाबलः । । ३४
वायव्यं शृंगमाश्रित्य सर्वदेवनमस्कृतम् ।
ततः स्थितो दशबलो नरमारुह्य भारत । । ३५
ब्रह्मा मध्ये स्थितो देवो ह्यनन्तश्चाध एव हि ।
उपेन्द्रशङ्करौ देवौ ब्रह्मणोऽन्ते समास्थितौ । । ३६
एष मेरुस्तथा व्योम एष धर्मश्च पठ्यते ।
सर्वदेवमयश्चायं मेरुर्व्योम इति स्मृतः । । ३७
तथा वेदमयश्चापि पठ्यते नात्र संशयः ।
शृंगाणि वेदाश्चत्वारः पूर्वशृंगादयो विदुः । । ३८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे व्योममाहात्म्यवर्णनं नाम षड्विंशत्यधिकशततमोऽध्यायः । १२६ ।