भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १३२
श्रीसूर्यप्रतिमालक्षणवर्णनम्
नारद उवाच
हन्त ते सर्वदेवानां प्रतिमालक्षणं परम् ।
वच्मि ते यदुशार्दूल आदित्यस्य विशेषतः । । १
एकहस्ता द्विहस्ता वा त्रिहस्ता वा प्रमाणतः ।
तथा सार्द्धत्रिहस्ता च सवितुः प्रतिमा शुभा । । २
प्रसादाद्द्वारतो वापि प्रमाणं च प्रकल्पितम् ।
तद्वत्प्रयाणं कर्तव्यं सततं शुभमिच्छता । । ३
एकहस्ता भवेत्सौम्या द्विहस्ता धनधान्यदा ।
त्रिहस्ता प्रतिमा भानोः सर्वकामप्रदा स्मृता । । ४
सार्धत्रिहस्ता प्रतिमा सुभिक्षक्षेमकारिणी ।
अग्रे मध्ये च मूले च प्रतिमा सर्वतः समा । ।
गान्धर्वी सा तु विज्ञेया धनधान्यावहा स्मृता । । ५
देवागारस्य यद्द्वारं तस्मादष्टांशमुद्यता ।
विभागैः पिण्डिकाः कार्या द्वौ भागौ प्रतिमा भवेत् । । ६
अङ्गुलैश्च तथा मूर्तिश्चतुरशीतिसंमितैः ।
विस्तारायामतः कार्या वदनं द्वादशाङ्गुलम् । । ७
मुखात्त्रिभागैश्चिबुकं ललाटं नासिका तथा ।
कर्णौ नासिकया तुल्यौ पादौ चानियतौ तयोः । । ८
नयने द्व्यंगुले स्यातां त्रिभागा तारका भवेत ।
तृतीयतारकाभागात्कुर्याद्दृष्टिं विचक्षणः । । ९
ललाटमस्तकोत्सेधं कुर्यात्तत्सममेव च ।
परिणाहस्तु शिरसो भवेद्द्वाविंशदङ्गुलः । । 1.132.१०
तुल्या नासिकया ग्रीवा मुखेन हदयांतरम् ।
मुखमात्रा भवेन्नाभिस्ततो मेढ्रमनन्तरम् । ।
मुखविस्तारणमुरस्ततोऽर्द्धं तु कटिः स्मृता । । ११
बाहू प्रवाहतुल्यौ तु ऊरू जङ्घे च तत्समे ।
गुल्फाधस्तात्तु पादः स्यादुच्छ्रितश्चतुरङ्गुलः । । १२
षडङ्गुलसुविस्तारस्तस्याङ्गुष्ठाङ्गुलत्रयम् ।
प्रदेशिनी च तत्तुल्या हीना शेषा नखैर्युताः । । १३
चतुर्दशाङ्गुलः पाद आयामात्परिकीर्तितः ।
एवं लक्षणसंयुक्ता प्रतिमार्च्या भवेत्सदा । । १४
अंसौ हरेस्तथैवोरू ललाटं च सनासिकम् ।
नियते नयने गण्डौ मूर्तेः कुर्यात्समुन्नते । । १५
विशालधवलावामपक्ष्मलायतलोचने ।
सस्मिताननपद्मस्य चारुबिम्बाधरस्तथा । । १६
रत्नप्रोद्भासिमुकुटकटकाङ्गदहारवान् ।
अव्यङ्गपदमध्यादिसमायोगोऽपि शोभितः । । १७
सुप्रभो मण्डलश्चारुर्विचित्रमणिकुण्डलः ।
कराभ्यां काञ्चनीं मालां प्रोद्वहन्ससरोरुहाम् । । १८
एवं लक्षणसंयुक्तां कारयेदीहितप्रदाम् ।
प्रजाभ्यश्च सदा भानुः शिवारोग्याभयप्रदः । । १९
अल्पाङ्गायां नृपभयं हीनाङ्गायामकल्पता ।
खातोदर्यां च क्षुत्पीडा कृशायां तु दरिद्रता । । 1.132.२०
सक्षतायां भयं शस्त्रात्स्फुटिता मृत्युकारिणी ।
दक्षिणावनतायां तु शश्वदायुः क्षयो भवेत् । । २१
उत्तरावनतायां तु वियोगो भवति ध्रुवम् ।
नालोक्या नाप्यनालोक्या रक्ष्यामूर्तिः प्रशस्यते । । २२
तस्माद्भास्करभक्तेन लोकद्वयहितैषिणा ।
तन्मूर्तेश्चादरः कार्यस्तदधीनास्तु सम्पदः । । २३
शिरोरुगण्डवदनैः सर्वाङ्गावयवैस्तथा ।
एवं लक्षणसंपूर्णा प्रतिमा भवते शुभा । । २४
नासाललाटजङ्घोरुदण्डवक्षोभिरन्विता ।
कुर्यादादित्यवेषं तु गूढपादोदरं तथा । । २५
कमलोदरकान्तिनिभः कञ्चुकगुप्तः प्रसन्नमुखः ।
रक्तोत्पलप्रभामण्डलश्च कर्तुः शुभं करोत्यर्कः । । २६
कुण्डलभूषितवदनः प्रलम्बहारोऽपि गृहवृत्तः ।
नृपतिभयं व्यङ्गायां हीनाङ्गायामकल्पना कर्तुः । । २७
खातोदर्यां क्षुद्भयमर्थविनाशः कृशाङ्गायाम् ।
मरणं तु सक्षतायां शस्त्रनिपातेन निर्दिशेत्कर्तुः । । २८
वामोन्नता तु पत्नीं दक्षिणावनता हिनस्त्यायुः ।
अन्धत्वमूर्द्ध्वदृष्टिः करोति चिन्तामधोमुखी दृष्टिः । । २९
सर्वप्रतिमास्वेवं शुभाशुभं भास्करेणोक्तम् ।
ब्रह्मा कमण्डलुकरश्चतुर्मुखः पङ्कजस्थश्च । । ३०
स्कन्दः कुमाररूपः शक्तिधरो बर्हिकेतुश्च ।
शुक्लश्चतुर्विषाणो द्विपो महेन्द्रस्य वज्रपाणित्वम् । । ३१
तिर्यगूर्ध्वललाटसंस्थं तृतीयमपि लोचनं चिह्नम् । । ३२
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे साम्बोपाख्याने श्रीसूर्यप्रतिमालक्षणवर्णनं नाम द्वात्रिंशदधिकशततमोऽध्यायः । १३२ ।