भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३१

दारुपरीक्षावर्णनम्

नारद उवाच
अथ ते सम्प्रवक्ष्यामि प्रतिमाविधिविस्तरम् ।
सर्वेषामेव देवानामादित्यस्य विशेषतः । । १
अर्चा१ सप्तविधा प्रोक्ता भक्तानां शुभवृद्धये ।
काञ्चनी राजती ताम्री पार्थिवी शैलजा स्मृता । । २
वार्क्षी चालेख्यका चेति मूतिस्थानानि सप्त वै ।
वार्क्षीविधानं ते वीर वर्णयिष्याम्यशेषतः । । ३
कर्त्रनुकूले दिवसे संवत्सरविशोधिते ।
शुभैर्निमित्तैः शकुनैः प्रस्थानैश्च वनं विशेत् । । ४
क्षीरिणो वर्जिताः सर्वे दुर्बलास्ते स्वभावतः ।
चतुष्पथेषु न ग्राह्या ये च पुत्रकवृक्षकाः२ । । ५
देवतायतनस्था ये तथा वल्मीकसम्भवा ।
उत्कीर्णा देवता येषु चैत्यवृक्षाश्च ये स्मृताः । । ६
श्मशानभूमिजा ये च पक्षिणां निलयाश्च ये ।
सकोटराश्च ये वृक्षाः शुष्काग्रा ये च पादपाः । । ७
शस्त्रेण निहता ये च कुञ्जराशास्तथा कृताः ।
सामाद्याः सरुजोऽधश्च व्याधिनश्च तथैव च । । ८
अकाले पुष्पिता ये च काले ते च विवर्जिताः ।
शीर्णपर्णाश्च तरवो रक्षोध्वांक्षनिषेविताः । ।
एकशाखातिशाखाश्च त्रिशाखाश्च तथाधमाः । । ९
मधूको देवदारुश्च वृक्षराजश्च चन्दनः ।
बिल्वश्चाम्रातकश्चैव खदिरोथाञ्जनस्तथा । । 1.131.१०
निम्बः श्रीपर्णवृक्षश्च पनसः सरलोऽर्ज्जुनः ।
रक्तचन्दनपर्यन्ताः श्रेष्ठाः स्युः प्रतिमाद्रुमाः । । ११
वर्णानामानुपूर्व्येण द्वौ द्वौ वृक्षौ प्रकीर्तितौ ।
निम्बाद्याः सर्ववर्णानां वृक्षा साधारणाः स्मृताः । । १२
कथ्यमानान्विशेषेण शृणु वीर तथापरान् ।
सुरदारुः शमी चैव मधूकश्चन्दनस्तथा । ।
एते वै तरवस्तात ब्राह्मणानां शुभाः स्मृताः । । १३
क्षत्रस्य च तथारिष्टः खदिरस्तिन्दुकस्तथा ।
अश्वत्थश्च तथा साम्ब द्रुमः करकतः शुभः । । १४
वैश्यानां तद्वदेव स्युः खदिरश्चन्दनस्तथा ।
पुण्याश्च तरवश्चैते शुभदास्तु तथैव च । । १५
केसरः सर्जकश्चाम्रः शालवृक्षस्तथेतरः ।
एते वै तरवः पुण्याः शूद्राणां शुभदायकाः । । १६
लिङ्गं च प्रतिमां चैवमवस्थाप्य यथाविधि ।
वृक्षं चाभिमतं गत्वा पूजयेद्बलिपुष्पकैः । । १७
शुचौ देशे विविक्ते च केशांगारविवर्जिते ।
प्रागुदक्सूचके देशे लोककष्टविवर्जिते । । १८
विस्तीर्णस्कन्धविटपः षत्रवानृजुवृद्धिगः ।
आतङ्कहीनो विवशः सत्त्वक्पर्णः शुभस्तथा । १९
स्वेनैव पतिता ये च हस्तिभिः पातितास्तथा ।
शुक्लाश्च वह्निदग्धाश्च पक्षिभिश्चापि वर्जिताः । । 1.131.२०
तरवो वर्जनीयाश्च ग्रहीतव्याः शुभा द्रुमाः ।
स्निग्धरूपाः सपर्णाश्र सपुष्पाः सफलास्तथा । । २१
तेषां तु ग्रहणं चाष्टमासेषु कार्त्तिकादिषु ।
भूत्वा शुभदिने चैव सोपवासोऽधिवासयेत् । । २२
समन्तादुपलिप्याथ तस्याधस्ताद्वसुन्धराम् ।
गायत्र्या परिपूतेन परितः प्रोक्ष्य वारिणा । । २३
शुक्ले च परिधूते च परिधाय च१ वाससी ।
पूजयेद्गन्धमाल्यैश्च सधूपबलिकर्मभिः । । २४
ततः कुशैः परिस्तीर्णे हुत्वाग्नौ तस्य चान्तिके ।
देवदारुसमिद्भिश्च मन्त्रेणानेन तत्त्ववित् । । २५
ॐ भूर्भुवः सुवरिति ततो वृक्षं च पूजयेत् ।
ॐ प्रजापतये सत्यसदाय नित्यं श्रेष्ठन्तरात्मन्त्सचराचरात्मन् । ।
सान्निध्यमस्मिन्कुरु देव वृक्षे सूर्यावृतं मण्डलमाविशेश्च नमः । । २६
नारद उवाच
एवं सम्पूजयित्या तु वाक्यैस्तं परिसान्त्वयन् ।
वृक्षलोकस्य शान्त्यर्थं गच्छ देवालयं शुभम् । । २७
देव त्वं स्थास्यसे तत्र च्छेददाहविवर्जितः ।
काले धूपप्रदानेन सपुष्पैर्बलिकर्मभिः । । २८
लोकास्त्वां पूजयिष्यन्ति ततो यास्यसि निर्वृतिम् ।
वृक्षमूले कुठारं तु धूपमाल्यैः प्रपूज्य च । । २९
पूर्वतस्तु शिरः कृत्वा स्थापनीयः प्रयत्नतः ।
परमान्नमोदकौदनपलपूपिकादिभिर्भक्ष्यैः । । 1.131.३०
मद्यैः कुसुमैर्धूपैर्गन्धैश्च तरुं समभ्यर्च्य । सुरपितृपिशाचराक्षसभुजङ्गसुरगणविनायकाद्यानाम् । । ३१
कृत्वा पूजां रात्रौ वृक्षं संस्पृश्य च ब्रूयात् । । ३२
अर्चासु देवदेव त्वं देवैश्च परिकल्पितः ।
नमस्ते वृक्ष पूजेयं विधिवत्परिगृह्यताम् । । ३३
यानीह भूतानि वसन्ति तानि बलिं गृहीत्वा विधिवत्प्रयुक्तम् ।
अन्यत्र वासं परिकल्पयन्तु क्षमन्तु ते चाद्य नमोऽस्तु तेभ्यः । । ३४
प्रभातायां तु शर्वर्यां पुनः सम्पूज्य तं नगम् ।
ब्राह्मणेभ्यस्ततो दत्त्वा भोजकेभ्यश्च दक्षिणाम् । ।
छिन्द्याद्वनस्पतींस्तज्ज्ञैस्तै कृतस्वस्तिवाचनैः । । ३५
पूर्वस्यां दिशि पातोऽस्य ऐशान्यां चापि यो भवेत् ।
अथवा उत्तरस्यां तु तथा छिन्द्यात्तु१ नान्यथा । । ३६
ऐन्द्र्यैशान्योरुदीच्यां चः पातस्तिसृषु शस्यते ।
नैर्ऋत्याग्नेययाम्यासु दिक्षु पातो न शोभनः । ।
वायव्यां चैव वारुण्यां तस्य पातस्तु मध्यमः । । ३७
यस्य बाह्यस्थिता शाखा दिक्षु नष्टा चतसृषु ।
वास्तुपूर्वं ततः स्थित्वा ततः पश्चादवस्थिता । । ३८
अविलग्नमशब्दं तु पतनं तु प्रशस्यते ।
उत्पद्येद्द्विदलं यस्य द्रावश्च मधुरो भवेत् । । ३९
सर्पिस्तैलं क्षरेद्यस्य पादपं तं विवर्जवेत् ।
शुभदं यदुशार्दूल शृणु त्वं कथये शुचि । । 1.131.४०
वृक्षं प्रभाते सलिलैर्निषिक्तं पूर्वोत्तरस्यां दिशि सन्निकृत्य ।
मध्वाज्यदिग्धेन कुठारकेण प्रदक्षिणां शोषमभिप्रहण्यात् । । ४१
पूर्वोत्तरेऽप्युत्तरदिग्विभागे पाते यदा वृद्धिकरस्तदा स्यात् ।
आग्नेयकोणक्रमशोऽग्निदाह उग्रोग्ररोगाः सुधनक्षयश्च । ।४२
गारुडे दिशि पाषाणं कपोतो गृहगोधिका ।
सितवर्णं जलं ज्ञेयमङ्गुष्ठाभं भवेत्कृमिः । ।
दोषैरेतैर्विनिर्मुक्तं मुदा कालं समुद्धरेत् । । ४३

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे दारुपरीक्षावर्णनं नामैकत्रिंशदधिकशततमोऽध्यायः । १३१ ।