भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १२७

सूर्यप्रसादवर्णनम्

शतानीक उवाच
कथमाराधितः सूर्यः साम्बेनामिततेजसा ।
विमुक्तस्तु कथं रोगैर्ब्रूहि मां द्विजसत्तम । । १
सुमन्तुरुवाच
साधु पृष्टोऽस्मि राजेन्द्र शृणु साम्बकथां पुरा ।
विस्ताराद्वच्मि ते सर्वां कथां पापविमोचिनीम् । । २
पुरा संश्रुत्य माहात्म्यं भास्करस्य स नारदात् ।
विनयादुपसङ्गम्य वचः पितरमब्रवीत् । । ३
कश्मलेनाभिभूतोऽस्मि मलेन व्याधिनाच्युत ।
वैद्यैरोषधिभिश्चापि न शान्तिर्मम विद्यते । । ४
वनं गच्छामि भगवन्ननुज्ञां दातुमर्हसि ।
शिवेन पुण्डरीकाक्ष ध्याय मां पुरुषोत्तम । । ५
अनुज्ञातः स कृष्णेन सिन्धोरुत्तरकूलतः ।
गत्वा सन्तारयामास चन्द्रभागां महानदीम् । । ६
ततो मित्रवनं गत्वा तीर्थं त्रैलोक्यविश्रुतम् ।
उपवासपरः साम्बः शुष्को धमनिसन्ततः । । ७
आराधनार्थं सूर्यस्य गुह्यं स्तोत्रं१ जजाप ह ।
वेदैश्चतुर्भिः समितं पुराणाश्रयबृंहितम् । । ८
यदेतन्मण्डलं शुक्लं दिव्यं ह्यजरमव्ययम् ।
युक्तं मनोजवैरश्वैर्हारीतैर्ब्रह्मवादिभिः२ । । ९
आदिरेष१ हि भूतानामादित्य इति संज्ञितः ।
त्रैलोक्यचक्षुरेवात्र परमात्मा प्रजापतिः । । 1.127.१०
एष वै मण्डले ह्यस्मिन्पुरुषो दीप्यते महान् ।
एष विष्णुरचिन्त्यात्मा ब्रह्मा चैष पितामहः । । ११
रुद्रो महेन्द्रो वरुण आकाशं पृथिवी जलम् ।
वायुः शशाङ्कः पर्जन्यो धनाध्यक्षो विभावसुः । । १२
यष एष मण्डले ह्यस्मिन् पुरुषो दीप्यते महान् ।
एकः साक्षान्महादेवो वृत्रमण्डनिभः सदा । । १३
कालो ह्येष महाबाहुर्निबोधोत्पत्तिलक्षणः ।
य एष मण्डले ह्यस्मिंस्तेजोभिः पूरयन्महीम् । । १४
भ्राम्यते ह्यव्यवच्छिन्नो वातैर्योऽमृतलक्षणः ।
नातः परतरं किञ्चित्तेजसा विद्यते क्वचित् । । १५
पुष्णाति सर्वभूतानि एष एव सुधामृतैः । अन्तस्थान्म्लेच्छजातीयांस्तिर्यग्योनिगतानपि । । १६
कारुण्यात्सर्वभूतानि पासि त्वं च विभावसो ।
श्वित्रकुष्ठ्यंधबधिरान्पंगूंश्चापि तथा विभो । । १७
प्रपन्नवत्सलो देव कुरुते नीरुजो भवान् ।
चक्रमण्डलमग्रांश्च निर्धनाल्पायुषस्तथा । । १८
प्रत्यक्षदर्शी त्वं देव समुद्धरसि लीलया ।
का मे शक्तिः स्तवैः स्तोतुमार्तोऽहं रोगपीडितः । । १९
स्तूयसे त्वं सदा देवैर्ब्रह्मविष्णुशिवादिभिः ।
महेन्द्रसिद्धगन्धर्वैरप्सरोभिः सगुह्यकैः । । 1.127.२०
स्तुतिभिः किं पवित्रैर्वा तव देव समीरितैः ।
यस्य ते ऋग्यजुः साम्नां त्रितय मण्डलस्थितम् । । २१
ध्यानिनां त्वं परं ध्यानं मोक्षद्वारं च मोक्षिणाम् ।
अनन्ततेजसाक्षोभ्यो ह्यचिंत्याव्यक्तनिष्कलः । । २२
यदयं व्याहतः किञ्चित्स्तोत्रेऽस्मिञ्जगतः पतिः ।
आर्तिं भक्तिं च विज्ञाय तत्सर्वं ज्ञातुमर्हसि । । २३
तमुवाच ततः सूर्यः प्रीत्या जाम्बवतीसुतम् ।
प्रीतोऽस्मि तपसा वत्से ब्रूहि तन्मां यदिच्छसि । । २४
साम्ब उवाच
यदि प्रसन्नो भगवानेष एव वरो मम ।
भक्तिर्भवतु मेऽत्यर्थं त्वयि देव सनातन । । २५
श्रीसूर्य उवाच
भूयस्तुष्टोऽस्मि भद्रं ते वरं वरय सुव्रत ।
स द्वितीयं वरं वव्रे तदैव वरदं विभुम् । । २६
मलः शरीरसंस्थो मे त्वत्प्रसादात्प्रणश्यतु ।
येन मे शुद्धमखिलं वपुर्भवतु गोपते । । २७
सुमन्तुरुवाच
स तथास्त्विति तेनोक्तो भास्करेण महात्मना ।
तां मुमोच रुजं साम्बो देहात्त्वचमिवोरगः । । २८
ततो रूपेण दिव्येन रूपवानभवत्पुनः ।
प्रणम्य शिरसा देवं पुरतोऽवस्थितोऽभवत् । । २९
श्रीसूर्य उवाच
भूयश्च शृणु मे साम्बं तुष्टोऽहं यद्ब्रवीमि ते ।
अद्य प्रभृति त्वन्नाम्ना मम स्थानानि सुव्रत । ।
क्षितौ ये स्थापयिष्यन्ति तेषां लोकाः सनातनाः । । 1.127.३०
स्थापयस्वैव मामस्मिंश्चन्द्रभागातटे शुभे ।
तव नाम्ना च साम्बेदं परां ख्यातिं गमिष्यति । । ३१
कीर्तिस्तवाक्षया लोके ख्यातिं यास्यति सुव्रत ।
भूयश्च ते प्रदास्यामि प्रत्यहं स्वप्नदर्शनम् । । ३२
सुमन्तुरुवाच
एवं दत्त्वा वरं तस्मै वृष्णिसिंहाय चापरम् ।
प्रत्यक्षदर्शनं दत्त्वा तत्रैवान्तरधाद्धरिः । । ३३
य इदं पठते स्तोत्रं त्रिकालं भक्तिमान्नरः ।
त्रिसप्तशतमावर्त्य होमं वा सप्तरात्रकम् । । ३४
राज्यकामो लभेद्राज्यं धनकामो लभेदधनम् ।
रोगार्तो मुच्यते रोगाद्यथा साम्बस्तथैव सः । । ३५
सूर्यलोकं व्रजेच्चापि भक्त्या पूज्य दिवाकरम् ।
रमते च तथा तस्मिन्देवैश्च परिवारितः । । ३६

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने सूर्यप्रसादवर्णनं नाम सप्तविंशत्यधिकशततमोऽध्यायः । १२७ ।