भविष्यपुराणम् /पर्व १ (ब्राह्मपर्व)/अध्यायः १५२

सूरधर्मेषु प्रश्नवर्णनम्

सुमन्तुरुवाच
सूरे च दुर्लभा भक्तिर्दुर्लभं सुरपूजनम् ।
सूराय दुर्लभं दानं सूरहोमश्च दुर्लभः । । १
सुदुर्लभं रवेर्ज्ञानं तदभ्यासोऽपि दुर्लभ ।
सुदुर्लभतरं ज्ञेयं खषोल्कज्ञानमुत्तमम् । । २
सुदुर्लभतरं ज्ञानं सदा वै भास्करस्य तु ।
प्रदक्षिणां चक्रतुर्वै पादौ भक्त्याऽर्कमन्दिरे । । ३
तौ करौ श्लाघ्यतां प्राप्तौ यौ पूजां चक्रतू रवेः ।
सैवैका रसना धन्या स्तोत्रं या कुरुते रवेः । । ४
तन्मनः पुण्यतां प्राप्तं यद्धित्वा विषयं नृप ।
निश्चला च रवेर्लीला निर्भीका क्रोधवर्जिता । । ५
शतानीक उवाच
सूर्यार्चनविधिं कुर्वञ्छ्रोतुमिच्छामि तत्त्वतः ।
त्वत्प्रसादाद्द्विजश्रेष्ठ कौतूहलमतीव मे । । ६
यत्पुण्यं स्थापिते सूर्ये कृते सूर्यालये च यत् ।
सम्मार्जने च यत्पुण्यं यत्पुण्यमुपलेपने। । ७
स्थाने कृते च यत्पुण्यं तथा नीराजने कृते ।
नीलौषधिप्रवापेन नृत्यमङ्गलवादितैः । । ८
अर्घ्यदानेन यत्पुण्यं तोयस्नानेन यद्भवेत् ।
पञ्चामृतमयस्नाने दधिस्नाने च यत्फलम् । । ९
 चक्राभ्यङ्गे च यत्प्रोक्तं वज्रस्नाने च यत्फलम् ।
मधुस्नाने पयःस्नाने स्नान इक्षुरसस्य तु । । 1.152.१०
उद्वर्तनं शुचिस्थाने कुशपुष्पोदकेन तु ।
सुवर्णरत्नतोयैश्च गन्धचन्दनवारिभिः । । ११
कर्पूरागुरुतोयेन स्वच्छतो येन यत्फलम् ।
विलेपनैश्च गन्धाढ्यैर्विलेपनफलं लभेत् । । १२
तालपत्रप्रदाने तु प्रदाने चामरस्य तु ।
रक्तपुष्पार्चने यच्च दामभिः पूजनेन च । । १३
सुमानां मण्डपे यच्च पुष्पमालावलम्बनात् ।
पूजाभक्तिविशेषैश्च गृहमालावलम्बने । । १४
पुष्पदानविशेषेण धूपदीपैश्च यत्फलम् ।
वस्त्रालङ्कारदाने तु पुण्यश्रवणकीर्तने । । १५
ब्रह्मश्रवस्य दाने तु अव्यङ्गस्य च गोपते ।
मगानां मत्प्रसादेन अभिवादनपूजने । । १६
व्योमपूजाफलं यच्च अरुणस्य च पूजनम् ।
तथान्यदपि यत्प्रोक्तमज्ञानाद्ब्राह्मणोत्तम । । १७
तत्सर्वं ब्रूहि मे ब्रह्मन्भक्तानामनुकम्पया । । १८

इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सूरधर्मेषु प्रश्नवर्णनं नाम द्विपञ्चाशदधिकशततमोऽध्यायः । १५२ ।