प्रसादलक्षणवर्णनम्

शतानीक उवाच
कथं साम्बेन विप्रेन्द्र प्रतिष्ठा कारिता रवेः ।
कस्य वा वचनात्तेन प्रासादः कारितो रवेः । । १
सुमन्तुरुवाच
अत्र ते वच्मि राजेन्द्र यथा साम्बेन धीमता ।
प्रतिष्ठा कारिता भानोः प्रसादश्च महीपते । । २
सुलब्ध्वा प्रतिमां भानोश्चिन्तयामास नारदम् ।
स चापि चिन्तितश्चागाद्यत्र जाम्बवतीसुतः । । ३
तमागतमभिप्रेक्ष्य नारदं मुनिसत्तमम् ।
सम्पूज्य विधिवत्सांबो नारदं वाक्यमब्रवीत् । ।४
प्रासादं कारयेद्यस्तु भास्करस्य नरो द्विज ।
किं फलं तस्य देवर्षे प्रतिष्ठां यश्च कारयेत् । । ५
नारद उवाच
प्रासादं शोभने देशे यस्तु कारयते रवेः ।
स याति नरशार्दूल सूर्यलोकं न संशयः । । ६
साम्ब उवाच
कथं कुर्यादायतनं कस्मिन्देशे द्विजोत्तम ।
कीदृक्छस्तं चायतनं देवदेवस्य१ वै द्विज । । ७
नारद उवाच
यत्र प्रभूतं सलिलमागमे च विनाशने ।
देवतायतनं कुर्याद्यशोधर्मविवृद्धये । । ८
इष्टापूर्तेन लभते लोकांस्तांश्च१ विभूषितान् ।
देवानामालयं कार्यं द्वयं यत्र च दृश्यते । । ९
सलिलाद्यं च आरामः कृतेष्वायतनेषु च ।
स्थानेष्वेतेषु सान्निध्यमुपगच्छन्ति देवताः । । 1.130.१०
सरःसु नलिनीच्छन्ननिरस्तरविरश्मिषु ।
हंससंक्षिप्तकह्लारवीथीविमलवारिषु । । ११
हंसकारण्डवक्रौञ्चचक्रवाकविराविषु ।
पर्यन्तविमलच्छायाविश्रान्तजनचारिषु । । १४
क्रौञ्चकाञ्चीसुलापाश्च कलहंसकलस्वनाः ।
नद्यस्तोयांशुका यत्र शफरीकृतमेखलाः । । १३
फुल्लद्रुमोत्तमावासाः सङ्गमश्रोणिमण्डलाः ।
पुलिनाद्युन्नतोरस्का रसहासाश्च निम्नगाः । । १४
वनोपान्तनदीशैलसंस्करोपान्तभूमिषु ।
रमन्ते देवता नित्यं पुरेषूद्यानवत्सु च । । १५
भूमयो ब्राह्मणादीनां याः प्रोक्ता वास्तुकर्मणि ।
ता एवं तेषां शस्यन्ते देवतायतनेष्वपि । । १६
चतुःषष्टिपदं कुर्याद्देवतायतनं सदा ।
द्वारं च मध्यमं तस्मिन्समदिक्सम्प्रशस्यते । १७
यो विस्तारो भवेत्तस्य द्विगुणा तत्समुन्नतिः ।
उच्छ्रायस्तु तृतीयोऽथ तेन तुल्या कटिर्भवेत् । । १८
विस्तारार्धो भवेद्गर्भो भिन्नयोन्याः समन्ततः ।
गर्भपादोनविस्तीर्णं द्वारं द्विगुणमुच्छ्रितम् । । १९
उच्छ्रयात्पादविस्तीर्णा शाखा तद्वदुदुम्बरी ।
विस्तारात्पादप्रतिमाद्बाहुल्यं शेषयोः स्मृतम् । । 1.130.२०
नृपं सप्तनवभिः शाखाभिस्तत्प्रशस्यते ।
अथ शाखाचतुर्भागे प्रतिहारौ निवेशयेत् । । २१
शैलमङ्गल्यविहगः श्रीवृक्षः स्वस्तिकैर्घटैः ।
मानाष्टमेन१ भागेन प्रतिमा स्यात्सपिण्डिका । । २२
द्विभागा प्रतिमा तत्र तृतीयो भागपिण्डिका ।
पूर्वे मेरुर्महाबाहो कैलासश्च तथापरे । । २३
भवन्ति चापरे वीर विमानच्छदनं तथा ।
समुद्रपद्मगरुडनन्दिवर्द्धनकुञ्जराः । । २४
गृहराजो वृषो हंसः सर्वतोभद्रको घटः ।
सिंहो वृषश्चतुष्कोणः षोडशाष्टाश्रयस्तथा । । २५
इत्येते विंशतिः प्रोक्ताः प्रासादा यदुनन्दन ।
यथोक्तानुक्रमेणैव लक्षणानि वदामि ते । । २६
नवत्रिंशदुच्छ्रितमेरुर्द्वादशभौमो विविधकुहरश्च । द्वारैर्युतश्चतुभिर्द्वात्रिंशद्धस्तविस्तीर्णः । । २७
त्रिंशद्धस्तायामो दशभौमः सप्त मन्दरः ।
शिखरयुतः कैलासोऽपि शिखरवानष्टाविंशोष्टभौमश्च । । २८
जालगवाक्षैर्युक्तो विमानसंज्ञस्त्रिसप्तकायामः ।
नन्दन इति वै भौमो द्वात्रिंशत्षोडशाङ्गयुतः । । २९
वृत्तः समुद्गनामा पद्माकृतिरयं चाष्टौ ।
शृङ्गेणैकेन भवेदेकेन च भूमिका तस्य । । 1.130.३०
गरुडाकृतिश्च गरुडो नन्दी वै षष्टिविस्तीर्णः ।
कायश्च सप्तभौमो विभूषितोंऽगैश्च सप्तविंशतिभिः । । ३१
कुञ्जर इति गजपृष्ठः षोडशाहस्तोच्छ्रितो मध्ये ।
गृहराजः षोडशकस्त्रिचक्रशाला भवेद्वलभी । । ३२
वृष एवं मृमिशृङ्गो द्वावशहस्तः समुन्नतो वृत्तः ।
हंसो हंसाकारो घटोऽष्टसहस्रकलशरूपः । । ३३
द्वारैर्युतश्चतुर्भिर्बहुशिखरो भवति सर्वतोभद्रः ।
बहुरुचिरचन्द्रशालः षप्तविंशद्भागभूमिश्च । । ३४
सिंहः सिंहाकारो१ द्वादशकोणोऽष्टहस्तश्च । । ३५
सहस्रत्रितयं चैव कथितं विश्वकर्मणा ।
प्राहुः स्थापयतश्चात्र मतमेकं विपश्चितः । । ३६
कपोतपालिनीयुक्तमतो गच्छति तुल्यताम् । । ३७
साम्ब उवाच
य एते कथिता विप्र प्रासादा विंशतिस्त्वया ।
तेषां सूर्यस्य कः कार्यः प्रासादो भास्करस्य तु । । ३ ८
स्थानानि यानि चोक्तानि प्रासादस्य द्विजोत्तम ।
तेषां त्वयोक्तं हि पुरं व्ययवद्भिर्नरैर्युतम् । । ३ ९
तस्मिन्प्रदेशे वै कार्यं भानोर्मन्दिरमुत्तमम् ।
दिशां भागे च कतमे ब्रूहि शेषं द्विजोत्तम । । 1.130.४०
नारद उवाच
पुरमध्यं समाश्रित्य कुर्यादायतनं रवेः ।
दिशां भागेऽथ वा पूर्वे पूर्वद्वारसमीपतः । । ४१
भूमिं परीक्ष्य पूर्वं तु कुर्यादायतनं ततः ' ।
इष्टगन्धरसोपेता निम्ना२ भूमिः प्रशस्यते । ४२
शर्करातुषकेशास्थिक्षाराङ्गारविवर्जिता ।
मेघदुन्दुभिनिर्घोषा सर्वबीजप्ररोहिणी । । ४३
शुक्ला रक्ता तथा पीता कृष्णा च कथिता क्षितिः ।
द्विजराजन्यवंश्यानां शूद्राणां च यथाक्रमम् । । ४४
परीक्षितायां तस्यां तु मध्ये तस्याः प्रमाणतः ।
उपलिप्य चतुर्हस्तं चतुरस्रं च समन्ततः । । ४५
हस्तमात्रमधः कृत्वा मध्ये तस्या दशाङ्गुलम् ।
गर्तमुत्कीर्य तेनैव पांसुना प्रतिपूरयेत् । । ४६
समे समगुणा ज्ञेया हीने हीनगुणा भवेत् ।
वर्धमाने तु वै पांसौ भवेद्वृद्धिकरी क्षितिः । । ४७
नित्यं सम्मुखमर्कस्य कदाचित्पश्चिमामुखम् ।
स्थापनीयं गृहं सम्यक्प्राङ्मुखस्थानकल्पनात् । । ४८
भवनाद्दक्षिणे पार्श्वे रवेः स्नानगृहं भवेत् ।
अग्निहोत्र गृहं कार्यं रवेरुत्तरतः शुभम् । ।
उदङ्मुखं भवेच्छम्भोर्मातॄणां गृहमेव च । । ४९
ब्रह्मा पश्चिमतः स्थाप्यो विष्णुरुत्तरतस्तथा ।
निम्बस्तु दक्षिणे पार्श्वे वामे राज्ञी प्रकीर्तिता । । 1.130.५०
पिंगलो पक्षिणे७ भानोर्वामतो दण्डनायकः ।
श्रीमहाश्वेतयोः स्थानं पुरतस्त्वंशुमालिनः । । ५१
ततःस्थाप्याश्विनोः स्थानं पूर्वदेवगृहाद्वहिः ।
द्वितीयायां तु कक्षायां राज्ञास्रौषौ व्यवस्थितौ । । ५२
तृतीयायां तु कक्षायां स्थितौ कल्माषपक्षिणौ ।
जण्डकामचरौ१ स्थाप्यौ दक्षिणां दिशमाश्रितौ । । ५३
उदीच्यां स्थापनीयस्तु कुबेरो लोकपूजितः ।
उत्तरेण ततस्तस्य रेवतः सविनायकः । । ५४
यत्र वा विद्यते स्थानं दिक्षु सर्वा गुहादयः ।
द्वे मण्डलेऽर्घ्यदानार्थं कार्ये सव्यापसव्यतः । । ५५
दद्यादुदयवेलायामर्घं सूर्याय दक्षिणे ।
उत्तरे मण्डले दद्यादर्घ्यमस्तमने रवेः । । ५६
चक्राकृतां तथान्यस्मिन्देवस्य प्रतिमां रवेः ।
स्थापयेद्विधिवद्वीर चतुर्भिः कलशैः शुभैः । । ५७
नानातूर्यनिनादैश्च शङ्खशब्दैश्च पुष्कलैः ।
तृतीये मण्डले ह्येव पूजनीयो दिवाकरः । । ५८
चतुरस्रं चतुःशृङ्गं व्योम देवगृहाग्रतः ।
प्रतिमायास्तु सूत्रेण कार्यं मध्येऽस्य मण्डलम् । । ५९
दिण्डी स्थाप्यः पुरस्तस्मादादित्याभिमुखः स्थितः ।
यदेतत्कथितं व्योम सर्वदेवमयं मया । । 1.130.६०
मध्याह्ने तस्य दातव्यमर्घ्यमत्र यदूत्तम ।
अथ वा मण्डलं चान्यत्तृतीयं चक्रसम्मितम५ । । ६१
स्थापयित्वा तु देवेशं दातव्योऽर्घः सुपण्डितैः ।
देवस्य पुरतः कार्यं व्योमस्थानं समीपतः । ।
पुस्तकवाचनस्थानमथ वा यत्र रोचते । । ६२
एष स्थानविधिः प्रोक्तो देवतानां यथाक्रमम् ।
गृहराज्ञोऽथ रुद्रस्तु द्वावेतौ भास्करप्रियौ । । ६३

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने प्रासादलक्षणवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः । १३० ।